| YouTube Channel

उदररोग (udararoga)

 
Monier Williams Cologne
English
उदर—रोग
m.
disease of the stomach or bowels,
VarBṛS.
शब्दकल्पद्रुमः
Sanskrit
उदररोगः,
पुं,
(उदरस्य रोगः ।) जठरव्याधि-विशेषः उदरी इति भाषा
(“सिद्धविद्याधराकीर्णे कैलासे नन्दनोपमे ।तप्यमानं तपस्तीव्रं साक्षाद्धर्म्ममिव स्थितम्
श्रायुर्व्वेदविदां श्रेष्ठं भिषग्विद्याप्रवर्त्तकम् ।पुनर्व्वसुं जितात्मानमग्निवेशोऽब्रवीद्वचः
भगवन्नुदरैर्दुःखैर्दृश्यन्ते ह्यर्द्दिता नराः ।शुष्कवक्त्राः कृशैर्गात्रैराध्मातोदरकुक्षयः
प्रणष्टाग्निबलाहाराः सर्व्वचेष्टास्वनीश्वराः ।दीनाः प्रतिक्रियाभावाज्जहतोऽसूननाथवत्
तेषामायतनं सङ्ख्यां प्राग्रूपाकृतिभेषजान् ।यथावज्ज्ञातुमिच्छामि गुरुणा सम्यगीरितम्
सर्व्वभूतहितायर्षिः शिष्येणैवं प्रचोदितः ।सर्व्वभूतहितं वाक्यं व्याहर्त्तुमुपचक्रमे”
अस्य सनिदानं सम्प्राप्तिकलक्षणं यथा, --“अग्निदोषान्मनुष्याणां रोगसङ्घाः पृथग्विधाः ।मलवृद्ध्या प्रवर्त्तन्ते विशेषेणोदराणि तु
मन्देऽग्नौ मलिनैर्भुक्तैरपाकाद्दोषसञ्चयः ।प्राणाग्न्यपानान् सन्दूष्य मार्गान् बद्ध्वोत्तरोत्तरान्
त्वङ्मांसान्तरमागम्य कुक्षिमाध्मापयन् भृशम् ।जनयत्युदरं तस्य हेतुं शृणु सलक्षणम्”
सामान्यहेतवो यथा, --“अत्युष्णलवणक्षारविदाह्यम्लरसाशनात् ।मिथ्यासंसर्ज्जनाद्रूक्षविरुद्धाशुचिभोजनात्
प्लीहार्शोग्रहणीदोषकर्षणात् कर्म्मविभ्रमात् ।क्लिष्टानामप्रतीकाराद्रौक्ष्याद्वेगविधारणात्
स्रोतसां दूषणादामात् संक्षोभादतिपूरणात् ।अर्शोवातशकृद्रोधादन्त्रस्फुटनभेदनात्
अतिसञ्चितदोषाणां पापं कर्म्म कुर्व्वताम् ।उदराण्युपजायन्ते मन्दाग्नीनां विशेषतः”
प्राग्रूपं यथा, --“क्षुण्णाशः स्वाद्वतिस्निग्धगुर्व्वन्नं पच्यतेऽचिरात् ।भुक्तं विदाह्यते सर्व्वं जीर्णाजीर्णं वेत्ति
सहते नातिसौहित्यमीषच्छोफश्च पादयोः ।शश्वद्बलक्षयोऽल्पेऽपि व्यायामे श्वासमृच्छति
पुरीषनिचयो वृद्धिरुदावर्त्तकृता रूक् ।वस्तिसन्धौ रुगाध्मानं वर्द्धते पाट्यतेऽपि
आतन्यते जठरमपि लघ्वल्पभोजनात् ।राजीजन्म वलीनाश इति लिङ्गं भविष्यताम्”
सम्प्राप्तिर्यथा, --“रुद्ध्वा स्वेदाम्बुवाहानि दोषाः स्रोतांसि सञ्चिताः ।प्राणापानान् हि सन्दूष्य जनयन्त्युदरं नृणाम्”
सामान्यलक्षणं यथा, --“कुक्षेराध्मानमाटोपः शोफः पादकरस्य ।मन्दोऽग्निः श्लक्ष्णगण्डत्वं कार्श्यञ्चोदरलक्षणम्”
वातजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --“रूक्षाल्पभोजनायासवेगोदावर्त्तकर्षणैः ।वायुः प्रकुपितः कुक्षिहृद्वस्तिगुदमार्गगः
हत्वाग्निं कफमुद्धूय तेन रुद्धगतिस्तथा ।आचिनोत्युदरं जन्तोस्त्वङ्मांसान्तरमाश्रितः”
अस्य रूपाणि ।“कुक्षि-पाणि-पाद-वृषण-श्वयथूदर-विपाटनम् अ-नियतौ वृद्धिह्रासौ कुक्षि-पार्श्वशूलोदावर्त्ताङ्ग-मर्द्द-पर्ब्बभेद-शुष्ककास-कार्श्य-दौर्ब्बल्यारोचक-वि-पाका अधोगुरुत्वं वातवर्च्चमूत्रसङ्गः श्यावारुणत्वंनखनयनवदनत्वङ्मूत्रवर्च्चसामपि चोदरं तन्व-सितराजीशिरासन्ततमाहतमाध्मातदृतिशब्दवद्भ-वति वायुश्चोर्द्ध्वमधस्तिर्य्यक् सशूलशब्दश्चरत्ये-तद्वातोदरं विद्यात्”
पित्तजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --“कट्वम्ललवणात्युष्णतीक्ष्णाग्न्यातपसेवनैः ।विदाह्यध्यशनाजीर्णैश्चाशु पित्तं समाचितम्
प्राप्यानिलकफौ रुद्ध्वा मार्गमुन्मार्गमास्थितम् ।निहत्यामाशये वह्निं जनयत्युदरं ततः”
अस्य रूपाणि ।“दाहज्वर-तृष्णा-मूर्च्छातिसार-भ्रमाः कटुकास्य-त्वं हरितहारिद्रत्वं नख-नयन-वदन-त्वङ्-मूत्र-वर्च्च-सामपि चोदरं नील-पीत-हारिद्र-हरित-ताम्र-राजीशिरावनद्धं दह्यात् दूषयते धूप्यते रूपायतेस्विद्यते क्लिद्यते मृदुस्पर्शं क्षिप्रपाकञ्च भवत्येतत्पित्तोदरं विद्यात्”
श्लेष्मजनितस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, --“अव्यायामदिवास्वप्नस्वाद्वतिस्निग्धपिच्छिलैः ।दधिदुग्धोदकानूपमांसैश्चात्युपसेवितैः
क्रुद्धेन श्लेष्मणा स्रोतः स्वाहतेष्वावृतोऽनिलः ।तमेव पीडयन् कुर्य्यादुदरं वहिरन्त्रगः”
अस्य रूपाणि ।“गौरवारोचकाविपाकाङ्गमर्द्द-सुप्ति-पाणि-पाद-मुष्कोरुशोफोत्क्लेश-निद्रा-श्वास-कासाः शुक्लत्वञ्चनख-नयन-वदन-त्वङ्मूत्रवर्च्चसामपि चोदरं शुक्ल-राजीशिरासन्ततं गुरुस्तिमितस्थिरं कठिनञ्चभवत्येतत् श्लेष्मोदरं विद्यात्”
त्रिदोषजस्य सनिदानसम्प्राप्तिकं लक्षणं यथा, “दुर्ब्बलाग्नेरपथ्यामविरोधिगुरुभोजनात् ।स्त्रीदत्तैश्च रजोरोम-विण्मूत्रास्थिनखादिभिः
विषैश्च मन्दैर्वाताद्याः कुपिताः सञ्चितास्त्रयः ।शनैः कोष्ठे प्रकुर्व्वन्तो जनयन्त्युदरं नृणाम्”
अस्य रूपाणि ।“सर्व्वेषामेव दोषाणां समस्तानि लिङ्गान्युपलभ्यन्तेवर्णाश्च नखादिषूदरमपि नानावर्णराजीशिरा-सन्ततं भवत्येतत् सन्निपातोदरं विद्यात्”
यकृत्प्लीहसमुद्भवस्य सनिदानसम्प्राप्तिकंलक्षणं यथा, --“असितस्यातिसङ्क्षोभाद्यानयानाभिचेष्टितैः ।अतिव्यवायभाराध्ववमनव्याधिकर्षणैः
वामपार्श्वास्थितः प्लीहाच्युतः स्थानात् प्रवर्द्धते ।शोणितं वा रसादिभ्यो विवृद्धन्तं विवर्द्धयेत्”
इति तस्य प्लीहाकठिनोऽष्ठिलेवादौ वर्द्धमान-कच्छपसंस्थान उपलभ्यते सचोपेक्षितः क्रमेणकुक्षिं जठरमग्न्यधिष्ठानञ्च परिक्षिपन्नुदरमभि-निवर्त्तयति”
अस्य रूपाणि यथा, --“दौर्ब्बल्यारोचकाविपाकवर्च्चोमूत्रग्रहतमःपिपा-साङ्गमर्द्द-च्छर्द्दि-मूर्च्छाङ्गसाद-कास-श्वास-मृदुज्व-रानाहाग्निनाशकार्श्यास्यवैरस्य-पर्ब्बभेद-कोष्ठ-वा-तशूलान्यपि चोदरमरुणवर्णं विवर्णं वा नील-हरित-हारिद्र-राजिमद्भवत्येवमेव यकृदपि दक्षिण-पार्श्वस्थं कुर्य्यात्तुल्यहेतुलिङ्गौषधत्वात्तस्य प्लीहजठ-रएवावबोध इत्येतत् यकृत्प्लीहोदरं विद्यात्”
बद्धगुदोदरस्य निदानपूर्व्विका सम्प्राप्तिर्यथा, “पक्ष्मबालैः सहान्नेन भुक्तैर्बद्धायने गुदे ।उदावर्त्तैस्तथार्शोभिरान्त्रसंमूर्च्छनेन वा
अपानो मार्गसंरोधाद्धात्वग्निं कुपितोऽनिलः ।वर्च्चःपित्तकफान् रुद्ध्वा जनयत्युदरं ततः”
अस्य रूपाणि ।“तृष्णा-दाह-ज्वर-मुख-तालु-शोषोरुसाद-कास-श्वास-दौर्ब्बल्यारोचकाविपाक-वर्च्चोमूत्र-सङ्गा-ध्मान-च्छर्द्दि-क्षवथु-शिरोहृन्नाभि-गुदशूलान्यपिचोदरं मूढवातं स्थिरमरुणं नीलराजिशिरावनद्धंसराजिकं वा प्रायो नाभ्युपरि गोपुच्छवदभिनि-वर्त्तत इत्येतद् बद्धगुदोदरं विद्यात्”
छिद्रोदरस्य निदानपूर्व्विका सम्प्राप्तिर्यथा, “शर्करा-तृणकाष्ठास्थि-कण्टकैरन्नसंयुतैः ।भिद्येतान्त्रं यदा भुक्तैर्ज्जृम्भयात्यशनेन वा ।इयात् पाकरसस्तेभ्यश्छिद्रेभ्यः प्रस्ववद्वहिः ।पूरयन् गुदमन्त्रञ्च जनयत्युदरं ततः”
अस्य रूपाणि ।“इति तदधोनाभ्याः प्रायोऽभिनिवर्त्तमानमुदको-दरस्य यथाबलञ्च दोषाणां रूपाणि दर्शयत्य-पि चातुरः सलोहित-नील-पीत-पिच्छिल-कुणप-गन्धामवर्च्च उपवेशते हिक्का-श्वास-कास-तृष्णा-प्रमेहा-रोचकाविपाक-दौर्ब्बल्यपरीतश्च भवत्येतत्छिद्रोदरं विद्यात्”
जलोदरस्य निदानपूर्व्विका सम्प्राप्तिर्यथा, --“स्नेहपीतस्य मन्दाग्नेः क्षीणस्यातिकृशस्य वा ।अत्यम्बुपानान्नष्टेऽग्नौ मारुतः क्लोम्नि संस्थितः
स्रोतःसु रुद्धमार्गेषु कफश्चोदकमूर्च्छितः ।वर्द्धयेतां तदेवाम्बु स्वस्थानादुदराय तौ”
अस्य रूपाणि ।“तस्य रूपाण्यनन्नकाङ्क्षापिपासा-गुदस्राव-शूल-श्वास-कास-दौर्ब्बल्याण्यपि चोदरं नानावर्णराजि-भिरासन्ततमुदकपूर्णदृतिक्षोभसंस्पर्शं भवत्येत-दुदकोदरं विद्यात्”
एषां साध्यत्वासाध्यत्वादिलक्षणं यथा, --“तत्राचिरोत्पन्नमनुपद्रवमनुदकप्राप्तमुदरं त्वर-माणश्चिकित्सेदुपेक्षितानां ह्येषां दोषाः स्वस्थान-दपवृत्ता अपरिपाकाद्द्रवीभूताः सन्धीन् स्रोतांसिचोपक्लेदयन् स्वेदश्च वाह्येषु स्रोतःसु प्रतिहत-गतिस्तिर्य्यगवतिष्ठमानस्तदेवोदकमाप्याययति” ।तत्र पिच्छोत्पत्तौ मण्डलमुदरं गुरुस्तिमितमा-कोचितमशब्दं मृदुस्पर्शमपगतराजीकमाक्रान्तंनाभ्यां सर्पतीति ततोऽनन्तरं उदकप्रादुर्भावः
तस्य रूपाणि कुक्षेरतिमात्रवृद्धिः शिरान्तर्धा-नगमनमुदकपूर्णदृतिसमक्षोभस्पर्शत्वञ्च ।तदातुरमुपद्रवाः स्पृशन्ति छर्द्द्यतीसार-तमक-तृष्णा-श्वास-कास-हिक्का-दौर्ब्बल्य-पार्श्वशूलारुचि-स्वरभेद-मूत्रसङ्गादयस्तथाविधमचिकित्स्यं विद्या-दिति
भवति चात्र, --“वातात्पित्तात् कफात् प्लीहः सन्निपातात्तथोदकात् ।परस्परं कृच्छ्रतरमुदरं भिषगादिशेत्
पक्षाद्बद्धगुदन्तूर्द्ध्वं सव्वं जातोदकन्तथा ।प्रायो भवत्यभावाय छिद्रान्त्रञ्चोदरं नृणाम्”
“श्वयथुः सर्व्वमर्म्मोत्थः श्वासो हिक्कारुचिः सतृट् ।मूर्च्छाच्छर्द्द्यतिसारश्च निहन्त्युदरिणं नरम्”
जललक्षणमाह ।“अशोथमरुणाभासं सशब्दं नातिभारिकम् ।सदा गुडगुडायान्तं शिराजालगवाक्षितम्
नाभिं विष्टभ्य पायौ तु वेगं कृत्वा प्रणश्यति
हृन्नाभिवंक्षणकटीगुदप्रत्येकशूलिनः
कर्कशं सृजतो वातं नातिमन्दे पावके
मूत्रेऽल्पे संहते दोषे लालया विरसे मुखे ।अजातोदकमित्येतैर्लिङ्गैर्विज्ञाय तत्त्वतः”
अतःपरं वातजादिभेदेन चिकित्साविधानं यथा, “उपक्रामेद्भिषग्दोषबलकालविशेषवित् ।वातोदरे बलवतः पूर्व्वं स्नेहैरुपाचरेत्
स्निग्धाय स्वेदिताङ्गाय दद्यात् स्नेहविरेचनम्
हृते दोषे परिम्लानं वेष्टयेद्वाससोदरम्
तथास्यानवकाशत्वाद्वायुर्नाध्मापयेत् पुनः ।दोषातिमात्रोपचयात् स्रोतसां सन्निरोधनात्
सम्भवन्त्युदराण्येवं अतो नित्यं विशोधयेत् ।शुद्धं संसृज्य क्षीरं बलार्थं पाययेत्तु तम्
प्रागुत्केशान्निवर्त्त्यञ्च बले लब्धे क्रमात् पयः ।यूषैरसर्व्वा मन्दाम्ललवणैः रोधितानलम्
सोदावर्त्तिं पुनः स्निग्धं स्विन्नमास्थापयेन्नरम् ।स्फुरणाक्षेपसन्ध्यस्थिपार्श्वपृष्ठत्रिकास्थिषु ।दीप्ताग्निबद्धविड्वातं रूक्षमप्यनुवासयेत्
तीक्ष्णाधोभागयुक्तः स्यान्निरूहो दाशमूलिकः ।वातघ्नाम्लशृतैरण्डतिलतैलानुवासनः
अविरेच्यन्तु यं विद्याद्दुर्ब्बलं स्थविरं शिशुम् ।सुकुमारं प्रकृत्याल्पदोषं वाथोल्वणानिलम्
तं भिषक् शमनैः सर्पिर्यूषमांसरसौदनैः ।वस्त्यभ्यङ्गानुवासश्च क्षौरैश्चोपाचरेद्बुधः
पित्तोदरे तु बलिनं पूर्व्वमेव विरेचयेत् ।दुर्ब्बलन्त्वनुवास्यादौ शोधयेत् क्षीरवस्तिना
सञ्जातबलकालाग्निं पुनः स्निग्धं विरेचयेत् ।पयसा सत्रिवृत्कल्केनोरुवूकशृतेन वा
शातलात्रायमाणाभ्यां शृतेनारम्बधेन वा ।सकफे वा समूत्रेण सवाते तिक्तसर्पिषा
पुनः क्षीरप्रयोगञ्च वस्तिकर्म्मविरेचनम् ।क्रमेण ध्रुवमातिष्ठन् युक्तः पित्तोदरं जयेत्
स्निग्धं स्विन्नं विशुद्धन्तु कफोदरिणमातुरम् ।संसर्ज्जयेत् कटुक्षारयुक्तैरन्नैः कफापहैः
गोमूत्रारिष्टपानैश्च चूर्णायस्कृतिभिस्तथा ।सक्षारैस्तैलपानैश्च समयेत्तु कफोदरम्
सन्निपातोदरे सर्व्वा यथोक्ताः कारयेत् क्रियाः ।सोपद्रवन्तु निर्वृत्तं प्रत्याख्येयं विजानता
उदावर्त्तरुगानाहैर्दाहमोहतृषाज्वरैः ।गौरवारुचिकाठिन्यैश्चानिलादीन् यथाक्रमम्
लिङ्गः प्लीहोदरान् दृष्ट्वा रक्तं वापि स्वलक्षणैः ।चिकित्सां संप्रकुर्व्वीत यथादोषं यथाबलम्
स्नेहं स्वेदं विरेकञ्च निरूहमनुवासनम् ।समीक्ष्य कारयेद्बाहौ वामे वा व्यधयेत्सिराम्
षट्पलं वा पिबेत्सर्पिः पिप्पलीर्व्वा प्रयोजयेत् ।सगुडामभयां वापि क्षारारिष्टगणांस्तथा
रोहितकलतानान्तु काण्डैका साभया जले ।मूत्रे वा शृतमेतच्च सप्तरात्रस्थितं पिबेत्
कामलागुल्ममेहार्शःप्लीहसर्व्वोदरक्रिमीन् ।तद्धन्याज्जाङ्गलरसैर्जीर्णे स्याच्चात्र भोजनम्
अग्निकर्म्म कुर्व्वीत भिषग्वातकफोल्वणे ।पैत्तिके जीवनीयानि सर्पींषि क्षीरवस्तयः
रक्तावसेकः संशुद्धिः क्षीरपानञ्च शस्यते ।यूषैर्मांसरसैश्चापि दीपनीयसमायुतैः
लघून्यन्नानि संसृज्य भजेत् प्लीहोदरी नरः
स्विन्नाय बद्धोदरिणे मूत्रतीक्ष्णौषधान्वितम् ।सतैललवणं दद्यान्निरूहं सानुवासनम्
परिस्रंसीनि चान्नानि तीक्ष्णञ्चैव विरेचनम् ।उदावर्त्तहरं कर्म्म कार्य्यं वातघ्नमेव
छिद्रोदरमृते स्वेदात् श्लेष्मोदरवदाचरेत्
जातं जातं जलं स्राव्यमेवं तत्पातयेद्भिषक्”
अरिष्टलक्षणं यथा ।“तृष्णाकासज्वरार्त्तन्तु क्षीणमांसाग्निभोजनम् ।वर्ज्जयेत् श्वासिनं तद्वत् शूलिनं दुर्ब्बलेन्द्रियम्”
“द्रवेभ्यश्चोदकादिभ्यो नियच्छेदनुपूर्व्वशः ।सर्व्वमेवोदरं प्रायो दोषसंघातजं मतम् ।तस्मात्त्रिदोषशमनीं क्रियां सव्वषु कारयेत्”
पथ्यनियमो यथा ।“दोषैः कुक्षौ हि संपूर्णे वह्निर्मन्दत्वमृच्छति ।तस्माद्भोज्यानि योज्यानि दीपनानि लघूनि
रक्तशालीन् यवान् मुद्गान् जाङ्गलांश्च मृगद्विजान् ।पयोमूत्रासवारिष्टान्मधुशीधूंस्तथा सुराम्
यवागूमोदनं वापि यूषैरद्याद्रसैरपि ।मन्दाम्लस्नेहकटुभिर्यच्च मूलोपसाधितैः”
अपथ्यानि यथा ।“औदूकानूपजं मांसं शाकं पिष्टकृतं तिलान् ।व्यायामाध्वदिवास्वप्नं यानयानञ्च वर्ज्जयेत्
तथोष्णलवणाम्लानि विदाहीनि गुरूणि ।नाद्यादन्नानि जठरी तोयपानञ्च वर्ज्जयेत्”
वातजादिभेदेन तक्रपाननियमो यथा ।“वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।शर्करामधुकोपेतं स्वादु पित्तोदरी पिबेत्
यमानीसैन्धवाजाजीव्योषयुक्तं कफोदरी ।पिबेन्मधुयुतं तक्रं व्यक्ताम्लं नातिपेलवम्
मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ।युक्तं प्लीहोदराघातं सव्योषन्तु दकोदरी
बद्धोदरी तु हपुषायवान्यजाजीसैन्धवैः ।पिबेच्छिद्रोदरी तक्रं पिप्पलीक्षौद्रसंयुतम्
“देवदारुपलाशार्कहस्तिपिप्पलीशिग्रुकैः ।साश्वगन्धैः सगोमूत्रैः प्रदिह्यादुदरं समैः
पलाशं कत्तृणं रास्ना तद्वत्पक्त्रावसेचयेत् ।मूत्राण्यष्टावुदरिणां सेके पाने योजयेत्
रूक्षाणां बहुवातानां तथा संशोधनार्थिनाम् ।दीपनीयानि सर्पींषि जठरघ्नानि वक्ष्यते
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः ।सक्षारैरर्द्धपलिकैर्द्विःप्रस्थं सर्पिषः पचेत्
कल्कैर्द्विपञ्चमूलस्य तुलार्द्धस्य रसेन
दधिमण्डातकोपेतं तत्सर्पिर्जठरापहम् ।श्वयथुं वातविष्टम्भं गुल्मार्शांसि नाशयेत्”
इति पञ्चकोलघृतम्
*
“चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले ।कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत्”
इति चित्रकघृतम्
“पटोलमूलरजनीविडङ्गत्रिफलात्वचम् ।काम्पिल्यको नीलिनी त्रिवृता चेति चूर्णयेत्
षडाद्यान् कार्षिकानन्त्यांस्त्रीन् द्वित्रिचतुर्गुणान् ।कृत्वा चूर्णमतोमुष्टिं गवां मूत्रेण वा पिबेत्
विरिक्तो मृदु भुञ्जीत भोजनं जाङ्गलैः रसैः ।मण्डं पेयाञ्च पीत्वा सव्योषं षडहं पयः
शृतं पिबेत्ततश्चूर्णं पिबेदेव पुनः पुनः ।हन्ति सर्व्वोदराण्येतञ्चूर्णं जातोदकान्यपि ।कामलां पाण्डुरोगञ्च श्वयथुञ्चापकर्षति”
इति पटोलाद्यं चूर्णम्
*
“नीलिनीं निचुलं व्योषं द्वौ क्षारौ लवणानि ।चित्रकञ्च पिबेच्चूर्णं सर्पिषोदरगुल्मनुत्”
इति नीलिन्याद्यं चूणम्
*
“भावितानां गवां मूत्रे षष्टिकानान्तु तण्डुलैः ।यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम्
पिबेदिक्षुरसञ्चानु जठराणां निवृत्तये ।स्वं स्वं स्थानं व्रजन्त्येषां तथा पित्तकफानिलाः
क्रियातीते त्रिदोषे जठरे चाप्रशाम्यति ।ज्ञातीन् ससुहृदो दारान् ब्राह्यणान् नृपतीन् गुरून्
अनुज्ञाप्य भिषक् कर्म्म विदध्यात्संशयं ब्रुवन् ।अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत्
एवमाख्याय तस्येदमनुज्ञातः प्रयोजयेत् ।पानभोजनसंयुक्तं विषमस्मै प्रदापयेत्
यस्मिन् वा कुपितः सर्पो विसृजेद्धि फले बिषम् ।तेनास्य दोषसंघातः स्थिरो लीनो विमार्गगः
विषेणाशु प्रमाथित्वादाशुभिन्नः प्रवर्त्तते ।विषेण हृतदोषन्तं शीताम्बुपरिषेचितम्
पाययेत भिषग्दुग्धं यवागूं वा यथाबलम् ।त्रिवृन्मण्डूकपर्ण्याश्च शाकं सयववास्तुकम् ।भक्षयेत्कालशाकं वा स्वरसोदकसाधितम्
निरम्ललवणस्नेहं स्विन्नास्विन्नमनन्नभुक् ।मासमेकं ततश्चैव तृषितः स्वरसं पिबेत्”
“इदन्तु शल्यहर्त्तॄणां कर्म्म स्याद्दष्टकर्म्मणां ।मात्रायुक्तेन शस्त्रेण पाटयेन्मतिमान् भिषक्
विपाट्यान्त्रन्ततः पश्चाद्वीक्ष्य बद्धक्षतान्त्रयोः ।सर्पिषाभ्यज्य केशादीनवमृज्य विमोक्षयेत्
मूर्च्छनात् यच्च संमूढमन्त्रं यच्च विमोक्षयेत् ।छिद्राण्यन्त्रस्य तु स्थूलैर्दंशयित्वा पिपीलिकैः
बहुशः संगृहीतानि मत्वा छित्त्वा पिपीलिकान् ।प्रतियोगैः प्रवेश्यान्त्रं वहिः सीव्येद्व्रणन्ततः ।तथा जातोदकं सर्व्वमुदरं व्यधयेद्भिषक्
वामपार्श्वे त्वधो नाभेर्नाडीं दत्त्वा गालयेत् ।निःस्नाव्य विमृज्यैतद्वेष्टयेद्वाससोदरम्
तथा वस्तिविरेकाद्यैर्म्लानं सर्व्वञ्च वेष्टयेत् ।निःसृते लङ्घितः पेयामस्नेहलवणां पिबेत्
अतः परञ्च षण्मासान् क्षीरवृत्तिर्भवेन्नरः ।त्रीन् मासान् पयसा पेयां पिबेत्त्रींश्चापि भोजयेत्
श्यामाकङ्कोरदूष्यं वा क्षीरेण लघुभोजनः ।नरः संवत्सरेणैवं जयेत् प्राप्तं जलोदरम्
प्रयोगाणाञ्च सर्व्वेषामनुक्षीरं प्रयोजयेत् ।दोषानुबन्धरक्षार्थं बलस्थैर्य्यार्थमेव
प्रयोगापचिताङ्गानां हितं ह्युदरिणां पयः ।सर्व्वधातुक्षयार्त्तानां देवानाममृतं यथा”
इति चरके चिकित्सितस्थानेऽष्टादशोऽध्यायः ।“धन्वन्तरिर्धर्म्मभृतां वरिष्ठीराजर्षिरिन्द्रप्रतिमो बभूव ।ब्रह्मर्षिपुत्त्रं विनयोपपन्नंशिष्यं शुभं सुश्रुतमन्वशात्सः
पृथक्समस्तैरपि चेह दोषैःप्लीहोदरं बद्धगुदं तथैव ।आगन्तुकं सप्तममष्टमञ्चदकोदरञ्चेति वदन्ति तानि
सुदुर्ब्बलाग्नेरहिताशनस्यसंशुष्कपूत्यन्ननिषेवणाद्वा ।स्नेहादिमिथ्याचरणाच्च जन्तो-र्वृद्धिं गताः कोष्ठमभिप्रपन्नाः
गुल्माकृतिव्यञ्जितलक्षणानिकुर्व्वन्ति घोराण्युदराणि दोषाः ।कोष्ठादुपस्नेहवदन्नसारोनिःसृत्य दुष्टोऽनिलवेगनुन्नः
त्वचः समुन्नम्य शनैः समन्ता-द्विवर्द्धमानो जठरं करोति”
*
अस्य पूर्व्वरूपं यथा, --“तत्पूर्व्वरूपं बलवर्णकाङ्क्षा-बलीविनाशो जठरे हि राज्यः ।जीर्णापरिज्ञानविदाहवत्योवस्तौ रुजः पादगतश्च शोफः”
वातजादिभेदेन लक्षणानि यथा, --“संगृह्य पार्श्वोदरपृष्ठनाभी-र्यद्वर्द्धते कृष्णशिरावनद्धम् ।सशूलमानाहवदुग्रशब्दम्सतोदभेदं पवनात्मकन्तत्
यच्चोषतृष्णाज्वरदाहयुक्तंपीतं शिरा यत्र भवन्ति पीताः ।पीताक्षिविण्मूत्रनखाननस्यपित्तोत्तरं तत्त्वचिराभिवृद्धि
यच्छीतलं शुक्लशिरावनद्धंश्लक्ष्णं स्थिरं शुक्लनखाननस्य ।स्निग्धं महच्छोफयुतं ससादंकफोदरं तञ्च चिराभिवृद्धि
विदाह्यभिष्यन्दिरतस्य जन्तोःप्रदुष्टमत्यर्थमसृक्कफश्च ।प्लीहाभिवृद्धिं सततं करोतिप्लीहोदरन्तत् प्रवदन्ति तज्ज्ञाः
वामे पार्श्वेपरिवृद्धिमेतिविशेषतः सीदति चातुरोऽत्र ।मन्दज्वराग्निः कफपित्तलिङ्गै-रुपद्रुतः क्षीणबलोऽतिपाण्डुः
सव्येतरस्मिन् यकृति प्रदुष्टेज्ञेयं यकृद्दाल्युदरं तदेव”
दूष्युदरं बद्धगुदोदरं परिस्राव्युदरं दकोदरञ्चेतिचतुर्णामुदराणां सुश्रुतीयं लक्षणादिकं यत् भाव-प्रकाशे संगृहीतं तत्तावच्चान्यविधम्
अस्य चिकित्सा यथा ।“अष्टावुदराणि पूर्व्वमुद्दिष्टानि तेष्वसाध्यं बद्धगुदंपरिस्रावि चावशिष्टानि कृच्छ्रसाध्यानि सर्व्वाण्येवच प्रत्याख्यायोपक्रमेत तेष्वाद्यश्चतुर्व्वर्गो भेषज-साध्यः कालप्रकर्षात् सर्व्वाण्येव शस्त्रसाध्यानिवर्ज्जयितव्यानि वा
उदरी तु गुर्व्वभिष्यन्दिरूक्षविदाहिस्निग्धपिशित-परिषेकावगाहान् परिहरेत् शालियष्टिकयव-गोधूमनीवारान्नित्यमश्नीयात्
तत्र वातोदरिणं विदारिगन्धादिसिद्धेन सर्पिषास्नेहयित्वा तिल्वकविपक्वेनानुलोम्य चित्राफलतैल-प्रगाढेन विदारिगन्धाकषायेणास्थापयेदनुवासयेच्चशाल्वणेन चोपनाहयेदुदरम् भोजयेच्चैनं विदा-रिगन्धादिसिद्धेन क्षीरेण जाङ्गलरसेन चाभीक्ष्णंस्वेदयेत्
*
पित्तोदरिणन्तु मधुरगणविपक्वेन सर्पिषा स्नेह-यित्वा श्यामात्रिफलात्रिवृद्विपक्वेनानुलोम्य शर्क-रामधुधृतप्रगाढेन न्यग्रोधादिकषायेणास्थापये-दनुवासयेच्च पायसेनोपनाहयेटुदरं भोजयेच्चैनंविदारिगन्धादिसिद्धेन पयसा
*
श्लेष्मोदरिणंपिप्पल्यादिकषायसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षी-रविपक्वेनानुलोम्य त्रिकटुकमूत्रक्षारतैलप्रगाढेनमुष्कादिकषायेणास्थापयेदनुवासयेच्च शणातसी-धातकीकिण्वसर्षपमूलकवीजकल्कैश्चोपनाहयेदु-दरं भोजयेच्चैनं त्रिकटुकप्रगाढेन कुलत्थयूषेणपायसेन वा स्वेदयेच्चाभीक्ष्णम्
*
दूष्योदरिणन्तु प्रत्याख्याय सप्तलाशङ्खिनीस्वरस-सिद्धेन सर्पिषा विरेचयेन्मासमर्द्धं मासं वामहावृक्षक्षीरसुरागोमूत्रसिद्धेन वा शुद्ध्वकोष्ठनुमद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत् ।इक्षुकाण्डानि वा कृष्णसर्पेण दंशयित्वा भक्षयेत् ।वल्लीफलानि वा मूलजं कन्दजं वा विषमासेवयेत्तेनागदो भवत्यन्यं वा भावमापद्यते
*
भवति चात्र, --“कुपितानिलमूलत्वात् सञ्चयित्वान्मलस्य ।सर्व्वोदरेषु शंसन्ति बहुशस्त्वनुलोमनम्”
ज्योतिष्कफलतैलं वा क्षीरेण स्वर्ज्जिकाहिङ्गुमिश्रंपिबेत्
गुडद्वितीयां वा हरीतकीं भक्षयेत्
स्नुहीक्षीरभावितानां वा पिप्पलीनां सहस्रं का-लेन पथ्याकृष्णाचूर्णं वा स्नुहीभावितामुत्कारिकांपक्तां दापयेत्”
“प्लीहोदरिणः स्निग्धस्विन्नस्य दध्ना भुक्तवतो वाम-बाहौ कुर्प्पराभ्यन्तरतः शिरां विध्येद्विमर्दयेत्पाणिना प्लीहानं रुधिरस्यन्दनार्थं ततः संशुद्धदेहंसमुद्रशुक्तिकाक्षारं पयसा पाययेत हिङ्गुसौतर्च्चिकाक्षारेण स्रुतेन पलाशक्षारेण वा यवक्षारम् ।पारिजातकेक्षरकापामार्गक्षारं वा तैलसंसृष्टम् ।शोभाञ्जनकषायं वा पिप्पलीसैन्धवचित्रकयुक्तम् ।पूतिकरञ्जक्षारं वाम्लस्रुतं विडलवण-पिप्पली-प्रगाढम्
*
पिप्पलीपिप्पलीमूलचित्रकशृङ्गवेरयवक्षारसैन्ध-वानां पालिकाभागा घृतप्रस्थं तत्तुल्यं क्षीरंतदैकध्यं विपाचयेदेतत् षट्पलकं नाम सर्पिःप्लीहाग्निषङ्गगुल्मोदरोदावर्त्त-श्वयथु-पाण्डुरोग-कास-श्वास-प्रतिश्यायोर्द्ध्ववातविषमज्वरानपहन्तिमन्दाग्निर्वा हिङ्ग्वादिकं चूर्णमुपयुञ्जीत यकृद्दा-ल्येऽप्येष एव क्रियाविभागः विशेषतस्तु दक्षिण-बाहौ शिराव्यधः”
“मणिबन्धं सकृन्नाम्य वामाङ्गष्ठसमीरिताम् ।दहेत्सिरां शरेणाशु प्लीह्नो वैद्यः प्रशान्तये”
*
बद्धगुदे परिस्राविणि स्निग्धस्विन्नस्याभ्यक्त-स्याधो नाभेर्व्वामतश्चतुरङ्गुलमपहाय रोमराज्याउदरं पाटयित्वा चतुरङ्गुलप्रमाणान्यन्त्राणि नि-ष्कृष्य निरीक्ष्य बद्धगुदस्यान्त्रप्रतिरोधकरमश्मानंबालं वा पोह्य मलजातं वा ततो मधुसर्पिर्म्या-मभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा वाह्यव्रण-मुदरस्य सीव्येत् परिस्राविण्यप्येवमेव शल्य-मुद्धृत्यान्त्रस्रावान् संशोध्य तच्छ्रिद्रमन्त्रं समाधायकालपिपीलिकाभिर्दंशयेत् दष्टे तासां काया-नपहरेत् शिरांसि ततः पूर्व्ववत् सीव्येत्सन्धानञ्च यथोक्तं कारयेत् यष्टीमधुकमिश्रयाच कृष्णमृदावलिप्य बन्धेनोपचरेत्ततोनिवातमा-गारं प्रवेश्याचारिकमुपदिशेद्वासयेच्चैनं तैलद्रोण्यांसर्पिर्द्रोण्यां वा पयोवृत्तिमिति
*
उदकोदरि-णस्तु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्य स्थित-स्याप्तैः सुपरिगृहीतस्याकक्षात् परिवेष्टितस्याधो-नाभेर्वामतश्चतुरङ्गुलमपहाय रोमराज्या व्रीहि-मुखेनाङ्गुष्ठोदरप्रमाणमवगाढं विध्येत् तत्र तप्वा-दीनामन्यतमस्य नाडीद्विद्वारां पक्षनाडीं वा संयो-ज्यादोषोदकमवसिञ्चेत्ततो नाडीमपहृत्य तैल-लवणेनाभ्यज्य व्रणबन्धेनोपचरेन्नचैकस्मिन्नेव दिवसेसर्व्वं दोषोदकमपहरेत् सहसा ह्यपहृते तृष्णा-ज्वराङ्गमर्द्दातीसारश्वासपाददाहा उत्पद्येरन् आ-पूर्य्यते वा भृशतरमुदरमसञ्जातप्राणस्य तस्मा-त्तृतीयचतुर्थपञ्चमषष्ठाष्ठमदशमद्वादशषोडशरा-त्राणामन्यतममन्तरीकृत्य दोषोदकमल्पाल्पमव-सिञ्चेत् निःस्रुते निःस्नुते दोषे गाढतरमावि-ककाशेयचर्म्मणामन्यतमेन परिवेष्टयेदुदुरं तथानाध्मायति वायुः षण्मासांश्च पयसा भोजये-ज्जाङ्गलरसेन वा तत्र त्रीन् मासान् अर्द्धोदकेनपयसा फलाम्लेन जाङ्गलरसेन वावशिष्टं मासत्रय-मन्नं लघहितं वा सेवेतैवं संवत्सरेणागदो भवति
भवति चात्र, --आस्थापने चव विरेचने चपाने तथाहारविधिक्रियासु ।सर्व्वोदरिभ्यः कुशलैः प्रयोज्यंक्षीरं शृतं जाङ्गलजो रसो वा”
इति सुश्रते चिकित्सितस्थाने उदराधिकारः
औषधान्याह
“शुद्धसूतं द्विधा गन्धं मृतार्कायःशिलाजतु ।रससाम्येन दातव्यं रसस्य द्विगुणं विषम्
त्रिकटुचित्रकाकोलीनिर्गुण्डीमूषलीरजः ।अजभोदाविधांशेन प्रत्येकञ्च प्रकल्पयेत्
निम्बपञ्चाङ्गुलक्वाथैर्भावनाश्चैकविंशतिम् ।भृङ्गराजरसैः सप्त दत्त्वा क्षौद्रेण लेहयेत्
वदरास्थिप्रमाणेन वटिकां तां दिवा निशि ।श्लेष्मोत्तरं निहन्त्याशु नाम्ना वैश्वानरी वटी
देवदारुवह्निमूलकल्कं क्षीरेण पाचयेत् ।भोजनं मेषदुग्धेन कौलोत्थेन रसेन च”
इति वैश्वानरी वटी
*
“पिप्पली मरिचं ताम्र-काञ्चनीचूर्णसंयुतम् ।स्नुहीक्षीरे दिनं मर्द्यं तुल्यं जैपालवीजकम्
निष्कं खादेत् विरेकाय सद्यो हन्ति जलोदरम् ।रेचनानाञ्च सर्व्वेषां दध्यन्नं स्तम्भने हितम् ।दिनान्ते प्रदातव्यमन्यद्वा मुद्गयूषकम्”
इति जलोदरीरसः
*
“पारदं शुक्तितुत्थञ्च जैपालं पिप्पलीसमम् ।आरम्बधफलान्मज्जां वज्रीदुग्धेन मर्द्दयेत् ।माषमात्रं वटीं खादेत् स्त्रीणां हन्ति जलोदरम्
चिञ्चाफलरसञ्चानु पथ्यं दध्योदनं हितम् ।दकोदरहरञ्चैव कठिने रेचनेन च”
इति उदरारिरसः
*
“द्विकर्षं लौहचूर्णस्य चाभ्रञ्चापि पलार्द्धकम् ।कर्षं शुद्धं मृतं ताम्रं लिम्पाकाङ्घ्रित्वचां पलम्
मृगाजिनपलं भस्म सर्व्वमेकत्र कारयेत् ।नवगुञ्जाप्रमाणेन वटिकां कारयेद्भिषक्
यकृत्प्लीहोदरहरं कामलाञ्च हलीमकम् ।कासं श्वासं ज्वरं हन्याद्बलवर्णाग्निकारकम् ।यकृदरि त्विदं लौहं वातगुल्मविनाशनम्”
इति यकृदरिलौहम्
*
इति वैद्यकरसेन्द्रसारसंग्रहे
पथ्यानि यथा, --“विरेचनं लङ्घनमब्दसम्भवाःकुलत्थमुद्गारुणशालयो यवाः ।मृगद्विजाजाङ्गलसंज्ञयान्विताःपेयाः सुरामाक्षिकसीधुमाधवाः
तक्ररसोनोरुवुतैलमार्द्रकम्शालिञ्च शाकं कुलकं कठिल्लकम् ।पुनर्नवा शिग्रुफलं हरीतकीताम्बूलमेलायवशूकमायसम्
अजा-गवोष्ट्री-महिषी-पयोजलंलघूनि तिक्तानि दीपनान्यपि ।वस्त्रेण संवेष्टनमग्निकर्म्मताविषप्रयोगोऽनुयुतो यथायथम्”
*
अपथ्यानि यथा
“सस्नेहनं धूमपानं जलपानं शिराव्यधः ।छर्द्दिर्यानं दिवानिद्रा व्यायामः पिष्टवैकृतम्
औदकानूपमांसानि पत्रशाकांस्तिलानपि ।उष्णानि विदाहीनि लवणान्यशनानि
शिम्बीधान्यं विरुद्धान्नं दुष्टनीरं गुरूणि ।महेन्द्रगिरिजातानां सरितां सलिलानि
विष्टम्भीनि विशेषात्तु स्वेदं छिद्रसमुद्भवे ।वर्ज्जयेदुदरव्याधौ वैद्यो रक्षन्निजं यशः”
इति वैद्यकपथ्यापथ्यविधिः
*
)
वाचस्पत्यम्
Sanskrit
उदररोग
पु०
त० (उदरी) इति ख्याते रोगे उदरशब्दे विवृतिः उदरव्याधिरप्यत्र “कदलोयवक्षारन्तु पानी-येन प्रसाधितम् तदास्वादेन नश्यन्ति उदरव्याधयोऽ-खिलाः” गरु०
पु०