| YouTube Channel

उत्थानं (utthAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
उत्थानं,
क्ली,
(उत् + स्था + ल्युट् ।) सैन्यम् युद्धम् ।पौरुषम् पुस्तकम् उद्यमः (यथा रामायणे ।“मम धर्म्मार्थमुत्थानं कामक्रोधसंज्ञितम्” ।)उद्गमः (अभ्युदयः यथा रघुवंशे ३१ ।“निदर्शयामास विशेषदृश्य-मिन्दुं नवोत्थानमिवेन्दुमत्यै”
)हर्षः वास्त्वन्तः अङ्गनम् चैत्यः (धनार्ज्जन-निमित्ता चेष्टा यथा मनुः २१५
“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत्सह ।न पुत्त्रभागं विषमं पिता दद्यात् कथञ्चन”
)मलोत्सर्गः इति हेमचन्द्रः
तन्त्रम् तत्तु स्व-मण्डलम् सैन्यंचिन्ता सन्निविष्टः उपविष्टः ।इत्यमरभरतौ
गात्रोत्तोलनम् उठन इतिभाषा (यथा शाकुन्तले अङ्के “मेदच्छेद-कृशोदरं लघु भवत्युत्थानयोग्यं वपुः” ।) यथा च, “निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्”
इति तिथ्यादितत्त्वम्
(पुनर्जीवनम् मरणान-न्तरं पुनर्जीवनलाभः यथा महाभारते ।“स चापि वरयामास पितुरुत्थानमात्मनः”
)