| YouTube Channel

उदावर्त्त (udAvartta)

 
शब्दसागरः
English
उदावर्त्त
m.
(-र्त्तः) A disease of the bowels, iliac passion.
f.
(-ता) Difficult
menstruation.
E.
उद् upper, आवर्त्त abode.
Yates
English
उदा_वर्त्त (र्त्तः) 1.
m.
Colic
difficult
menstruation.
Wilson
English
उदावर्त्त
m.
(-र्त्तः) A disease of the bowels, iliac passion.
f.
(-ता) Difficult menstruation.
E.
उद् upper, आवर्त्त abode.
वाचस्पत्यम्
Sanskrit
उदावर्त्त
पु०
उद् + + वृत--घञ् रोगभेदे तल्लक्ष्मादि सु-श्रुते दर्शितं यथा“अथात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः अ-धश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः वेगान् धार-येत्प्राज्ञो वातादीनां जिजीविषुः वातविण्मूत्रजृम्भाश्रुक्ष-वोद्गारवमीन्द्रियैः व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते ।क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात् तस्याभि-धास्ये व्यासेन लक्षणञ्च चिकित्सितम् त्रयोदशविधश्चासौभिन्न एतैस्तु कारणैः अपथ्यभोजनाच्चापि वक्ष्यतेच तथापरः आध्मानशूलौ हृदयोपरोधं शिरोरुजंश्वासमतीव हिक्काम् कासप्रतिश्यायगलग्रहांश्च बलासपित्त-प्रसरञ्च घोरम् कुर्य्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषंमुखतः क्षिपेद्वा आटोपशूलौ परिकर्त्तनञ्च सङ्गः पुरीषस्यतथोर्द्ध्ववातः पुरीषमास्यादपि वा निरेति पुरीषवेगेऽ-भिहते नरस्य मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेणमूत्रं कुरुतेऽल्पमल्पम् मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभि-प्रदेशेष्वथ वापि मूर्द्ध्नि आनद्धवस्तिश्च भवन्ति तीव्राःशूलाश्च शूलैरिव भिन्नमूर्त्तेः मन्यागलस्तम्भशिरोविकाराजृम्भोपघातात् पवनात्मकाः स्युः श्रोत्राननघ्राणविलो-चनोत्था भवन्ति तीव्राश्च तथा विकाराः आनन्दजंशोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि शिरोगुरुत्वंनयनामयाश्च भवन्ति तीव्राः सह पीनसेन भवन्ति गाढंक्षवयोर्व्विघातात् शिरोऽक्षिनासाश्रवणेषु रोगाः कण्ठा-स्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः ।उद्गारवेगेऽभिहते भवन्ति जन्तोर्व्विकाराः पवनप्रसूताः ।छर्देर्व्विघातेन भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम् ।मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च ।शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तुशुक्रे तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात् १० कृ-शता दृष्टेः कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघा-तात् ११ हृदये व्यथा श्रान्तस्य निश्वासविनिग्रहेण १२हद्रोगमोहावथ वापि गुल्मः जृम्भाङ्गमर्दो ङ्गशिरो-ऽक्षिजाड्यं निद्राभिघातादथ १३ वापि तन्द्रा तृष्णादितंपरिक्लिष्टं क्षीणं शूलैरभिद्रुतम् शकृद्वमन्तं मतिमा-नुदावर्त्तिनमुत्सृजेत् सर्वेष्वेतेषु “विधिवदुदावर्त्तेषुकृत्स्नशः वायीः क्रियाविधातव्या स्वमार्गप्रतिपत्तये” ।उद्न उदकस्यावर्त्तः जलस्य स्वतोभ्रमणे स्त्रीचिह्न-रोगभेदे स्त्री सा सुश्रुते दर्शिता यथा “विंशतिर्व्याप-दोयोनेर्न्निर्दिष्टा रोगसङ्ग्रहे मिथ्याचारेण ता स्त्रीणांप्रदुष्टेनार्त्तवेन जायन्ते वीजदोषाच्च दैवाच्च शृणु ताःपृथक् उदावर्त्ता तथा बन्ध्या विप्लुता परिप्लुता ।वातला चेति वातोत्था पित्तोत्था रुधिरक्षरा वामिनीस्रंसिनी चापि पुत्त्रघ्नी पित्तला या अत्यानन्दा चया योनिः कर्णिनी चरणाद्वयम् श्लैष्मिका सकपा ज्ञेयाषण्डी फलिनी तथा महती सूचिवक्त्रा सर्वजेतित्रिदोषजा” “सफेनिलमुदावर्त्ता रजः कृच्छेणमुञ्चति”