| YouTube Channel

उद्वर्त्तनं (udvarttanaM)

 
शब्दकल्पद्रुमः
Sanskrit
उद्वर्त्तनं,
क्ली,
(उत् + वृत् + णिच् + भावे करणे वाल्युट् ।) उत्पतनम् (यथा, मेघदूते ४२ ।मोघीकर्त्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि” ।)विलेपनम् घर्षणम् इति मेदिनी
(यथा, मनुः १३२ ।“उद्वर्त्तनमपस्नानं विण्मूत्रे रक्तमेव ।श्लेष्मनिष्ठूतवान्तानि नाधितिष्ठेत्तु कामतः”
)शरीरनिर्म्मलीकरणगन्धद्रव्यादि तत्पर्य्यायः ।उत्सादनम् इत्यमरः
हरिद्रा सेवन आवटनइत्यादि भाषा सामान्योद्वर्त्तनगुणाः कफवा-युमेदोवातरोगनाशित्वम् अङ्गस्थैर्य्य-चर्म्मनिर्म्मल-कारित्वञ्च
हरिद्राद्युद्वर्त्तनगुणाः कण्डूवैवर्ण्य-रूक्षताहारित्वम्
तिलोद्वर्त्तनगुणाः कण्डूरूक्ष-तात्वग्दोषनाशित्वम् इति राजवल्लभः
(“उद्वर्त्तनं वातहरं कफमेदोविलापनम् ।स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्
शिरासुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम्
इति चिकित्सितस्थाने २४ अध्याये सुश्रुते-नोक्तम्
)