उदकपरीक्षा (udakaparIkSA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English उदकपरीक्षा udakaparIkSA water-trial
उदकपरीक्षा udakaparIkSA kind of ordeal
उदकपरीक्षा udakaparIkSA water-trial
कोश koza water used at an ordeal or judicial trial
शब्दकल्पद्रुमः
Sanskritउदकपरीक्षा, (उदकस्य उदकेन वा परीक्षा ।)दिव्यविशेषः । यथा । अथोदकपरीक्षा ।पितामहः ।“तोयस्याथ प्रवक्ष्यामि विधिं धर्म्म्यं सनातनम् ।मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥
शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा” ।तत्र प्रथमतो वरुणं पूजयेत् । यथा नारदः ।“गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः ।वरुणाय प्रकुर्व्वीत पूजामादौ समाहितः” ॥
ततो धर्म्मावाहनादिसकलदेवतापूजाहोमसम-न्त्रकप्रतिज्ञापत्रशिरोनिवेशान्तं कर्म्म कुर्य्यात् ।कात्यायनः ।“शरांस्त्वनायसाग्रांस्तु प्रकुर्व्वीत विशुद्धये ।वेणुकाष्ठमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत्” ॥
पितामहः ।“क्षेप्ता च क्षत्रियः कार्य्यस्तद्वृत्तिर्ब्राह्मणोऽथवा ॥
अक्रूरहृदयः शान्तः सोपवासस्तथा शुचिः ॥
इषून्न प्रक्षिपेद्धीमान् मारुते वाति वा भृशम् ।विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले” ॥
* ॥
नारदः ।“क्रूरं धनुः सप्तशतं मध्यमं षट्शतं मतम् ।मन्दं पञ्चशतं प्रोक्तमेष ज्ञेयो धनुर्विधिः” ॥
अङ्गुलीनां सप्ताधिकं शतं यस्य धनुषः परिमाणंतत् सप्तशतम् । एवं षट्शतादिकम् ॥
* ॥
पितामहः ।“मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् ।हस्तानान्तु शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥
तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदर्शनात् ।मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥
शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् ।सर्पन् सर्पन् शरो याति दूराद्दूरतरं यतः” ॥
पतनं ग्राह्यमिति शरपतनस्थानपर्य्यन्तं गच्छेदि-त्यर्थः । तेन प्रसरणपक्षेऽपि पतनस्थानकशर-ग्रहणं ततश्च प्रथमतः पुरुषान्तरेण तत्स्थाने शरःआनेतव्यः ॥
* ॥
नारदः ।“नदीषु नातिवेगासु तडागेषु सरःसु च ।ह्रदेषु स्थिरतोयेषु कुर्य्यात् पुंसां निमज्जनम्” ॥
नातिवेगासु स्थितिविरोधिवेगशून्यासु ॥
* ॥
विष्णुः । पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्ज्जितेतस्य नाभिमात्रजले मग्नस्यारागद्वेषिणः पुरुष-स्यान्यस्योरू गृहीत्वा अभिमन्त्रिताम्भः प्रविशेत् ।तत्समकालञ्च नातिक्रूरमृदुना धनुषा पुरुषो-ऽपरः शरमोक्षं कुर्य्यादिति तस्य शाध्यस्येत्यर्थः ।अन्यथा तस्येति व्यथ स्यात् ॥
* ॥
अन्यपुरुषस्य स्तम्भधारणमाह स्मृतिः ।“उदके प्राङ्मुखस्तिष्ठेद्धर्म्मस्थूणां प्रगृह्य च” ॥
* ॥
प्राड्विवाककर्तृकजलाभिमन्त्रणमाह पितामहः ।तोय त्वं प्राणिनां प्राणः मृष्टेराद्यन्तु निर्म्मितम् ।शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” ॥
* ॥
शोध्यकर्त्तृकाभिमन्त्रणमाह याज्ञवल्क्यः ।“सत्येन माभिरक्षस्व वरुणेत्यभिशाप्य कम् ।नाभिमात्रोदस्थस्य गृहीत्वोरू जलं विशेत्” ॥
मा मां । अभिशाप्य शपथं कारयित्वा । कंजलम् । विशेत् निमज्जेत् ॥
* ॥
तोरणञ्च निम-ज्जनसमीपे समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितंकार्य्यम् । यथा नारदः ।“गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् ।कुर्व्वीत कर्णमात्रन्तु भूमिभागे समे शुचौ” ॥
* ॥
शरमोक्षे विशेषमाहतुर्नारदवृहस्पती ।“शरप्रक्षेपणस्थानाद्युवा जवसमन्वितः ।गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥
मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः ।प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।अन्तर्ज्जलगतं सम्यक् तदा शुद्धिं विनिर्द्दिशेत् ॥
अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।स्थानाद्वान्यत्र गमनाद्यस्मिन् पूर्व्वं निवेशयेत्” ॥
* ॥
जविनौ विशेषयति नारदः ।“पञ्चाशतो धावकानां यौ स्यातामधिकौ जवे ।तौ च तत्र नियोक्तव्यौ शरानयनकर्म्मणि” ॥
एकाङ्गस्य दर्शनादिति कर्णाद्यभिप्रायेण ।“शिरोमात्रन्तु दृश्येत न कर्णौ नापि नासिके ।अप्सु प्रवेशने यस्य शुद्धं तमपि निर्द्धिशेत्” ॥
इति विशेषाभिधानात् । कात्यायनः ।“निमज्योत्प्लवते यस्तु दृष्टश्चेत् प्राणिना नरः ।पुनस्तत्र निमज्जेत दंशचिह्नविभावितः” ॥
जलान्तर्गतमत्स्यजलौकादिना दष्टः समुत्प्लवते यदितदा दष्टे दृष्टे पुनर्निमज्जनीय इत्यर्थः ॥
* ॥
पितामहः ।“गन्तुश्चापि च कर्त्तुश्च समं गमनमभज्जनम् ।गच्छेत् तोरणमूलात्तु शरस्थान जवी नरः ॥
तस्मिन् गते द्वितीयोऽपि वेगादादाय शायकम् ।गच्छेत्तोरणमूलन्तु यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।अन्तर्ज्जलगतं सम्यक् ततः शुद्धिं विनिर्द्दिशेत्” ॥
अत्र मज्जनसमकालगमनाभिधानात् शरमोक्ष-समकालं गमनं शूलपाण्युक्तमयुक्तम् । मज्जनसम-कालक्षिप्तं मध्यमं शरमादायेत्यपरमुक्तमपि प्रमा-णशून्यम् । ततश्च त्रिषु शरेषु मुक्तेषु एको वेग-वान् मध्यमशरपतनस्थानं गत्वा तमादाय तत्रैवतिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थानेतोरणमूले तिष्ठति एवं स्थितयोस्तृतीयायां कर-तालिकायां प्राड्विवाकदत्तायां शोध्यो निम-ज्जति तत्समकालमेव तोरणमूलस्थितोऽपि द्रुत-तरं मध्यमशरपतनस्थानं गच्छति शरग्राही चतस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्ज्जल-गतं यदि न पश्यति तदा शुद्धो भवतीति वर्त्तु-लार्थः ॥
* ॥
* ॥
तत्र प्रयोगः । उक्तलक्षणजला-शयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यंकृत्वा तोरणसमीपे सशरं धनुः संपूज्य जला-शये वरुणमावाह्य पूजयित्वा तत्तीरे धम्मादींश्चदेवान् हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्यशिरसि प्रतिज्ञापत्रं बद्धा प्राड्विवाको जलमभि-मन्त्रयेत् । वक्ष्यमाणमन्त्रेण ।ओँ “तोय त्वं प्राणिनांप्राणः सृष्टेराद्यन्तु निर्म्मितम् ।शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” । इति ॥
शोध्यस्तु ओँ “सत्येन माभिरक्षस्व वरुण” इत्यनेनजलमभिमन्त्र्य गृहीतस्थूणस्य शोध्यनाभिमात्रोद-कावस्थितस्य बलीयसः प्राङ्मुखस्य पुरुषस्य समीपंजलमध्ये गच्छेत् । ततः शरेषु त्रिषु मुक्तेषु मध्यम-शरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन्पुरुषे स्थिते अन्यस्मिंश्च तोरणमूलस्थिते प्राड्विवा-केन तालत्रये दत्तेशोध्यो गृहीतस्थूणप्राङ्मुखपुरु-षस्योरू गृहीत्वा निमज्जति तत्समकालमेव तो-रणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति ।ततः शरग्राही च तस्मिन् प्राप्ते द्रुतं तोरणमूलंप्राप्य जलान्तःस्थं यदि न पश्यति तदा शुद्धः ।कर्णाद्यङ्गं विना शिरोमात्रदर्शनेऽपि शुद्धः ।मज्जनस्थानादन्यत्रगमनेऽप्यशुद्धः । ततो दक्षिणा-दिकं दद्यात्” । इति दिव्यतत्त्वम् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
