| YouTube Channel

उदर्च्चिः (udarcciH)

 
शब्दकल्पद्रुमः
Sanskrit
उदर्च्चिः, [स] त्रि, (उद्गतं अर्च्चिः प्रभा यस्मात् ।)उत्प्रभः इति मेदिनी (यथा रघौ १५ ७६ ।“ऋचेवोदर्च्चिषं सूर्य्यं रामं मुनिरुपस्थितः”
“प्रदक्षिणप्रक्रमणात् कृशानो-रुदर्च्चिषस्तन्मिथुनं चकाशे” ।इति रघुवंशे २४ तथा, कुमारे ७१ ।“स्फुरन्नुदर्च्चिः सहसा तृतीया-दक्ष्णः कृशानुः किल सम्पपात”
)
उदर्च्चिः, [स्],
पुं,
(उदूर्द्ध्वं गतं अर्च्चिर्यस्य ।) अग्निः ।इति मेदिनी
“प्रक्षिप्योदर्च्चिषं कक्ष शेरते तेऽभिमारुतम्”
इति माघे ४२
हरिः ।) शिवः कन्दर्पः ।इति शब्दरत्नावली