| YouTube Channel

उत्तरवेदि (uttaravedi)

 
Capeller Eng
English
उत्तरवेदि॑
f.
the northern altar ((r. )).
Monier Williams Cologne
English
उत्तर—वेदि॑
f.
the northern altar made for the sacred fire,
VS.
ŚBr.
AitBr.
&c.
वाचस्पत्यम्
Sanskrit
उत्तरवेदि स्त्री कर्म्म० वा ङीप् “तरन्तुकारन्तुकयोर्यदन्तरंरामह्रदानाञ्च मचक्रुकस्य एतत् कुरुक्षेत्रसमन्त-पञ्चकं पितामहस्योत्तरवेदिरुच्यते” भा० व० ८३ अ०उक्ते कुरुक्षेत्रान्तर्गते समन्तपञ्चकरूपे तीर्थे कुरुक्षेत्रञ्च“उत्तरेण दृषद्वत्या दक्षिणेन सरस्वतीम् ये वसन्ति कुरुक्षेत्रेते वसन्ति त्रिपिष्टपे” इत्युक्तस्थले तीर्थभेदः इयमेवब्रह्ववेदीत्युच्यते “ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षि-सेवितम्” तत्रैवोक्तेः यज्ञेऽग्निस्थानपार्थं वेदिभेदेतत्स्वरूपादि दानपा० दर्शितं यथा “तत्र महावेदि-पश्चिमरेखामध्यात् पूर्व्वतः समित्त्रयमितां, प्राचीरेखामध्यात् पश्चिमतः समिन्मात्रां, दक्षिणरेखामध्यात् उत्त-रस्यामुत्तररेखामध्यात् दक्षिणस्यां तथैव समिन्मात्रां भूमिंत्यक्त्वा कुण्डादिमध्ये समिद्द्वयमितदीर्घविस्तारां समचतुर-स्रामुत्तरवेदिमग्निस्थापनाय वेदिमध्ये कल्पयेत्” ।“उत्तरवेद्यग्निप्रणयनमन्थनपृषदाज्यं वरुणप्रधासा-दधः” कात्या० ५, ७, १५ “दक्षिणेन निर्हृत्य दक्षिण-स्यामुत्तरवेदिश्रेणौ निदधाति ८, ९, १८ अथातआवृदेव नोपकिरन्त्युत्तरवेदिम्” शत० ब्रा० २, ४, १, १८ “तद्वै द्वे वेदी द्वावग्नी भवतः तद्यद् द्वे वेदीद्वावग्नी भवतस्तदुभयतस्तदुभयत एवैतत् वरुणपाशान्प्रजाः प्रमुञ्चन्तीतश्चोर्द्ध्वा इतश्चावाचीस्तस्माद् द्वे वेदी द्वावग्नी भवतः उत्तरस्यामेव वेदौ उत्तरवेदिम् उप-किरति दक्षिणस्याम्” शत० ब्रा० २, ५, ३, ५,