| YouTube Channel

उत्तरवस्ति (uttaravasti)

 
शब्दसागरः
English
उत्तरवस्ति
f.
(-स्तिः) A small syringe, a urethra injection pipe.
E.
उत्तर
best, वस्ति syringe.
Yates
English
उत्तर-वस्ति (स्तिः) 2.
f.
A small sy-
ringe, injection pipe.
Spoken Sanskrit
English
उत्तरवस्ति uttaravasti
f.
urethra injection pipe
उत्तरवस्ति uttaravasti
f.
small syringe
Wilson
English
उत्तरवस्ति
f.
(-स्तिः) A small syringe, a urethra injection pipe.
E.
उत्तर best, वस्ति syringe.
Monier Williams Cologne
English
उत्तर—वस्ति
f.
a small syringe, a urethra injection pipe,
Suśr.
वाचस्पत्यम्
Sanskrit
उत्तरवस्ति
पु०
सुश्रुतोक्ते चिकित्साङ्गे यन्त्रभेदे तत्स्वंरूपप्रयोगप्रकारादि यथा तत्रैव“वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतःपग्म् चतुर्द्दशाङ्गुल-नेत्रमातुराङ्गुलिसम्भितम् मालतीपुष्पवृन्ताग्रं छिद्रंसर्षपनिर्गमम् मेढ्रायामसमं केचिदिच्छन्ति खलु त-द्विदः स्नेहप्रमाणं परमं कुञ्चश्चात्र प्रकीर्त्तितः पञ्च-विंशादधोमात्रां विदध्याद्बुद्धिकल्पिताम् निविष्टकर्णिकंमध्ये नारीणां चतुरङ्गुलम् मूत्रस्तोतःपरीणाह-मुद्गवाहिदशाङ्गुलम् तासामपत्यभार्गे तु निदध्याच्चतुर-ङ्गुलम् द्व्यङ्गुलं मूत्रमार्गे तु कन्यानान्त्वेकमङ्गुलम् ।विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा स्नेहस्य प्रसृ-तञ्चात्र स्वाङ्गुलीमूलसंमितम् देयं प्रमाणं परमम-र्वाग्बुद्धिविकल्पितम् औरभ्रः शौकरो वापि वस्तिराजश्चपूजितः तदलाभे प्रयुञ्जीत गलचर्म्म तु पक्षिणाम् ।अस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वा अथातुर-मुपस्निग्धं सुस्विन्नं प्रथिताशयम् यवागूं सघृतक्षीरांपीतवन्तं यथाबलम् निषण्णमाजानुसमे पीठे स्थानाश्रयेसमे स्वभ्यक्तवस्तिमूर्द्धानं तैलेनोष्णेन मानवम् ततःसमं स्थापयित्वा नालमस्य प्रहर्षितम् पूर्वं शलाकयाऽ-न्विष्य ततो नेत्नमनन्तरम् शनैःशनैर्घृताभ्यक्तं विदध्या-दङ्गुलानि षट् ततोऽवपीडयेद्वस्तिंश नैर्नेत्रंच निर्हरेत् ।ततः प्रथागते स्नेहमपराह्णे विचक्षणः भोजयेत् पयसोमात्रां यूषेणाथ रसेन वा अनेन विधिना दद्याद्वस्तींस्त्रीं-श्चतुरोऽपिवा ऊर्द्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ।कल्येतरस्यै कन्यायै दद्यात्सुमृदु पीडितम् त्रिकर्णिकेननेत्रेण दद्याद्योनिमुखं प्रति गर्भाशयविशुद्ध्यर्थं स्नेहेनद्विगुणेन तु अप्रत्यागच्छति भिषक् वस्तावुत्तरसंज्ञिते ।भूयोवस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः गुदे वर्त्तिंनिदध्याद्वा शोधनद्रव्यसंभृताम् प्रवेशयेद्वा मतिमान्त-स्तिद्वारमथैषणीम् पीडयेद्वाप्यधोनाभेर्बलेनोत्तरमुष्टिना ।आरग्बधस्य पत्रेषु निर्गुण्ड्याः सुरसेषु कुर्य्याद्गोमू-त्रपिष्टेष वर्त्तीर्वापि ससैन्धवाः मुद्गैलासर्षपसमाः प्रवि-भज्य वयांसि तु वस्तेरागमनार्थाय ता निदध्याच्छला-कया आगारधूमवृहतीपिप्पलीफलसैन्धबैः कृता वाशुक्तगोभत्रसुरापिष्टैः सनागरैः अनुवासनसिद्धिञ्च वीक्ष्यकर्म प्रयोजयेत् शर्करामधुमिश्रेण शीतेन मधुकाम्बुना ।दह्यमाने तदा वस्तौ दद्याद्वस्तिं विचक्षणः क्षीरवृक्षक-षायेण पयसा शीतलेन शुक्रं दुष्टं शोणितं चाङ्ग-नानां पुष्पोद्रेकं तस्य नाशञ्च कष्टम् मूत्राघातान्मूत्र-दीषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः ।श्रुक्रोत्सेकं शर्करामश्मरीञ्च शूलं वस्तौ वङ्क्षणे मेहनेच घोरानन्यान् वस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति वस्तिः सम्यग्दत्तस्थ लिङ्गानि व्यापदः क्रमएव वस्तेरुत्तरसंज्ञस्य समानं स्नेहवस्तिना”