उद्गीथ (udgItha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English उद्गीथ udgItha second part of the sAma-veda
उद्गीथ udgItha syllable om
उद्गीथ udgItha chanting of the sAma-veda
Wilson
EnglishApte
Englishउद्गीथः [udgīthḥ], [उद्-गै-थक्]
Chanting of the Sāmaveda (the office of an Udgātṛi). सामासाद उद्गीथे$पश्चयः 15.3.8. ŚB. on MS.* 1.4.44.
(The second part of the Sāmaveda
एष उ वा उद्गीथः प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धं वागेव गीथोच्चगीथा चेति स उद्गीथः Bṛi. up.1.3.23.) भूयांस उद्गीथविदो वसन्ति 2.3.
Designation of ओम् the three syllabled name of God
ओमित्येदक्षरमुद्गीथमुपासीत Ch. 1.1.1.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiउद्गीथः
- उद्+गै+थक्
सामवेद के मन्त्रों का गायन
उद्गीथः
- उद्+गै+थक्
सामवेद का उत्तर्राध
उद्गीथः
- उद्+गै+थक्
ओम्' जो परमात्मा का तीन अक्षरों का नाम है
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritउद्गीथ उद् + गै--थक् । सामगानावयवभेदे ।“उद्गीथरम्यपदपाठवताञ्च साम्राम्” देवीम० । साम्नोहिपञ्चविधाः सप्तविधा वा अवयवाः । “प्रस्तावस्तत उद्गीथःप्रतिहार उपद्रवः । निधनं पञ्चधेत्याहुर्हिङ्कारः प्रणव-स्तथा” माध० भाष्यधृतवाक्यात् । तत्र साम्र आद्योभागःप्रस्तोत्रा गेयः प्रस्तावनामा । द्वितीयोभाग उद्गात्रागेय उद्गीथनामा । तृतीयोभागः प्रतिहर्त्त्रा गेयः प्रति-हारनामा । चतुर्थोभागः पुनरुद्गात्रा गेय उपद्रवनामा ।पञ्चभिर्युगपत् गेयः निधननामा इति पञ्चविधः । गानारम्भकाले सर्वैरृत्विग्भिर्मिलित्वा हुङ्कारकरणरूपो हिङ्कारः, ओङ्कारपूर्व्वकत्वात् सर्वेषां वेदानां प्रणवरूपः प्रथमा-वयवः इति सप्तावयवयत्वं तदेतत् छा० उप० दर्शितम् यथा“समस्तस्य खलु साम्न उपासनं साधु” इति साधुत्वोपन्यासे-न “अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारोद्यौर्निधनमित्यूर्द्धेषु अथावृत्तेषु द्यौर्हिङ्कार आदित्यःप्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिरिक्षमुद्गीथोऽग्निः प्रति-हारः पृथिवी निधनम्, । कल्पन्ते हास्मै लोका ऊर्द्ध्वाश्चावृत्ताश्च य एतदेवं विद्वाल्लोँकेषु पञ्चविधं सामोपास्ते”वृष्टौ पञ्चविधस्योपासनमुक्तं तत्रैव“वृष्टौ पञ्चविधं सामोपासीत पुरोवातो हिङ्कारो, मेघोजायते स प्रस्तावो, वर्षति स उद्गीथो, विद्योतते स्तनयतिस प्रतिहारः, उद्गृह्णाति तन्निधनं, वर्षति हास्मै वर्षयतिह य एतदेवंविद्वान् वृष्टौ पञ्चविधं सामोपास्ते । सर्व्वा-स्वप्सु पञ्चविधं सामोपासीत मेघो यत् सम्प्लवते सहिङ्कारो, यद्वर्षति स प्रस्तावो, याः प्राच्यः स्यन्दन्ते सउद्गीथो, याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ।न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवंविद्वान् सर्व्वा-स्वप्सु पञ्चविधं सामोपास्ते” ।ऋत्वादिषु पञ्चविधस्योपासनं तत्रैवोक्तम्“ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत्प्रतिहारो, हेमन्तोनिधनम् । कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एत-देवं विद्वानृतुषु पञ्चविध सामोपास्ते” ।“पशुषुपञ्चविधं सामोपासीताजा हिङ्कारो, ऽवयः प्रस्तावो, गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् । भवन्तिहास्य पशवः, पशुमान् भवति य एतदेवंविद्वान् पशुषुपञ्चविधं सामोपास्ते”“प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणोहिङ्कारो, वाक् प्रस्ताव, श्चक्षुरुद्गीथः, श्रोत्रं प्रतिहारो, मनोनिधनं, परोवरीयांसि वैतानि । परोवरीयो हास्यभवति परोवरीयसो ह लोकाञ्जयति य एतदेवंविद्वान्प्राणेषुपङ्कविधं परोवरीयः सामोपास्त इति तु पञ्चवि-धस्य” । वाचि सप्तविधस्य साम्र उपासनं तत्रैवोक्तम्“अथ सप्तविधस्य वाचि सप्तविधं सामोपासीत यत्किञ्चवाचो हुं इति स हिङ्कारो, यत्प्रेति स प्रस्तावो, यदेतिस आदिः, (प्रणवः) । यदुदिति स उद्गीथो, यत्प्रतीति सप्रतिहारो, यदुपेति स उपद्रवो, यन्नीति तन्निधनम् ।दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवतिय एतदेवं विद्वान्वाचि सप्तविधं सामोपास्ते” ।आदित्ये सप्तविधस्योपासनं तत्रैवोक्तम्“अथ स्वल्वमुमादित्यं सप्तविधं सामोपासीत सर्व्वदासमस्तेन साम । मां प्रतिमां प्रतीति सर्व्वेण समः तेन साम ।तस्मिन्निमानि सर्व्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्ययत्पुरोदयात्स हिङ्कार, स्तदस्य पशवोऽन्वायत्तास्तस्मात्तेहिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः । अथ यत्-प्रथमोदिते स प्रस्ताव, स्तदस्य मनुष्या अन्वायत्तास्तस्मात्तेप्रस्तुतिकामाः प्रशंसाकामाः प्रस्तावभाजिनोह्येतस्य साम्नः ।अथ यत्सङ्गववेलायां स आदित्यः (ओङ्कारः) तदस्य वयां-स्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानंपरिपतन्त्यादिभाजीनि ह्येतस्य साम्नः । अथ यत्सम्प्रतिमध्यन्दिने स उद्गीथ, स्तदस्य देवा अन्वायत्तास्तस्मात्तेसत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ।अथ यदूर्द्ध्वं मध्यन्दिनात् प्रागपराह्णत्स प्रतिहार, स्तदस्यगर्भा अन्वायत्तास्तस्मात्ते प्रतिहृता नावपद्यन्ते प्रतिहार-भाजिनो ह्येतस्य साम्नः । अथ यदूर्द्ध्वमपराह्णात् प्राग-स्तमयात्स उपद्रव, स्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषंदृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनी ह्येतस्य साम्नः ।अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्ता-स्तस्मात्तन्निदधति निधनभाजिनो ह्येतस्य साम्नः । एवंखल्वमुमादित्यं सप्तविधं सामोपास्ते” ।अतिमृत्युफलाय सप्तविधसामोपासनं तत्रैवोक्तम्“अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधं सामोपासीदहिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ।आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इ-हैकं तत्समम् । उद्गीथ इति त्र्यक्षरमुपद्रव इति चतु-क्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्य-क्षरं तत्समम् । निधनमिति त्र्यक्षरं तत्सममेव भवति, तानि ह वा एतानि द्वाविंशतिरक्षराणि । एकविंशत्या-दित्यमाप्नोत्येकविंशो वा इतोऽसावादित्यो द्वाविंशेन पर-मादित्याज्जयति तन्नाकं तद्विशोकम् । आप्तोतीहादित्यस्यजयं परो हास्यादित्यजयाज्जयो भवति य एतदेवंवि-द्वानात्मसम्मितमतिमत्यु सप्तविधं सामोपास्ते सामोपास्ते” ।पुनः पञ्चविधस्य मनआदिनाम्रा उपासनं तत्रोक्तं यथा“मनो हिङ्कारोवाक्यस्तावच्चक्षुरुद्गीथः श्रोत्रं प्रतिहारःप्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् । स य एवमे-द्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेतिज्योग्जीवति महान् प्रजया पशुभिर्भवति महान्कीर्त्त्या, महामनाः स्यात्तद्व्रतम् । अभिमन्थति स हि-ङ्कारो धूमो जायते स प्रस्तावो ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार उपशाम्यति तन्निधनं संशा-म्यति तन्निधनमेतद्रथन्तरमग्नौ प्रोतम् । स य एवमेतद्रथ-न्तरमग्नौ प्रोतं वेद ब्रह्मवर्चस्व्यन्नादो भवति सर्वमायुरेतिज्योग्जीवति महान् प्रजया पशुभिर्भवति महान्कीर्त्त्या, न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत्तद्व्रतम् ।उपमन्त्रयते स हिङ्कारो ज्ञपयते स प्रस्तावः स्त्रिया सहंशेते स उद्गीथः प्रतिस्त्री सह शेते स प्रतिहारः कालंगच्छति तन्निधनं पारं गच्छति तन्निधनमेतद्वामदेव्यं मि-थुने प्रोतम् । स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेदमिथुनीभवति मिथुनान्मिथुनात् प्रजायते सर्वमायुरेतिज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, न काञ्चन परिहरेत्तद्व्रतम् । उद्यन् हिङ्कारः उदितःप्रस्तावो मध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारोऽस्तं य-न्निधनमेतद्वृहदादित्ये प्रोतम् । स य एवमेतद्वृहदादित्येप्रोतं वेद तेजस्व्यन्नादो भवति सर्वमायुरेति ज्योग्जीवतिमहान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, तपन्तं ननिन्देत्तद्व्रतम् । अभ्राणि सम्प्लवन्ते स हिङ्कारो मेघोजायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तन-यति स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्येप्रोतम् । स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद विरू-पांश्च सुरूपांश्च पशूनवरुन्धे सर्वमायुरेति ज्योग्जीवतिमहान् प्रजया पशुभिर्भवति महान् कीर्त्त्या वर्षन्तं मनिन्देत्तद्व्रतम् । वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षाउद्गीथः शरत् प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषुप्रोतम् । स य एवमेवद्वैराजमृतुषु प्रोत वेद विराजतिप्रजया पशुभिर्ब्रह्मवर्च्चसेन, सर्वमायुरेति ज्योग्जीवतिमहान् प्रजया पशुभिर्भवति महान् कीर्त्त्या, ॠतून्न निन्दे-त्तद्व्रतम् । पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्तावो द्यौरु-द्गीथो दिशः प्रतिहारः समुद्रो निधनमेताः शक्कर्योलोकेषु प्रोताः । स य एवमेताः शक्कर्यो लोकेषु प्रोतावेद लोकी भवति सर्वमायुरेति ज्योग्जीवति महान् प्र-जया पशुभिर्भवति महान् कीर्त्त्या, लोकान्न निन्देत्तद्व्र-तम् । अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गोथोऽश्वाःपतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ।स य एवमेता रैवत्यं पशुषु प्रोता वेद, पशुमान् भवतिसर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवतिमहान् कीर्त्त्या, पशून्न निन्देत्तद्व्रतम् । लोम हिङ्कारःत्वक् प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा नि-धनमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् । स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गीभवति नाङ्गेन विहूर्छतिसर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्मवतिमहान् कीर्त्त्या, संवत्सरं मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञोनाश्नीयादिति वा । अग्निर्हिङ्कारो वायुः प्रस्ताव आदित्यउद्गीथो नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेताद्राजनंदेवतासु प्रोतम् । स य एवमेतद्राजनं देवतासु प्रोतंवेदैतासामेव देवतानां सलोकतां सार्ष्टितां सायुज्यं ग-च्छति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भ-वति महान् कीर्त्त्या, ब्राह्मणान्न निन्देत्तद्व्रतम् । त्रयी विद्याहिङ्कारस्त्रय इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यःस उद्गीथो नक्षत्राणि वयांसि मरीचयः स प्रतिहारःसर्पा गन्धर्वाः पितरस्तन्निधनमेतत्साम सर्वस्मिन् प्रोतम् ।स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ।तदेष श्लोको भवति ‘यानि पञ्चधा त्रीणि तेभ्यो नज्यायः परमन्यदस्ति । यस्तद्वेद स वेद सर्वं सर्वा दिशोबलिमस्मै हरन्ति’ सर्वमस्मीत्युपासीत तद्व्रतम्” ।एवं सामावयवानां तत्तद्दष्ट्योपासनमुक्त्वा उद्गीथरू-पावयवस्य ओङ्कारादिदृष्ट्योपासनयुक्तं तत्रैव यथा“ओमित्येतदक्षरमुद्गीथः तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्कच साम च । तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते यदावै मिथुनौ समागच्छत आपयतो वै तावन्योन्यस्य का-मम् । आपयिता ह वै कामानां भवति य एतदेवं वि-द्वानक्षरमुद्गीथमुपास्ते । तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चा-नुजानात्योमित्येव तदाह एषो एव समृद्धिर्यदनुज्ञा सम-र्द्धयिता ह वै कामानां भवति य एतदेवंविद्वानक्षरमु-द्गोथमुपास्ते । तेनेयं त्रयी विद्या वर्त्तते ओमित्याश्रा-वयत्योमिति शंसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यैमहिम्ना रसेन । तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च नवेद । नाना तु विद्या चाविद्या च । यदेव विद्यया क-रोति श्रद्धयोपनिषदा तदेव वीर्य्यवत्तरं भवतीति खल्वेत-स्यैवाक्षरस्योपव्याख्यानं भवति” । तस्य प्राणदृष्ट्या उपासनमुक्त तत्रैव “देवासुरा ह वैयत्र संयेतिरे उभये प्राजाप-त्यास्तद्व देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ।ते ह नासिक्य प्राणमुद्गीथमुपाञ्चक्रिरे तं हासुराः पा-पना विविधुः तस्मात्तेनोभयं जिंघ्रति सुरभि च दुर्गन्धिच पाप्मना ह्येष विद्धः । अथ ह वाचमुद्गीथमुपसाञ्च-क्रिरे तां हासुराः पाप्मना विविधुस्तस्मात्तयोभयं वदतिसत्यञ्चानृतं च पाप्मना ह्येषा विद्धा । अथ ह चक्षुरु-द्गोथमुपासाञ्चक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्ते-नोभयं पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्वि-द्धम् । अध ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे तद्धासुराः पा-प्मना विविधुस्तस्मात्तेनोभयं शृणोति श्रवणीयञ्चाश्रवणी-यञ्च पाप्मना ह्यतद्विद्धम् । अथ ह मन उद्गीथमुपासाञ्च-क्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं सङ्कल्पतेसङ्कल्पनीयञ्चासङ्कल्पनीयञ्च पाप्मना ह्येतद्विद्धम् । अथ हय एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे तं हासुराऋत्वा विदध्वंसुर्यथाश्मानमाखणम्नत्वा विध्वंसेत । एवंयथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसतेय एवं विदि पापं कामयते यश्चैनमभिदासति स एषोऽ-श्माखणः । नैवैतेन न सुरभि न दुर्गन्धि विजानात्यपहत-पाप्मा ह्यष तेन यदश्नाति यत्पिबति तेनतरान् प्राणान-वति । एतमु एवान्ततोऽवित्वोत्क्रामति व्याददात्येवान्ततइति” । अङ्गिरस्त्वेन तस्योपामनं तत्रैवोक्तम् यथा ।“तं हाङ्गिरा उद्गीथमुपासाञ्चक्र एतमु एवाङ्गिरस मन्यन्तेअङ्गानां यद्रसः । तेन तं ह वृहस्पतिरुद्गीथमुपासाञ्चक्रएतमु एव वृहस्पतिं मन्यन्ते वाग्घि वृहती तस्या एषपतिः । तेन तं हायस्यमुद्गीथमुपासाञ्चक्र एतमु एवायास्यं मन्यन्त आस्याद्यदयते । तेन तं ह वको दाल्भ्योविदाञ्चकार । स ह नैमिषोयाणामुद्गाता बभूव स हस्मैभ्यः कामानागायति । आगाता ह वै कामानां भ-वति य एतदेवंविद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम्अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति । उद्यंस्तमोभयमपहन्त्य-पहन्ता ह वै भयस्य तममो भवति य एवं वेद । समानउ एवायञ्चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममा-चक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममु-ञ्चोद्गीथमुपासीत” ।तस्य व्यानत्वेनोपासनं तत्रैव यथा“अथ खलु व्यानमेवोद्गोथमुपासीत यद्वै प्राणितिस प्राणो यदपानिति सोऽपानः । अथ यः प्राणापा-नयोः सन्धिः स व्यानो यो व्यानः सा वाक् । तस्माद-प्राणन्ननपानन्वाचमभिव्याहरति । या वाक् सर्क् तस्मादप्रा-णन्ननपानन्नृचममिव्याहरति यर्क्तत्साम तस्मादप्राणन्ननपा-नन् साम गायति यत्साम स उद्गोथस्तस्मादप्राणन्ननपा-न्नुद्गायति । अतो यान्यन्यानि वीर्य्यवन्ति कर्म्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत” ।उद्गीथाक्षराणां प्राणादित्वेनोपासनं तत्रोक्तम् ।“अथ खलूद्गीथाक्षराण्युपासीत उद्, गी थ” इति प्राणएवोत्, प्राणेन ह्युत्तिष्ठतिवाग्गी, र्वाचो ह गिर इत्याचक्षतेअन्नं थम्, अन्ने हीदं सर्वं स्थितम् । द्यौरेवोत्, अन्तरिक्षंगीः, पृथिवी थम्, आदित्य एवोत्, वायुर्गीरग्निस्थम्, सामवेदएवोत्, यजुर्वेदो गीः, ऋग्वेदस्थं, दुग्धेऽस्मै वाग्दोहं योवाचो दोहः अन्नवानन्नादो भवति य एतान्येवं विद्वानु-द्गीथाक्षराण्युपास्त उद् गो थ इति” । तस्य प्रणवत्वेनोपासनंतत्रैव “अथ खलु य उद्गीथः स प्रणवः स उद्गीथ इतिहोतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुस माह-रतीति” । तस्य परोववीयस्त्वेनोपासनं तत्रोक्तं यथा“त्रयो होद्गीथे कुशला बमूवुः शिलकः शालावत्यश्चैकि-तायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथेवै कुशलाः स्मो हन्तोदगीथे कथां वदाम इति । तथेतिसमुपविबिशुः स ह प्रवाहणो जैवलिरुवाच भगवन्ता-वग्रे वदतां ब्राह्मणयोर्वदतोर्वाचं श्रोष्यामीति । स हशिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वापृच्छानीति पृच्छेति होवाच । का साम्नो गतिरिति स्वरइति होवाच स्वरस्य का गतिरिति प्राण इति होबाचप्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरि-त्याप इति होवाच । अपां का गतिरित्यसौ लोक इतिहोवाच अमुष्य लोकस्य का गतिरिति न स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लोकं सामाभिसंस्था-पयामः स्वर्गसंस्तावं हि सामेति । तं ह शिलकःशालावत्यश्चैकितायनं दालभ्यमुवाचाप्रतिष्ठित वै किलते दाल्भ्य! साम यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतिष्य-तीति मूर्द्धा ते विपतेदिति । हन्ताहमेतद्भगवत्तो वेदा-नीति विद्धीति होवाच अमुष्य लोकस्य का गतिरित्ययंलोक इति होवाच अस्य लोकस्य का गतिरिति नपतिष्ठां लोकमतिनयेदिति होवाच प्रतिष्ठां वयं लोकंसामाभिसंस्थापयामः पतिष्ठासंस्तावं हि सामेति ।तं ह प्रबाहणो जैवलिरुवाचान्तवद्धै किल ते शालवत्य!साम, यस्त्वेतर्हि ब्रूयान्मूर्द्धा ते विपतीष्यतीति मूर्द्धा तेविपतेदिति हन्ताहमेतद्भगवत्तो वेदानीति विद्धीतिहोवाच । अस्य लोकस्य का गतिरित्याकाश इति होवाचसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तआकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशःपरायणम् । स एष परो वरीयानुद्गीथः स एषो-ऽनन्तः परोवरीयो हास्य भवति परोवरीयसोहलोकान् जयति य एतदेवंविद्वान् परोवरीयांसमुद्गोथमुपास्ते । तं हैतमतिधन्वा शौनक उदरशाण्डि-ल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्तेपरोवरोयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति । तथामुष्मिँल्लोके लोक इति स य एतमेवंविद्वानुपास्ते परो-वरीय एव हास्यास्मिँल्लोके जीवन भवति तथाऽमुप्मिँल्लोकेलोक इति लोके लोक इति” उद्गीथस्य देवताऽपि तत्रोक्ता“अथ हैनमुद्गातोपससादोद्गातः या देवतोद्गीथमन्वा-यत्ता ताञ्चेदविद्वानुद्गास्यसि मूर्द्ध्वा तेंविपतिष्यतीति माभगवानवोचत् कतमा सा देवतेति । आदित्य इति होवाचसर्वाणीह वा इमानि मूतन्यादित्यमुच्चैः सन्तं गायन्तिसैषा देवतोद्गीथमन्वायत्ता ताञ्चेदविद्वानुदगास्यो मूर्द्धा तेव्यपतिष्यक्तथोक्तस्य मयेति” । अत्राकाशादित्यशब्दौ ब्रह्मपरौआकाशस्तल्लिङ्गादित्यादि” शा० सू० भा० व्यवस्थापितम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
