| YouTube Channel

उत्तिष्ठद्धोम (uttiSThaddhoma)

 
वाचस्पत्यम्
Sanskrit
उत्तिष्ठद्धोम
पु०
ऊत्तिष्ठतोऽनुपविष्टस्य होमो यत्र अनुप-विष्टकर्त्तव्यहोमे यजतिरूपे यागभेदे तत्र कुत्रोपपिष्टेन कुत्रवा उत्तिष्ठता होमः करणीय इति विचिकित्-सायां यजतिजुहुत्योर्द्भेदप्रदर्शनेन तन्निर्णीतं कात्या०१, २, ५, ६, ७, सूत्रेषु “यजतिजुहुतीनां कोविशेषः”सू० “यजतीनां यागानां जुहोतीनां होमानाञ्चको विशेषः कोभेदः इति प्रश्नः” कर्मः तिष्ठ-द्धोमाः वषट्कारप्रदानाः याज्यापुरीयुवाक्यावन्तञ्चयजतयः” सू० ऊच्यन्ते इति शेषः होमयेषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः तथा याज्यावन्तः पुरोनुवाक्यावन्तश्च ये ते यज-तय उच्यन्ते” कर्कः “उपविष्टहोमाः स्वाहाकारपदा-ना जुहोतयः” सू० “उपविष्टेन कर्त्रा होमोयेषु ते उप-विष्टहोमाः स्वाहाकारेण प्रदानं येषु ते जुहोतयउच्यन्ते” कर्कः तिष्ठत्पदञ्च उत्तिष्ठत्परम्