| YouTube Channel

उत्सिक्तः (utsiktaH)

 
E Bharati Sampat
Sanskrit
(वि) उत्+शिच्(क्षरणे)+क्तः। ‘निष्ठा’ ३.२.१०२। १.गर्वितः। २.वर्धितः। ३.कृतसमाधानभङ्गः। ‘जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा’ मनुः८.७१।
Wordnet
Sanskrit
Synonyms:
अभिमानी, गर्वितः, अवलिप्तः, सगर्वः, सदर्पः, उत्सिक्तः, साटोपः, साहंकारः, अहंमानी, मत्तः, समुन्नद्धः, धृष्टः, प्रतिभावान्, गर्वितचित्तः, मदोद्धतः, दर्पाध्मातः, स्मयाकुलः, अहंकृतः, अभिमानिनी, गर्विता, अवलिप्ता, सगर्वा, सदर्पा, उत्सिक्ता, साटोपा, साहंकारी, अहंमानिनी, मत्ता, समुन्नद्धा, धृष्टा, प्रतिभावती, गर्वितचित्ता, मदोद्धता, दर्पाध्माता, स्मयाकुला, अहंकृता
noun
यस्य अभिमानः वर्तते।
"अहं तस्य अभिमानिनः छायायाः अपि दूरं स्थातुम् इच्छामि।"
शब्दकल्पद्रुमः
Sanskrit
उत्सिक्तः, त्रि, (उत् + सिच् + क्त ।) उद्धतः इतित्रिकाण्डशेषः
गर्व्वितः वर्द्धितः उद्रिक्तः ।इति श्रीभागवतम्
(यथा, मनुः ७१ ।“बालवृद्धातुराणाञ्च साक्ष्येषु वदतां मृषा ।जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा” ।“वीर्य्योत्सिक्तौ हि तौ पापौ कालपाशवशङ्गतौ” ।इति रामायणे काण्डे
)