| YouTube Channel

उत्तरं (uttaraM)

 
Hindi
Hindi
कवर
शब्दकल्पद्रुमः
Sanskrit
उत्तरं,
क्ली,
(उत् + तॄ + अप् ।) प्रतिवाक्यम् इत्य-मरः
जवाव इति यावनी भाषा ।(यथा, माघे २२ ।“वचसस्तस्य सपदि क्रिया केवलमुत्तरम्” ।)तस्य व्युत्पत्तिः ।“उत्तीर्य्यते निस्तीर्य्यते प्रकृताभियोगोऽनेन” ।तस्य स्वरूपम् ।“पक्षस्य व्यापकं सारमसन्दिग्धमनाकुलम् ।अव्याख्यागम्यभित्येवमुत्तरं तद्विदो विदुः”
तस्य भेदाः ।“मिथ्या सम्प्रतिपत्तिश्च अत्यवस्कन्दनं तथा ।प्राङ्न्यायश्चोत्तराःप्रोक्ताश्चत्वारः शास्त्रवेदिभिः”
इति नारदः
(अथ उत्तरं नाम साधर्म्योपदिष्टेवा हेतौ वैधर्म्म्यवचनं वैधर्म्म्योपदिष्टे वा साधर्म्म्य-वचनं यथा हेतुमधर्म्माणोविकाराः शीतकस्यद्विव्याधेर्हेतुस्राधर्म्म्यवचनं हिमशिशिरवातसं-स्पर्शा इति ब्रुवतः परो ब्रूयात् हेतुविधर्म्माणोविकाराः यथा शरीरावयवानां दाहौष्ण्यं कोथ-प्रपचने हेतुवैधर्म्म्यं हिमशिशिरवातसंस्पर्शांइति एतत् सविपर्य्ययमुत्तरम् इति चरकेविमानस्थानेऽष्टमोऽध्यायः
)