| YouTube Channel

उत्तरफल्गुनी (uttaraphalgunI)

 
Monier Williams Cologne
English
उत्तर—प्रोष्ठपदा, उत्तर—फल्गुनी or उत्तर—फाल्गुनी,
f.
N.
of lunar mansions (cf. प्रोष्ठपदा, फल्गुनी.)
Apte Hindi
Hindi
उत्तरफल्गुनी
स्त्री*
उत्तर-फल्गुनी -
१२ वाँ नक्षत्र जिसमें दो तारों का पुंज होता है
Shabdartha Kaustubha
Kannada
उत्तरफल्गुनी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಉತ್ತರ ಫಲ್ಗುನೀ ನಕ್ಷತ್ರ
निष्पत्तिः - > फल (निष्पत्तौ) - "उनन्" गुक् (उ० ३-५६)
व्युत्पत्तिः - > फलति उत्तरा सा फल्गुनी
प्रयोगाः - > "दाता दयालुः स्वजने सुशीलो विशालकीर्तिः सुमतिः प्रधानः धीरो नरोऽत्यन्तमृदुस्वभावश्चेदुत्तराफल्गुनिकाप्रसूतिः ॥"
L R Vaidya
English
uttara-PalgunI {% f. %} the 12th lunar mansion consisting of two stars.
अभिधानचिन्तामणिः
Sanskrit
--source--
सा तूत्तरार्यमदेवा हस्तः सवितृदैवतः
-wordlist-
उत्तरफल्गुनी (स्त्री), अर्यमदेवा (स्त्री), हस्त (पुं), सवितृदेवत (पुं)
शब्दकल्पद्रुमः
Sanskrit
उत्तरफल्गुनी,
स्त्री,
(उत्तरा फल्गुनी ।) अश्विन्यादि-सप्तविंशतिनक्षत्रान्तर्गतद्वादशनक्षत्रम् अस्यारूपम् दक्षिणोत्तरमिलिततारकाद्वयम् इतिकालिदासः
पर्य्यङ्करूपं तारकाद्वयं इति दीपि-काटीका
अस्या अधिष्ठात्री देवता अर्य्यमा ।अस्या मिश्रगुणः अस्यां जातफलम् ।“दाता दयालुः स्वजने सुशीलोविशालकीर्त्तिः सुमतिः प्रधानः ।धीरो नरोऽत्यन्तमृदुस्वभाव-श्चदुत्तराफल्गुनिकाप्रसूतिः”
इति कोष्ठीप्रदीपः
वाचस्पत्यम्
Sanskrit
उत्तरफल्गुनी स्त्री फलति फल--निष्पत्तौ “फलेर्गुक्च” उणा० उनन् गुक् गौरा० ङीष् कर्म्म० ।अश्विन्यादिषु द्वादशे नक्षत्रे तस्याः स्वरूपम् उडुचक्रशब्दे१०७१ पृ० अश्लेषाशब्दे ४९७ पृष्ठे तदधिदे-वादि उक्तम् फल्गुनशब्दात् स्वार्थे अण् ङीप् ।फाल्गुनी कर्म्म० तत्रैवार्थे इयं ध्रुवगणान्तर्गता “ध्रुव-गणस्त्रीण्युत्तराणि स्वभूः” इत्युक्तेः यथा चास्य फाल्गुनत्वंतथा समर्थितम्” शत० ब्रा० “फल्गुनीष्वग्नी आदधीतएता वा इन्द्रनक्षत्रम् यत् फल्गुन्योऽप्यस्य प्रतिनाम्न्यो-ऽर्जुनोहवै नामेन्द्रो यदस्य गुह्यं नामार्जुन्योवैनामैतास्ताएतत्परोक्षमाचक्षते फाल्गुन्य इति कोह्येतस्यार्हति गुह्यंनाम ग्रहीतुम्” २, १, २, ११ अस्याः प्रथमपादः सिंहराशिःउत्तरपादत्रयं कन्याराशिः प्रमाणं उडुचक्रशब्दे दृश्यम्