| YouTube Channel

उत्कटं (utkaTaM)

 
शब्दकल्पद्रुमः
Sanskrit
उत्कटं, त्रि, (उद्गतः कटः आवरणं आवरको वायस्य ।) तीव्रम् मत्तम् इति मेदिनी
विषमम् ।इति शब्दरत्नावली
(यथा रामायणे काण्डे ।“चन्द्रांशुनिकराभासा हाराः कासाञ्चिदुत्कटाः ।स्तनमध्ये सुविन्यस्ता विरेजुर्हंसपाण्डराः”
)
उत्कटं,
क्ली,
गुडत्वक् तेजपात इति ख्यातं इतिकेचित् इत्यमरमरतौ
दारचिनि इतिख्यातम् इति राजनिर्घण्टः
(अस्य पर्य्यायानाहभावप्रकाशे पूर्व्वखण्डे, “त्वक्पत्रञ्च वराङ्गंस्याद् भृङ्गञ्चोदन्तमुत्कटम्” ।)