| YouTube Channel

उत्कृष्टं (utkRSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
उत्कृष्टं, त्रि, (उत् + कृष् + क्त ।) उत्कर्षविशिष्टम् ।अतिशययुक्तम् प्रकृष्टम् प्रशस्तम् यथा, --“उत्कृष्टमध्यमनिकृष्टजनेषु मैत्री, यद्वत् शिलासु सिकतासु जलेषु रेखा ।वैरं क्रमादधममध्यमसज्जनेषु, यद्वत् शिलासु सिकतासु जलेषु रेखा”
इत्युद्भटः
(कर्षणवत्क्षेत्रादिः
)