उत्पत्तिव्युत्क्रम (utpattivyutkrama)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritउत्पत्तिव्युत्क्रम उत्पत्तितोव्युत्क्रमः । उत्पत्तिक्रमात्विपरीते क्रमे । स च शा० सू० भाष्ययोर्दर्शितःयथा “भूतानामुत्पत्तिक्रमश्चिन्तितोऽथेदानीमप्ययक्रमश्चि-न्त्यते “विपर्य्ययेण तु क्रमोऽतौपपद्यते च” शा० सू० ।“किमनियतेन क्रमेणाप्ययः, उतोत्पत्तिक्रमेणाथ वा तद्विप-रीतेनेति? । त्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्र-ह्मायत्ताः श्रूयन्ते “यतो वा इमानि मूतानि जायन्तेयेन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति” ।तत्रानियमोऽविशेषादिति प्राप्तम् । अथ वोत्पत्ते क्रमस्यश्रुतत्वात् प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमःस्यादि-त्येवं प्राप्ते ततोब्रूमः विपर्य्ययेण तु प्रलयक्रमोऽत उत्-पत्तिक्रमाद्भवितुमर्हति । तथा हि लोके दृश्यते येन क्र-मेणसोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति । अपिच दृश्यते मृदोजातं घटाद्यप्ययकाले मृद्भावमप्येति अद्भ्यश्चजातं हिमकरकादि अब्भावमप्येतीत्यतश्चोपपद्यते एतत्, यत्पृथिव्यद्भ्योजाता सती स्थितिकालव्यतिक्रान्तावपोऽपीयात्, आपश्च तेजसोजाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्मसूक्ष्मतरञ्चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्य्यजातंपरमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम् । न हिस्वकारणव्यतिक्रमेण कारणकारणे कार्य्याप्ययोन्याय्यः । स्मृ-तावप्युत्त्तिक्रमविपर्य्ययेणैवाप्ययक्रमस्तत्र तत्र प्रदर्शितः ।“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते । ज्योतिःष्वापःप्रलीयन्ते ज्योतिर्वायौ प्रलीयते” इत्येवमादौ । उत्पत्तिक्र-मस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयो-ग्यत्वादप्ययेनाकाङ्क्ष्यते । न हि कार्य्ये ध्रियमाणे कार-णस्याप्ययोयुक्तः कारणाप्यये कार्य्यस्यावस्थानानुपपत्तेः ।कार्य्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्”भा० । तदेतत् वेदा० प० स्पष्टमुक्तम् यथा । “भूतानां भौतिका-नाञ्च न काग्णलयक्रमेण लयः कारणलयसमये कार्य्याणा-माश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीतक्रमेण तत्तत्कार्य्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजक-तया उपादाननाशस्याप्रयोजकत्वात् अन्यथा न्यायमतेऽपिमहाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः । तथाच पृथिव्या अप्सु, अपां तेजसि, तेजसोवायौ, वायोरा-काशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्गारे, तस्यचाविद्यायाभित्येवंरूपएव प्रलयः । तदुक्तम् विष्णुपुराणे“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते । तेजस्यापःप्रलीयन्ते तेजोवायौ प्रलीयते । वायुश्च लीयते व्योम्नितच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्र-लीयये । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
