| YouTube Channel

उदावर्त्तः (udAvarttaH)

 
शब्दकल्पद्रुमः
Sanskrit
उदावर्त्तः,
पुं,
(उत् + आङ् + वृत् + घञ् ।) रोग-विशेषः तत्पर्य्यायः गुदग्रहः इति हेम-चन्द्रः
मलमूत्रवायुरोधकरोगः तस्य निदानंसंप्राप्तिश्च यथा निदाने ।“वातविण्मूत्रजृम्भास्रुक्षवोद्गारवमीन्द्रियम् ।क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्त्तसम्भवः”
(अपरञ्चास्य सनिदानसंप्राप्तिक लक्षणं यथा, --“कषायतिक्तोषणरूक्षभोज्यैःसन्धारणाभोजनमैथुनैश्च ।पक्वाशये कुप्यति चेदपानःस्रोतांस्यधोगानि बली रुद्ध्वा
करोति विण्मूत्रसमीरसङ्गंक्रमादुदावर्त्तमतः सुघोरम् ।रुग्वस्तिहृत्कुक्ष्युदरेष्वभीक्ष्णंस पृष्ठपार्श्वेष्वतिदारुणा स्यात्
आध्मानहृल्लासविकर्त्तिकाश्चतोदोऽविपाकश्च सवस्तिशोथः ।वर्च्चोऽप्रवृत्तिर्जठरे गण्डा-न्यूर्द्ध्वञ्च वायुर्व्विहितो गुदे स्यात्
कृच्छ्रेण शुक्रस्य चिरात्प्रवृत्तिःस्याद्वा तनुः स्यात् खररूक्षशीता ।ततश्च रोगा ज्वरमूत्रकृच्छ्र-प्रवाहिकाहृद्ग्रहणीप्रदोषाः
वम्यान्ध्य-बाधिर्य्य-शिरोऽभिताप-वातोदराष्ठीलमनोविकाराः ।तृष्णास्रपित्तारुचिगुल्मकास-श्वासप्रतिश्यार्द्दितपार्श्वरोगाः ।अन्ये रोगा बहवोऽनिलोत्थाःभवन्त्युदावर्त्तकृताः सुघोराः”
अस्य चिकित्सा यथा, --“तं तैलशीतज्वरनाशनोक्तैः, स्वेदैर्यथोक्तैः प्रविलीनदोषम् ।उपाचरेद्वर्त्तिनिरूहवस्ति-स्नेहैर्विरेकैरनुलोमनान्नैः
*
श्यामात्रिवृन्मागधिकाग्निचूर्णंगोमूत्रपिष्टं दशभागमाषम् ।सनीलिकां द्विर्लवणां गुडेनवर्त्तिं कराङ्गुष्ठनिभां विदध्यात्
पिण्याकसौवर्च्चलहिङ्गुभिर्व्वाससर्षपत्र्यूषणयावशूकैः ।क्रिमिघ्नकम्पिल्लकशङ्खिनीभिःसुधार्कजक्षीरगुडैर्युताभिः ।स्यात् पिप्पलीसर्षपराठवेश्म-धूमैः सगोमूत्रगुडैश्च वर्त्तिः
*
श्यामाफलेक्षु सपिप्पलीकंनाड्याथवा तत् प्रधमेत्तु चूर्णम् ।रक्षोघ्नतुम्बीकरहाटकृष्णा-चूर्णं सजीमूतकसैन्धवं वा
*
स्निग्धे गुदे तान्यनुलोमयन्तिनरस्य वर्च्चोऽनिलमूत्रसङ्गम् ।तेषां विघाते तु भिषग्विदध्यात्स्वभ्यक्तसुस्विन्नतनोर्निरूहम्
ऊर्द्ध्वानुलोमौषधमूत्रतैल-क्षाराम्ल-वातघ्नयुतं सुतीक्ष्णम्
*
वातेऽधिकेऽम्लं लवणं सतैलंक्षीरेण पित्ते तु कफे समूत्रम् ।समूत्रवर्च्चोऽनिलसङ्गमाशुगुदं शिराश्च प्रगुणीकरोति
*
त्रिवृत्सुधापत्रतिलादिशाकंग्राम्यौदकानूपरसैर्यवान्नम् ।अन्यैश्च सृष्टानिलमूत्रविड्भि-रद्यात् प्रसन्नागुडसीधुपायी
*
भूयोऽनुबन्धे तु भवेद्विरेच्योमूत्रप्रसन्नादधिमण्डयुक्तैः”
*
द्विरुत्तरं हिङ्गुवचाग्निकुष्ठंसुवर्च्चिका चैव विडड्गचूर्णम् ।सुखाम्बुनानाहविसूचिकार्त्ति-हृद्रोगगुल्मोर्द्ध्वसमीरणघ्नम्
*
वचाभयाचित्रकयावशूकान्सपिप्पलीकातिविषान् सकुष्ठान् ।उष्णाम्बुनानाहविमूढवातान्पीत्वा जयेदाशु रसौदनाशी”
*
इति चिकित्सास्थाने षड्विंशेऽध्याये चरकेणोक्तम्
सुश्रुतेनोत्तरतन्त्रे ५५ अध्यायेऽस्य सनिदानसम्प्रा-प्तिकं लक्षणं चिकित्सा चेति यदुक्तं तद्यथा ।“अधश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः ।न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः ।व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते
क्षुत्तृष्टा-श्वास-निद्राणामुदावर्त्तो विधारणात् ।तस्याभिधास्ये व्यासेन लक्षणञ्च चिकित्सितम्
त्रयोदशबिधश्चासौ भिन्न एतैस्तुकारणैः ।अपथ्यभोजनाच्चापि वक्ष्यते यथापरः
आध्मानशूलौ हृदयोपरोधंशिरोरुजं श्वासमतीवहिक्काम् ।कास-प्रतिश्याय-गलग्रहांश्चबलासपित्तप्रसरञ्च घोरम्
कुर्य्यादपानाभिहतः खमार्गेहन्यात् पुरीषं मुखतः क्षिपेद्वा
आटोपशूलौ परिकर्त्तनञ्चसङ्गः पुरीषस्य तथोर्द्ध्ववातःपुरीषमास्यादथवा निरेतिपुरीषवेगेऽभिहते नरस्य
मूत्रस्य वेगेऽभिहते नरस्तुकृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ।मेढ्रे गुदे वङ्क्षणमुष्कयोश्चनाभिप्रदेशेष्वथवापि मूर्द्ध्नि
आनद्धवस्तिश्च भवन्ति तीव्राःशूलाश्च शूलैरिव भिन्नमूर्त्तेः
मन्यागलस्तम्भशिरोविकाराजृम्भोपघातात् पवनात्मकाः स्युः ।श्रोत्राननघ्राणविलोचनोत्थाभवन्ति तीव्राश्च तथा विकाराः
आनन्दजं शोकसमुद्भवं वानेत्रोदकं प्राप्तममुञ्चतो हि ।शिरोगुरुत्वं नयनामयाश्चभवन्ति तीव्राः सह पीनसेन
भवन्ति गाढं क्षवथोर्विघाता-च्छिरोऽक्षिनासाश्रवणेषु रोगाः ।कण्ठास्यपूर्णत्वमतीवतोदःकूजश्च वायोरथवा प्रवृत्तिः
उद्गारवेगेऽभिहते भवन्तिजन्तोर्विकाराः पवनप्रसूताः
छर्द्देर्विघातेन भवेच्च कुष्ठंयेनैव दीषेण विदग्धमन्नम्
मूत्राशये वा गुदमुष्कयोश्चशोफो रुजा मूत्रविनिग्रहश्च ।शुक्राश्मरी तत्स्रवणं भवेद्वाते ते विकारा विहते तु शुक्रे
तन्त्राङ्गमर्द्दावरुचिः श्रमश्चक्षुधोऽभिघातात् कृशता दृष्टेः
१०
कण्ठास्यशोषः श्रवणावरोध-स्तृष्णाभिघाताद्धृदये व्यथा
११
श्रान्तस्य निश्वासविनिग्रहेणहृद्रोगमोहावथवापि गुल्मः
१२
जृम्भाङ्गमर्द्दोऽङ्गशिरोऽक्षिजाड्यंनिद्राभिघातादथवापि तन्द्रा”
१३
अरिष्टलक्षणं यथा, “तृष्णार्द्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् ।शकृद्वमन्तं मतिमानुदावर्त्तिनमुत्सृजेत्
अस्य चिकित्सा यथा, “सर्व्वेष्वेतेषु विधिवदुदावर्त्तेषु कृत्स्नशः ।वायोः क्रिया विधातव्या स्वमार्गप्रतिपत्तये
सामान्यतः पृथक्त्वेन स्त्रियां भूयो निबोध मे ।आस्थापनं मारुतजे स्निग्धे स्विन्ने विशिष्यते
पुरीषजे तु कर्त्तव्यो विधिरानाहिको भवेत्
सौवर्च्चलाढ्यां मदिरां मूत्रेष्वभिहते पिबेत् ।एलामप्यथ मद्येन क्षीरं वापि पिबेन्नरः”
“स्नेहस्वैदैरुदावर्त्तं ञृम्भाजं समुपाचरेत्
अश्रुमोक्षोऽश्रुजे कार्य्यः स्निग्धस्विन्नस्य देहिनः
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपसिंहनैः ।वर्त्तिप्रयोगैरथवा क्षवशक्तिं प्रवर्त्तयेत्
तीक्ष्णौषधप्रधमनैरथवादित्यरश्मिभिः
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ।सुरां सौवर्चलवतीं वीजपूर्णरसान्विताम्
छर्द्याघातं यथा दोषं सम्यक् स्नेहादिभिर्जयेत् ।सक्षारलवणोपेतमभ्यङ्गं वात्र दापयेत्
वस्तिशुद्धिकरावापञ्चतुर्गुणजलम्पयः ।आवारिनाशात् क्वथितं पीतवर्णं प्रकामतः ।रमयेयुः प्रिया नार्य्यः शुक्रोदावर्त्तिनं नरम्
क्षुद्विघाते हितं स्निग्धमुष्णमल्पञ्च भोजनम्
१०
तृष्णाघाते पिबेन्मन्थं यवागूं वापि शीतलां
११
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः
१२
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथारतः”
१३
अपरञ्च सनिदानसम्प्राप्तिकं लक्षणं चिकित्सा
“वायः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः ।भोजनैः कुपितः सद्य उदावर्त्तं करोति हि
वातमूत्रपुरीषासृक्कफमेदोवहानि ।स्रोतांस्युदावर्त्तयति पुरीषञ्चातिवर्त्तयेत्
ततोहृद्वस्तिशूलार्त्तो गौरवारुचिपीडितः ।वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् ।तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान्
लभते बहूनन्यान् विकारान् वातकोपजान् ।तत्तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत्
दोषतो भिन्नवर्च्चस्कं भुक्तञ्चाप्यनुवासयेत् ।नचेच्छान्तिं प्रयात्येवमुदावर्त्तः सुदारुणः
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः ।पाययेत त्रिवृत्पीलुयवानीरम्लपानकैः”
“देवदार्व्वग्निकं कुष्ठं वचाम्पथ्यां पलङ्कषाम् ।पौष्कराणि मूलानि तोयस्यार्द्धाढकं पचेत्
पादावशिष्टं तत्पीतमुदावर्त्तं व्यपोहति”
घृतं यथा ।“मूलकं शुष्कमाद्रञ्च वर्षाभूः पञ्चमूलकम्
आरेवतफलञ्चाप्सु पक्त्वा तेन घृतम्पचेत् ।तत्पीयमानं शमयेत् उदावर्त्तमशेषतः”
*
“चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ।कृनवेधनमागध्यो लवनाणाञ्च साधयेत्
गवां मूत्रेण ता वर्त्तीः कारयेत्तु गुदानुगाः” ।वैद्यकरसेन्द्रसारसङ्ग्रहे यच्चिकित्सितं तद्यथा
“त्रिकटुपारदं पथ्याकालकफलं द्विगुणं ।थानकुलीनां स्वरसैर्गुडिका कार्य्याम्लरोल्यास्तु
प्रबलजलोदरगुल्मज्वरपाण्डामयनाशिनी ।प्रोक्ता तिमिराणिपटलविद्रधिप्रबलोदावर्त्तहरी
क्रिमिकोष्ठगात्रकण्डूपिडकाश्च निहन्ति शूलचयं ।शुद्धगुडिका कथिता भुवने श्रीवैद्यनाथाख्या”
इति वैद्यनाथवटिका
*
अत्र अपथ्यानि यथा ।“वमनं वेगरोधञ्च शमीधान्यानि कोद्रवम् ।नालीतशाकं शालूकं जाम्बवं कर्कटीफलम्
पिण्याकमालुकं सर्व्वं करीरं पिष्टवैकृतम् ।विष्टम्भीनि विरुद्धानि कषायाणि गुरूणि
उदावर्त्ती प्रयत्नेन व्रर्जयेत् सततं नरः ।इति वैद्यकपथ्यापथ्यविधिः ।)