उदयः (udayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishउदयः [udayḥ] उदयनम् [udayanam], उदयनम् See under उदि.
Apte Hindi
Hindiउदयः
- उद्+इ+अच्
"निकलना, उगना, ऊपर जाना"
उदयः
- उद्+इ+अच्
"आविर्भाव, उत्पादन"
उदयः
- उद्+इ+अच्
सृष्टि
उदयः
- उद्+इ+अच्
पूर्वादि
उदयः
- उद्+इ+अच्
"प्रगति, समृद्धि, उदय"
उदयः
- उद्+इ+अच्
"उन्नयन, उत्कर्ष, उदय, वृद्धि"
उदयः
- उद्+इ+अच्
"फल, परिणाम"
उदयः
- उद्+इ+अच्
"निष्पन्न्ता, पूर्णता"
उदयः
- उद्+इ+अच्
"लाभ, नफा"
उदयः
- उद्+इ+अच्
"आय, राजस्व"
उदयः
- उद्+इ+अच्
ब्याज
उदयः
- उद्+इ+अच्
"प्रकाश, चमक"
उदयः
- -
"उठना, उगना, ऊपर जाना"
उदयः
- -
आरम्भ
उदयः
- -
"अचूकपना, अमोघता"
उदयः
- -
"आयुष्यकर्म, दीर्घजीवी होने का यज्ञ"
उदयः
- -
"पूर्वी ज्या, प्रथम चान्द्रभवन"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
E Bharati Sampat
Sanskrit(पुं) प्रातः सूर्यदर्शनपर्वतः। उद्+इण्(गतौ)+अच् । ‘एरच्’ ३.३.५६। १.उदयपर्वतः। ‘उदितमुदितदीप्तिर्याति यः’ माघः११.१२। २.उन्नतिः। द्विषतामुदयः सुमेधसा गुरुरस्वन्ततरः सुमर्शणः’ किराता०२.८। ३.उत्पत्तिः। ४.आदायः। ५.सृष्टिः। ६.श्रेयः। ‘विहीयमानानुदयाय तेन’ किराता०३.३२। ७.अभिवृद्धिः। ८.उत्थानम् । ९.कार्यफलम् । ‘आगमैः सदृशारम्भः प्रारम्भसदृशोदयः’ रघुः१.१५। १०.राशीनां प्रारम्भस्थानम् ।
Wordnet
Sanskrit उत्पत्तिः, उद्भवः, उदयः
प्रादुर्भवनस्य क्रिया भावो वा।
"पृथिव्यां प्रथमतः एककोशीयस्य जीवस्य उत्पत्तिः अभवत्।"
उदयः, अभ्युदयः, अभ्युत्थान
कस्यापि वस्तुनः शक्तेः वा उत्पद्य प्रकटनम्।
"1972संवत्सरे बाङ्गलादेशस्य स्वतन्त्रराष्ट्रस्य रूपेण उदयः जातः।"
लाभः, लब्धिः, प्राप्तिः, फलम्, फलोदयः, लभ्यम्, लभ्यांशः, आयः, उदयः, उत्पन्नम्, पणाया, पण्यफलत्वम्, वृद्धिः, विवृद्धिः, प्रतिपत्तिः, योगक्षेमः, प्रयोगः, अर्जनम्, उपार्जनम्
मूलधनादधिकं व्यापारादिभिः प्राप्तं धनम्।
"सः वस्त्रव्यापारे लाभः प्राप्तवान्।"
उदयः
पुरुषनामविशेषः ।
"उदयः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः कोषे अस्ति"
उदयः
राजगृस्य समीपस्थः एकः पर्वतः ।
"उदयस्य उल्लेखः कोषे अस्ति"
वैजयन्तीकोषः
SanskritWord: उदयः
Root: उदय
Gender: पुं
Number: all
अर्थः ⇒ उदयपर्वतः
Meaning(s):
⇒ Name of a mountain
Shloka(s):
3|2|6|1 ► उदयस्तूदयाद्रिः स्यादस्तस्त्वस्तमयाचलः। (भूमिकाण्डः/शैलाध्यायः)
Synonym(s):
➠ 3|2|6|1 ⇢ उदयः (उदय) (पुं) ⇒ Name of a mountain ⇒ उदयपर्वतः
➠ 3|2|6|1 ⇢ उदयाद्रिः (उदयाद्रि) (पुं) ⇒ Epithet of the mountain Udaya ⇒ उदयपर्वतः
Related word(s):
Tamil
Tamilஉத3ய: : உதித்தல், எழுதல், உண்டாக்குதல், உற்பத்தி செய்தல், ஸ்ருஷ்டி, அபிவிருத்தி, வளர்ச்சி, செழிப்பு, விளைவு, பயன், நிறைவு, லாபம்.
अमरकोशः
SanskritWord: उदयः
Root: उदयः
Gender: undefined
Number: undefined
Meaning(s):
⇒ lot
⇒ luck
⇒ gain
⇒ range
⇒ reach
⇒ extent
⇒ advent
⇒ saving
⇒ fortune
⇒ finding
⇒ reaching
⇒ validity
⇒ discovery
⇒ obtaining
⇒ occurrence
⇒ arrival at
⇒ collection
⇒ obtainment
⇒ acquisition
⇒ achievement
⇒ attaining to
⇒ joyful event
⇒ holding good
⇒ meeting with
⇒ determination
⇒ act of gaining
⇒ act of getting
⇒ act of obtaining
⇒ act of acquisition
⇒ being met with or found
⇒ rescue or deliverance from
⇒ power of obtaining everything
⇒ successful termination of a plot
⇒ power to enter or penetrate everywhere
⇒ conjecture based on the observation of a particular thing
Shloka(s):
3|3|69|1 ► उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे। (नानार्थवर्गः)
Synonym(s):
➠ 3|3|69|1 ⇢ प्राप्तिः (प्राप्ति) (स्त्री) ⇒ lot, luck, gain, range, reach, extent, advent, saving, fortune, finding, reaching, validity, discovery, obtaining, occurrence, arrival at, collection, obtainment, acquisition, achievement, attaining to, joyful event, holding good, meeting with, determination, act of gaining, act of getting, act of obtaining, act of acquisition, being met with or found, rescue or deliverance from, power of obtaining everything, successful termination of a plot, power to enter or penetrate everywhere, conjecture based on the observation of a particular thing
Related word(s):
जातिः ➡ क्रिया
शब्दकल्पद्रुमः
Sanskritउदयः, (उद्यन्ति ग्रहा यस्मात् । उत् + इ +अच् ।) पूर्व्वपर्ब्बतः । उदयाचलः । (भावे + अच् ।)समुन्नतिः । इति मेदिनी ॥
दीप्तिः । मङ्गलम् ।इति शब्दरत्नावली ॥
ग्रहाणामुद्गमः । तत्रसूर्य्यस्योदयविवरणं यथा, विष्णुपुराणे २ अंशे ८अध्यायः ॥
* ॥
“उदयास्तमने चैव सव्वकालन्तु संमुखे ।दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥
१३ ॥
यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः ।तिरोभावञ्च यत्रैति तत्रैवास्तमनं रवेः ॥
१४ ॥
नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः ।उदयास्तमनाख्यञ्च दर्शनादर्शनं रवेः ॥
१५ ॥
शक्रादीनां पुरे तिष्ठन् स्पशत्थेष पुरत्रयम् ।विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वेपुरे तथा ॥
१६ ॥
उदितो वर्द्धमानाभिरामध्याह्नात्तपन् रविः ।ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥
१७ ॥
उदयास्तमनाभ्याञ्च स्मृते पूर्व्वापरे दिशौ ।यावत् पुरस्तात्तपति तावत् पृष्ठेऽथ पार्श्वयोः ॥
१८ ॥
ऋतेऽमरगिरेर्मेरोरुपरि ब्रह्मणः सभाम् ।ये ये मरीचयोऽर्कस्य प्रयान्ति ब्रह्मणः सभाम् ॥
१९ ॥
ते ते निरस्तास्तद्भासा प्रतीपमुपयान्ति वै ।तस्माद्दिश्युत्तरस्यां वै दिवारात्रिः सदैव हि ।सर्व्वेषां द्वीपवर्षाणां मेरुरुत्तरतो यतः” ॥
२० ॥
उदयास्तमने च सर्व्वकालं भवतः । ते च परस्परंसंमुखे समानसूत्रस्थे भवतः । तत्र हेतुमाह ।यर्यत्रेति । रवेरुदयास्तमयौ सर्व्वकालं मध्याह्न एवसतोऽर्कस्य न स्त एव अतो एवेरुदयास्तमयत्वंदर्शनादर्शनमात्रमेव ॥
दर्शनादर्शनयोरवधिमाह ।शक्रादीनामिति । इन्द्राद्यन्यतमस्य पुरे मध्याह्नेतिष्ठंस्तदेकं पुरं अभितः पुरद्वयं चेत्येवं पुर-द्वयं तदन्तराजस्थौ द्वौ च विकर्णौ कोणौ उद-याद्यवस्थाभिः स्तृशति स्वरश्मिभिर्भासयति । तथाविकर्णस्थः अग्न्याद्यन्यतमकोणे मध्याह्ने स्थितस्तंकोणं अभितः स्थितं कोणद्वयं चेत्येवं त्रीन् को-णान् तन्मध्यवर्त्तिद्वे च पुरे तथैवोदयाद्यवस्थाभिःस्पृशति । भूवलयस्यार्द्धे प्रतपन् दृश्यते ताव-दहः । अर्द्धे तु न दृश्यते तावद्रात्रिरित्यर्थः ।तथाहि ऐन्द्रे पुरे मध्याह्ने यदा तिष्ठति तदासौम्यपुरस्थानामस्तमयः । ऐशकोणस्थानां तृतीयोयामः । अग्निकोणस्थानां प्रथमः । याम्ये स्थिता-नामुदयः । एवं यदा याम्ये मध्याह्ने तिष्ठति तदाऐन्द्रे अस्तमयः । अग्निकोणे तृतीयो यामः ।नैरृतिकोणे प्रथमो यामः । वारुणे उदयः । यदाच वारुणे मध्याह्नः तदा याम्ये अस्तमयः । नैरृति-कोणे तृतीयो यामः । वायव्ये प्रथमः । सौम्येउदयः । यदा सौम्ये मध्याह्नस्तदा वारुणे अस्त-मयः । वायव्ये तृतीयो यामः । ऐशकोणे प्रथमः ।ऐन्द्रे उदयः । एवं अग्निकोणे यदा मध्याह्नस्तदाऐशकोणे अस्तमयः । इन्द्रपुरे तृतीयो यामः ।यमपुरे प्रथमः । नैरृतिकोणे उदयः । इत्यादियोज्यम् । एवं मेरोः सर्व्वतः परिभ्रमन् सू-र्य्योऽर्द्धभूवलयं प्रकाशयन् दर्शनादर्शनाद्यपेक्षयाअहोरात्रव्यवस्थाकारणमुक्तं भवति ॥
सन्नि-धानव्यवधानकृतमेव रश्मीनां वृद्धिह्रासतीव्रत्व-मन्दत्वादिकमपीत्याह । उदित इति गोभिः र-श्मिभिः ॥
दिग्विभागोऽप्युदयास्तमयनिमित्तएवे-त्याह उदयेति । यत्र यस्योदेति सा तस्य पूर्व्वादिक् । यत्रास्तमेति सा अपरा प्रतीची । तथाश्रुतिः । “तस्मादसावादित्यः सर्व्वाः प्रजाः प्रत्य-गुदेति । तस्मात् सर्व्वा एवान्यतः प्रत्युदगादिति” ॥
पुरस्तादुद्यन्तं सूर्य्यं पश्यतश्च दक्षिण-वाम-पार्श्व-भागौ दक्षिणोत्तरे दिशाविति दर्शयन् रश्मि-विस्तारावधिमाह । यावदिति । चतुर्दिक्षु लोका-लोकाचलपर्य्यन्तं तपतीत्यर्थः ॥
मेरौ तु विशेष-माह । ऋते इति । ब्रह्मसभावर्जं मेरोरुपर्य्यपिसर्व्वतस्तपति न तु ब्रह्मसभां भासयति । तत्रहेतुमाह । ये ये मरीचय इति ॥
मेरोः सर्व्वतोऽपिविशेषतान्तरमाह । तस्मादिति । यतो यस्मात्सर्व्वेषां द्वीपानां वर्षाणाञ्च मेरुरुत्तरत एव स्थितः ।तस्मान्मेरोरुत्तरस्यां दिशि सदा दिवापि अन्येषांदिनेऽपि नित्यं रात्रिरेव । अयं भावः । मेरुं प्रद-क्षिणीकुर्व्वन्तं सूर्य्यं ये यत्र पश्यन्ति सैव तेषांप्राची । तेषाञ्च वामभाग एव मेरुः । अतः सर्व्वेषांसर्व्वदा मेरुरुत्तरत एव । दक्षिणभागे च लोका-लोकाचलः । तस्मादुत्तरस्यां दिशि सदा रात्रिः ।दक्षिणस्याञ्च दिशि सदा दिनमिति । यद्वा ।भारतादिवर्षस्थानां सम्मुखे सूर्य्यमुद्यन्तं पश्यता-मुत्तरस्यां दिशि वामभागे मेरोरेकतः सदादिनम् । अन्यतश्च सदा रात्रिः । दक्षिणभागे तुसदा दिनमेवेत्यर्थादुक्तं भवति” ॥
इति तट्टीकायांश्रीधरस्वामी ॥
कृदन्तरूपमाला
Sanskrit1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् २ अवगामम् २ गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम् २
ईषिषित्वा २
01 (६८)
02 (२-अदादिः-१०४५-अनिट्। सक-पर-)
03 (१४ श्लो।)
04 [[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05 [[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06 [[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07 [[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08 [[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09 [[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10 [[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11 [[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12 [[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13 [[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14 [[९। आ + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15 [पृष्ठम्००६९+ २४]
16 [[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17 [[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18 [[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19 [[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20 [[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21 [[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22 [[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23 [[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24 [[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25 [[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26 [[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27 [[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28 [[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29 [पृष्ठम्००७०+ ३०]
30 [[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31 [[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। न अभ्रेषः।]]
32 [[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33 [[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34 [[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35 [[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36 [[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37 [[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38 [[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39 [[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40 [[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41 [[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42 (वर्तते)
43 (देशः)
44 [[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45 [पृष्ठम्००७१+ २६]
46 [[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
