| YouTube Channel

उत्पलभेद्यक (utpalabhedyaka)

 
Monier Williams Cologne
English
उत्-पल—भेद्यक
m.
a kind of bandage,
Suśr.
वाचस्पत्यम्
Sanskrit
उत्पलभेद्यक
पु०
सुश्रुतोक्ते कर्ण्णबन्धाकृतिभेदे पञ्चद-शविधः तद्विमागलक्षणादि सुश्रु० दर्शितं यथा ।“तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः तद्यथा नेमि-सन्घानक उत्पलभेद्यको वल्लूरक आसङ्गिमोगण्डकर्णआहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्द्ध्वक-पाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो यष्टिकर्ण्णःकाकोष्ठक इति तेषु पृथुलायतसमोभयपालिर्नेमिसन्धा-नकः वृत्तायतसमोभयपालिरुत्पलभेद्यकः ह्रस्ववृत्तसमोभयपासिर्वल्लूरकः अभ्यन्तरदीर्घैकपालिरास-ङ्गिमः बाह्यदीर्घैकपालिर्गण्डकर्ण्णः अपालिरुभयतोऽ-प्याहार्य्यः पीठोपमपालिरुभयतः, क्षीणपुत्रिकाश्रितोनिर्व्वेधिमः स्थूलाणुसमविषमपालिर्व्यायोजिमः अभ्य-न्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः बाह्य-दीर्घैकपालिरितराल्पपालिरर्द्धकपाटसन्धिकः तत्र देशैतेकर्ण्णबन्धविकल्पाः साध्यास्तेषां स्वनामभिरेवाकृतयः प्रायेणव्याख्याताः संक्षिप्तादयः पञ्चासाध्यास्तत्र शुष्कशष्कु-लिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः अनधिष्ठा-नपालिः पर्य्यन्तयोः क्षीणमांसो हीनकर्ण्णः तनुविषमाल्पपालिर्वल्लीकर्ण्णः ग्रथितमांसस्तब्धशिरायत सू-क्ष्मपालिर्यष्टिकर्णः निर्मांससंक्षिप्ताग्राल्पशोणितपालिःकाकोष्ठकपालिरिति” “बन्धेष्वपि तु शोफदाहरागपाक-पिडकास्रावयुक्ता सिद्धिमुपयान्ति”