| YouTube Channel

उत्मङ्गः (utmaGgaH)

 
शब्दकल्पद्रुमः
Sanskrit
उत्मङ्गः,
पुं,
(उतम्वजते मिलति यत्र उत् + सञ्ज+ घञ् ।) क्रोडम् इति जटाधरः
(“उत्मङ्गवा मलिनवसने सौम्य निक्षिप्य वीणाम्”
इति मेघदूते ८६ तथा, विष्णुपुराणम् ११
“प्रणयेनागतं पुत्त्रम् उत्सङ्गारोहणोत्सुकम्”
पर्ब्बतादीनां शिखरदेशः सानुः
यथा, रघुः ।“शिलाविभङ्गैर्मृगराजशाव-स्तुङ्गं नगोत्सङ्गमिवारुरोह”
सौधादीनामुपरिभागः छाद् इति भाषा
“सौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः” ।इति मेघदूते २९ अभ्यन्तरभागः ।“वनेचराणां वनितासखानांदरीगृहोत्सङ्गनिषक्तभासः” ।इति कुमारे १० ऊर्द्ध्वतलः वहिर्भागः ।“दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः” ।इति रघुवंशे ७४ सङ्गमः
आलिङ्गनम् ।विवाहः
व्रणाधोभागः शोष इति भाषा
यथा सुश्रुते सूत्रस्थाने ।“अभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति” ।गर्भः यथा, महाभारते परीक्षिज्जन्मनि १४ ।६८ १८ १९
“आसीन्मम मतिः कृष्ण ! पूर्णोत्सङ्गा जनार्द्दन” !
)