| YouTube Channel

उत्सुकः (utsukaH)

 
शब्दकल्पद्रुमः
Sanskrit
उत्सुकः, त्रि, (उत् उद्योगं सुवति सौति सुनोति वा ।सु प्रसवैश्वर्य्ययोः विचिसंज्ञापूर्व्वकत्वात् गुणा-भावः क्विपि आगमशास्त्रस्यानित्यत्वात्तुगभावोवा ततः संज्ञायां कन्
यद्वा उत् सुवति ।षू प्रेरणे मितद्र्वादित्वात् डुः सत्स्विति क्विप्वा कनिकेण इति ह्रस्वः
उत् + सु + क्विप् +कन् ।) वाञ्छितकर्म्मोद्यतः तत्पर्य्यायः इष्टा-र्थोद्युक्तः इत्यमरः
उत्कण्ठितः इतिहेमचन्द्रः
(यथा, रामायणे आदिकाण्डे ।(“प्रेषयिष्यति राजा तु कुशलार्थं तवानघे ।ब्राह्मणान् नित्यशः पुत्त्रि मोत्सुका भूः कदाचन”
“वत्सोत्सुकापि स्तिमिता सपर्य्याम्” ।इति रघुवंशे २२
)