| YouTube Channel

उदश्वित्सोकम् (udazvitsokam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ष्टुच प्रसादे”@} 2 3 स्तोकः-स्तोककः, 4 उदश्वित्सोकम्, 5 स्तोकान्मुक्तः, स्तोकेन मुक्तः, 6 संस्तोजः
इति विशेषरूपाणि।
सामान्यरूपाणि भौवादिकचयतिवत् 7 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१८६७)
02
=>
(१-भ्वादिः-१७५। अक। सेट्। आत्म।)
03
=>
[[१। घञि रूपमेवम्। धातोः प्रसादार्थत्वेऽपि स्तोक इत्यादिषु अल्पार्थत्वम्। निष्टायां सेट्त्वात् घञि कुत्वस्याप्रसक्तौ ‘करणे स्तोक--’ (२-३-३३) इत्यादिषु निर्देशात् कुत्वमिति माधवः। स्तोक एव स्तोककः।]]
04
=>
[[२। ‘पोटायुवतिस्तोक--’ (२-१-६५) इति तत्पुरुषः। स्तोकम् = अल्पं उदश्वित्, उदशिवत्स्तोकम्।]]
05
=>
[[३। ‘करणे स्तोकाल्प--’ (२-३-३३) इति तृतीयापञ्चम्यौ। पञ्चमीपक्षे ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इत्यलुक्।]]
06
=>
[[४। “वर्णबिकाराभ्युपगमात् संपूर्वकात् घञि चकारस्य जकारे संस्तोजः इति मैत्रेयः” इति माधवाचार्याः।]]
07
=>
(५०२)