| YouTube Channel

उदग्रं (udagraM)

 
शब्दकल्पद्रुमः
Sanskrit
उदग्रं, त्रि, (उद्गतमग्रं यस्य ।) उच्छ्रितम् उच्चम् ।इत्यमरः
(विशालम् महत् दीर्घम् भीमम् ।“नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः”
इति माघः २१ तथा, रघुः ५३ ।“क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुव-नेषु रूढः” “अवन्तिनाथोऽयमुदग्रबाहुः”
इतिच रघुः ३२
)