| YouTube Channel

उत्तरायणं (uttarAyaNaM)

 
Hindi
Hindi
जब सूरज उत्तरी ओर से गुजरता है
शब्दकल्पद्रुमः
Sanskrit
उत्तरायणं,
क्ली,
(उत्तरा उत्तरस्यां अयनं सूर्य्यादे-र्गमनम् पूर्व्वपदात्संज्ञायामिति णत्वम् ।) सूर्य्यस्यउत्तरदिग्गमनकालः तु माघादिषण्मासा-त्मकः इति हेमचन्द्रः
(यथाह सूर्य्यसिद्धान्तः ।“भानोर्मकरसंक्रान्तेः षण्मासा उत्तरायणम् ।कर्कादेस्तु तथैव स्यात् षण्मासा दक्षिणायनम्”
“माघादिमासयुग्मैस्तु ऋतवः षट् क्रमादितः ।उत्तरायणमाद्यैस्तैस्त्रिभिः स्याद्दक्षिणायनम्” ।)देवानां दिनम् इति स्मृतिः
(मकरसंक्रान्तिः ।“वानप्रस्थाश्रमिभिर्विप्रैः करणीयो यागभेदः” ।यदुक्तं मनुना १० ।“ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यानि चाहरेत् ।उत्तरायणञ्च क्रमशो दाक्षस्यायनमेव च”
“शिशिरश्च वसन्तोऽपि ग्रीष्मः स्यादुत्तरायणे” ।इति हारीते प्रथमस्थाने चतुर्थोऽध्यायः
“शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम् ।आदानञ्च तदा दत्ते नृणां प्रतिदिनं बलम्
तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षामार्गस्वमावतः ।आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात् ।तस्मादादानमाग्नेयम्” इति सूत्रस्थाने तृतीयेऽ-ध्याये वाभटेनोक्तं
“तत्र ते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल-विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च” ।“उत्तरञ्च शिशिरवसन्तग्रीष्मास्तेषु भगवानाप्या-य्यतेऽर्कस्तिक्तकषायकटुकाश्च रसा बलवन्तो भव-न्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां बलमपहीयते”
इति सूत्रस्थाने षष्ठेऽध्याये सुश्रुतेनोक्तम्
)