| YouTube Channel

उदरः (udaraH)

 
शब्दकल्पद्रुमः
Sanskrit
उदरः,
पुं,
(उदरं अश्रयत्वेनास्त्यस्य अर्श आदित्वादच् ।) उदरस्थरोगविशेषः उदरी इति भाषा ।यथा अथोदराधिकारः तत्रोदरस्य निमित्त-माह ।“रोगाः सर्व्वेऽपि मन्देऽग्नौ सुतरामुदराणि ।अजीर्णान्मलिनैश्चान्यर्जायन्ते मलसञ्चयात्”
अग्नौ मन्दे सर्व्वे रोगा जायन्ते किन्तु सुतरा-मतिशयेन उदराणि जायन्ते अपरानपि हेतू-नाह अजीर्णान्मलिनैश्चान्यैः अत्यन्तदोषजनकैःमलसञ्चयात् मलानां दोषाणां पुरीषस्य चाति-वृद्धेः अत्रोदरशब्देनोदरस्थो रोग उच्यते यतआह ।“तात्स्थ्यतद्धर्म्मताभ्याञ्च तत्समीपतयापि ।तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ता चतुर्व्विधा”
*
संप्राप्तिमाह ।“रुद्धाः स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः ।प्राणाग्न्यपानान् संदुष्य जनयन्त्युदरं नृणाम्
*
सामान्यरूपमाह ।“आध्मानं गमने ऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निता ।शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः ।दाहस्तन्द्रा सर्व्वेषु जठरेषु भवन्ति हि
*
सन्निकृष्टनिदानपूर्व्विकां संख्यामाह ।“पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः ।सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु
*
वातोदरस्य लक्षणमाह ।“तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु ।कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्ब्बभेदनम्
शुष्ककासोऽङ्गमर्द्दश्च गुरुता मलसंग्रहः ।श्यावारुणत्वगादित्वमकस्मान्मांसवृद्धिमत्
सतोदमेदमुदरं तनुकृष्णशिराततम् ।आध्मानादतिवच्छब्दमाहतं प्रकरोति
वायुश्चात्र सरुक् शब्दो विचरेत् सर्व्वतोगतिः”
पाणिपादित्यत्र व्यञ्जनान्तः पाच्छब्द आर्षत्वात् ।कुक्षिपार्श्वोदरेत्यत्र कुक्षिशब्द उदरस्य वाम-दक्षिणभागद्वयवाची सर्व्वतोगतिः सकलकोष्ठेसञ्चरन्
*
पैत्तिकमाह ।“पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता ।भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्
पीतताम्रशिरानद्ध सस्वेदं सोष्म दह्यते ।धूमायते मृदुस्पर्शं क्षिप्रपाकं प्रदूयते”
हरित् शाकवर्णम् सोष्म अन्तस्तापयुक्तम् दह्यतेवहिर्दाहयुक्तम् धूमायते धूममिवोद्वमति ।क्षिप्रपाकं क्षिप्रपाकात् जलोदरतां याति प्रदू-यते व्यथते
*
कफोदरमाह ।“श्लेष्मोदरेऽङ्गसदनं स्वापश्चयथुगौरवम् ।तन्द्रोत्क्लेशोऽरुचिः श्वासः कासः शुक्लत्वगादिता
उदरं स्तिमितं स्निग्धं शुक्लराजीततं महत् ।चिराभिवृद्धिकठिनं शीतस्पर्शं गुरु स्थिरम्”
स्वापः स्पर्शाज्ञता गौरवमङ्गानाम् तन्द्रा निद्रा-बाहुल्यम् उत्क्लेशो हृल्लासः शुक्लराजीततंशुक्लशिराव्याप्तम्
*
सन्निपातोदुरमाह ।“स्त्रियोऽन्नपानं नखलोममूत्र-विडार्त्तवैर्युक्तमसाधुवृत्ताः ।यस्मै प्रयच्छन्त्यरयो गरांश्चदुष्टाम्बुदूषीविषसेवनाच्च
तेनाशु रक्तं कुपिताश्च दोषाःकुर्य्युः सुघोरं जठरं त्रिलिङ्गम् ।तच्छीतवाते भृशदुर्द्दिने चविशेषतः कुप्यति दह्यते
चातुरो मूर्च्छति हि प्रसक्तंपाण्डुः कृशः शुष्यति तृष्णया ।दूष्योदरं कीर्त्तितमेतदेवप्लीहोदरं कीर्त्तयतो निबोध”
स्त्रिय इत्यविवेकिसन्निहितजनोपलक्षणम् ताश्चस्वसौभाग्यमिच्छन्त्यः विट् मांर्ज्जारादीनाम् ।आर्त्तवं रजः अरयो वा गरान् संयोगजानिविषाणि दुष्टाम्बु सविषमत्स्यतृणपर्णादियुतंशटितञ्च
दूषीविषं विषमेवाग्न्याद्युपघातेन स्वल्प-प्रभावम् यत उक्तम् ।“जीर्णं विषघ्नौषधिभिर्हतं वादावाग्निवातातपशोधितञ्च ।स्वभावतो वा गुणविप्रयुक्तंविषं हि दूषीविषतामुपैति”
गुणविप्रयुक्तं गुणवियुक्तं तत् उदरं शीततादिषुकुप्यति दूषीविषस्य कोपात् मूर्च्छातिविषयो-गात् प्रसक्तं निरन्तरं एतदेव सन्निपातोदरम् ।तन्त्रान्तरे दूष्योदरं कीर्त्तितम् अथवा परस्परंदूषयन्तीति दोषा एव दूष्याः तैः कृतमुदरं दूष्यो-दरम्
*
प्लीहोदरमाह ।“वर्द्धते प्लीहवृद्ध्या यद्विद्यात् प्लीहोदरं हि तत् ।तद्वामे वर्द्धते पार्श्वे निमित्तं तस्य तत्र यत्
प्रवृद्धप्लीहलिङ्गानि यान्युक्तानि भिषग्वरैः ।प्लीहोदरेऽपि दृश्यन्ते तानि सर्व्वाणि देहिनाम्”
प्लीहोदरस्यैव भेदो यकृद्दाल्युदरं पुनरधिक-मित्याह “सव्यान्यपार्श्वे यकृति प्रवृद्धे ज्ञेयं यकृ-द्दाल्युदरं तदेव” यकृद्दालयति दोषैर्भेदयतीतियकृद्दाल्युदरं तदेव उदरमेव
*
बद्धगुदमाह ।“यस्यान्नमन्नैरुपलेपिभिर्व्वा, बालाश्मभिर्व्वा पिहितं यथावत् ।सञ्चीयते यस्य मलः सदोषः, शनैः शनैः शङ्करवच्च नाड्याम्
निरुध्यते यस्य गुदे पुरीषंनिरेति कृच्छ्रादपि चाल्पमल्पम् ।हृन्नाभिमध्ये परिवृद्धिमेतितस्योदरं बद्धगुदं वदन्ति”
उपलेपिभिः पिच्छिलैरन्नैः शाकशालुकादिभिः ।बालाश्मभिः बालुकाभिः कर्क्करैर्व्वा बालैः केशैःअश्मभिः पाषाणैर्व्वा यथावत् यस्य यत् सम्भवति ।मलः पुरीषम् शङ्करवत् संमार्ज्जनीक्षिप्ततृण-धूल्यादिवत् “शङ्करोऽवकरः पुमान्” इत्यमरः ।शङ्करो घूण इति लोके नाड्यां अन्त्रनाड्याम् ।हृन्नाभिमध्ये हृन्नाभ्योर्मध्ये
*
क्षतोदरमाह ।“शल्यं यथान्नोपहतं यदन्त्रंभुक्तं भिनत्त्यागतमन्यथा वा ।तस्मात् क्षतोऽन्त्रात् सलिलप्रकाशःस्रावः स्रवेद्वै गुदतस्तु भूयः
नाभेरधश्चोदरमेति वृद्धिंनिस्तुद्यते दाल्यति चातिमात्रम् ।एतत् परिस्राव्युदरं प्रदिष्टंदकोदरं कीर्त्तयतो निबोध”
शल्यं कर्क्करादि अन्नोपहतं अन्ननिहितम् भुक्तंयदन्त्रं भिनत्ति तथा अन्यथा आगतं भोजनंविना आगतं शरादि तदपि यदन्त्रं भिनत्तिएतदुपलक्षणम् जृम्भणमत्यशनं वा यदन्त्रंभिनत्ति यत उक्तं चरके ।“शर्क्करातृणकाष्ठास्थिकण्टकैरन्नसंयुतः ।भिद्येतान्त्रं यदा भुक्तं जृम्भयात्यशनेन वा”
इति ।तस्मात् भिन्नादन्त्रात् गुदतस्तु भूयः अन्त्रात्संस्रुत्य पुनर्गुदतः स्रवेदित्यर्थः दाल्यति विदी-र्य्यतैव पदसिद्धिरार्षत्वात् एतत् क्षतोदरंतन्त्रान्तरे परिस्राव्युदरं प्रदिष्टम्
*
उदकोदरमाह ।“यत् स्नेहपीतोऽप्यनुवासितो वा, वान्तो विरिक्तोऽप्यथवा निरूढः ।पिबेज्जलं शीतलमाशु तस्यस्रोतांसि दुष्यन्ति हि तद्वहानि
स्नेहोपलिप्तेय्वथवापि तेषू-दकोदरं पूर्व्ववदभ्युपैति ।स्निग्धं महत्तत् परिवृत्तनाभिसमाततं पूर्णमिवाम्बुना च”
यथा दृतिः क्षुभ्यति कम्पते चशब्दायते चापि दकोदरं तत्”
स्नेहपीतः पीतैत्यत्राध्यवसितादित्वात् कर्त्तरिक्तः पश्चात् स्नेहं पीतः स्नेहपीत इति तत्पुरुषः ।तेन स्नेहं पीतवानित्यर्थः अनुवासितो वा गृही-तानुवासनवस्तिः वान्तः अत्रापि पूर्व्ववत् कर्त्तरिक्तः तेन वान्तवानित्यर्थः एवं विरिक्तः विरिक्त-बान् तथा निरूढः गृहीतनिरूढवस्तिः सचेदाशु शीतलं जलं पिबेत् तस्य तद्वहानि जल-वहानि स्रोतांसि दुष्यन्ति स्वकर्म्मदुष्टानि भवन्तिजलवहेषु स्रोतःसु दुष्टेषु सत्सु अन्नरसे उपस्ने-हन्यायेन वहिर्भूते दकोदरमायाति अथवातेषु उदकवहेषु स्रोतःसु स्नेहोपलिप्तेषु पूर्व्ववत्यथापूर्व्वम् अन्नरसे उपस्नेहन्यायेन वहिर्निःसृतेदकोदरमायाति तथा जलेऽपि वहिर्निःसृतेदकोदरमायाति तत् उदरम् परिवृत्तनाभिगम्भीरनाभि समाततं स्तब्धम् यथा दृतिःचर्म्ममयं जलाहरणपात्रम् क्षुभ्यति अन्तर्जल-दोलनेन सञ्चलति कम्पते वहिः शब्दायते कम्प-मानं सत् शब्दं करोति
*
साध्यासाध्यलक्षणमाह ।“जन्मनैवोदरं सर्व्वं प्रायः कृच्छ्रतमं मतम् ।बलिनस्तदजाताम्बु यत्नसाध्यं नवोत्थितम्”
बलिनःअजाताम्बु नवोत्थितञ्च यत्नसाध्यमित्यन्वयः ।“पश्चाद्बद्धगुदं तूर्द्ध्वं सर्व्वं जातोदकं तथा ।प्रायो भवत्यभावाय छिद्रान्त्रञ्च दकोदरम्”
छिद्रान्त्रं शरादिना छिद्रमन्त्रं यस्य तदुदरं अभा-वायं भवति
*
जातोदकस्योदरस्य लक्षणमाह चरकः ।“पयःपूर्णा दृतिरिव क्षोभे शब्दकरं मृदु ।अप्रव्यक्तशिरःशूलं नितान्तमुदरं महत्
आलस्यमास्यवैरस्यं मूत्रं बहु सकृच्छ्रतः ।जातोदकस्य लिङ्गं स्यान्मन्दोऽग्निः पाण्डुतापि
शूलाक्षं कुटिलोपस्थमुपक्लिन्नतनुत्वचम् ।बलशोणितमांसाग्निपरिक्षीणञ्च वर्ज्जयेत्”
शूलाक्षस्थाने शूनाक्षमिति पाठः कुटिलीपस्थंवक्रमेहनम् उपक्लिन्नतनुत्वचं उपरि आर्द्रा तन्वोत्यग्यस्य तं उदरिणम् ।“पार्श्वभङ्गान्नविद्वेषशोफातीसारपीडितम् ।विरिक्तं चाप्युदरिणं पूर्य्यमाणं विवर्ज्जयेत्”
विरिक्तमपि पूर्य्यमाणं पूर्य्यमाणोदरं उदरिणंविवर्ज्जयेत्
*
अथोदरस्य चिकित्सा ।“एरण्डतैलं दशमूलमिश्रंगोमूत्रयुक्तस्त्रिफलारसो वा ।निहन्ति वातोदरशोथशूलान्क्वाथः समूत्रो दशमूलजश्च
कुष्ठं दन्ती यवक्षारः पाठा त्रिलवणं वचा ।शुण्ठी चोष्णाम्बुना पीता वातोदररुजापहा”
कुष्ठादिचूर्णम्
*
“लशुनस्य तुलामेकां जलद्रोणे विपाचयेत् ।त्रिकटु त्रिफला दन्ती हिङ्ग सैन्धवचित्रकम्
देवदारु वचा कुष्ठं मधु शिग्रुः पुनर्नवा ।सौवर्च्चलं विडङ्गानि दीप्यको गजपिप्पली
एतेषां पलिकान् भागान् त्रिवृतः षट्पलानि ।पिष्ट्वा कषायेणैतेन तैलं मृद्वग्निना पचेत्
तत्पिबेत् प्रातरुत्थाय यथाग्निबलमात्रया ।निहन्ति सकलान् रोगान् उदराणि विशेषतः
मूत्रकृच्छ्रमुदावर्त्तमन्त्रवृद्धिगुदक्रमीन् ।पार्श्वकुक्षिभवं शूलमामशूलमरोचकम्
यकृदष्ठीलिकानाहान् प्लीहानं चाङ्गवेदनाम् ।मासमात्रेण नश्यंन्ति अशीतिर्वातजा गदाः”
इति रसोनतैलम्
*
“पित्तोदरेषु बलिनं पूर्व्वमेव विरेचयेत् ।दुर्ब्बलं हनुवाष्पादौ शोधयेत् सौरवस्तिना ।संजातबलकायाग्निं पुनः स्निग्धं विरेचयेत्
पयसा त्रिवृत्कल्कैरुवूकस्य शृतेन
पिप्पल्यादिगणेनाज्यं पाचितं पाययेद्भिषक् ।नरं पथ्यभुजं नित्यं कफोदरनिवृत्तये”
*
“नागरत्रिफलाकल्कैर्दध्यम्बुपरिपेषितैः ।पाचितं तैलमाज्यञ्च पिबेत् सर्व्वोदरापहम्”
इति नागरादितैलं घृतञ्च
*
“शालियष्टिकगोधूमयवनीवारभोजनम् ।निरूहो रेचनं श्रेष्ठं सर्व्वेषु जठरेष
आनूषमोदनं मांसं शाकं पिष्टकृतं तिलाः ।व्यायामञ्च दिवास्वप्नपानपानानि वर्ज्जयेत्
तथोग्रलवणोष्णानि विदाहीनि गुरूणि ।नाद्यादन्नानि जठरे तोयपानञ्च वर्ज्जयेत्
उदराणां मलाढ्यत्वाद्बहुशः शोधनं हितम् ।क्षीरेणैरण्डतैलं वा पिबेन्मूत्रेण वासकृत्”
*
“वातोदरी पिबेत्तक्रं पिप्पलीलवणान्वितम् ।शर्क्करामरिचोपेतं स्वादु पित्तोदरी पिबेत्
यवानीहपुषाजाजीव्योषयुक्तं कफोदरी ।सन्निपातोदरी युक्तं त्रिकटुक्षारसैन्धवैः
यवानी हपुषा धान्यं त्रिफला चोपकुञ्चिका ।कारवी पिप्पलीमूलमजगन्धा शटी वचा
शताह्वा ञीरको व्योषं स्वर्णक्षीरी चित्रकम् ।द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवणपञ्चकम्
विडड्गञ्च समांसानि दन्त्या भागत्रयं भवेत् ।त्रिवृद्विशाले द्विगुणे सातला स्याच्चतुर्गुणा
एष नारायणो नाम्ना चूर्णो रोगगणापहः ।एनं प्राप्य निवर्त्तन्ते रोगा विष्णुमिवासुराः
तक्रेणोदरभिः पेयो गुल्मिभिर्वादराम्बुना ।आनद्धवाते सुरया वातरोगे प्रसन्नया
दधिमण्डेन विडबन्धे दाडिमाम्बुभिरर्शसे ।परिकर्त्तषु वृक्षाम्लैरुष्णाम्बुभिरजीर्णके
भगन्दरे पाण्डुरोगे कासे श्वासे गलग्रहे ।हृद्रोगे ग्रहणीरोगे कुष्ठे मन्देऽनले ज्वरे
दंष्ट्राविषे मूलविषे सगरे कृत्रिमे विषे ।यथार्हं स्निग्धकोष्णेन पेयभेतद्विरेचनम्”
उपकुञ्चिका कारवी वृहज्जीरकः यस्य मग-रैला नाम इति लोके तस्य भागद्वयं ग्राह्यं पुन-रुक्तेः स्वर्णक्षीरी चोक इति लोके विशालाइन्द्रवारुणी सातला सीहुण्डभेदः सातलेत्येवप्रसिद्धा परिकर्त्तो गुदे परिकर्त्तनवत् पीडाइति नारायणचूर्णम्
*
“स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः ।घृतं विपक्वं कुडवप्रमाणंतोयेन तस्याक्षसमेन कर्षम्
पीतोष्णमम्भोऽनुपिबेद्विरेकेपेयं रसं वा प्रपिबेद्विधिज्ञः ।नाराचमेनं जठरामयाना-मुक्तं प्रयुक्तं प्रवदन्ति सन्तः”
इति नाराचघृतम्
*
“वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम् ।निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये”
वज्राण्डी शूरणपत्रो माणभेदः वज्राण्डी इतिलोके
*
“पुनर्नवादारुनिशासविश्वा-पटोलपथ्याः पिचुमर्द्ददारु ।सनागरच्छिन्नरुहेति सर्व्वैःकृतः कषायो विधिना विधिज्ञैः
गोमूत्रयुक् गुग्गुलुना युक्तःपीतः प्रभाते नियतं नराणाम् ।सर्व्वाङ्गशोथोदरपार्श्वशूल-श्वासान्वितं पाण्डुगदं निहन्ति”
पुनर्नवादिक्वाथः इत्युदराधिकारः इति भाव-प्रकाशः
(“उदरं स्तिमितं गुरु” इति वैद्यक-माधवकरधृतरुग्विनिश्चयग्रन्थः अस्य शब्दस्यरोगविशेषवाच्यत्वेऽन्याविशेषवाच्यविवृत्तिरुदररो-गशब्दे ज्ञातव्या
)