| YouTube Channel

उद्यन् (udyan)

 
E Bharati Sampat
Sanskrit
(वि)(उद्यत्) उद्+इण्(गतौ)+शतृ ‘लटः शतृशानचावप्रथमासमानाधिकरणे’ ३.२.१२४। १.उत्तिष्ठन् ‘अथोच्चकैरासनतः परार्ध्यादुद्यन् धूतारुणवल्कलाग्रः’ किराता०२.५७। २.उद्गमः। ‘उद्यत्कृशानुशकलेषु खुराभिघातात्’ माघः५.९। ३.उदयमानः। ‘नेक्षेतोद्यन्तमादित्य नास्तं यन्तं कदाचन’ मनुः४.३७। (स्त्री) उद्यन्ती