| YouTube Channel

उत्मः (utmaH)

 
शब्दकल्पद्रुमः
Sanskrit
उत्मः,
पुं,
(उनत्ति जलेन उन्द + उन्दिगुधिकुषिभ्य-श्चेति सः किदित्यनुवृत्तेर्न लोपः ।) प्रस्रवणम् ।इत्यमरः
उनै इति भाषा यत्र स्थाने स्रुत्वाजलं गलति तत्र इति भरतः
स्वाम्यादयस्तुअविच्छेदेन स्रवज्जलं यत्र स्थाने पतति निपत्य चबहुलीभवति तत्रेत्याहुः
तथा साञ्जोऽप्याह ।“गिरेरुपरि निर्झरादिप्रभवजलसङ्घातः” ।“अजस्रं मन्दवेगेन स्रवज्जले इति कोक्कटः”