| YouTube Channel

उतङ्कमेव (utaGkameva)

 
वाचस्पत्यम्
Sanskrit
उतङ्कमेव
पु०
उतङ्कार्थमीश्वरेण प्रवर्त्तितोमेघः मरुदेशस्थोत-ङ्कतोयाकाङ्क्षापूरणार्थमीश्वरेण कृष्णेन नियोजिते मेघे ।तत्कथा भा० आश्व० ५५ अ० “उतङ्क उवाच अव-श्यकरणीयञ्च यद्येतन्मन्यसे विभो! तोयमिच्छामियत्रेष्टं मरुष्वेतद्धि दुर्लभम् ततः संहृत्य तत्तेज प्रो-वाचोतङ्कमीश्वरः एष्टव्ये सति चिन्त्योऽहमित्युक्त्वाद्वारकां ययौ ततः कदाचिद्भगवानुतङ्कस्तोयका-ङ्क्षया तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ।ततो दिग्वाससं धीमान्मातङ्गंमलपङ्किनम् अपश्यत मरौतस्मिन् श्वयूथपरिवारितम् भीषणं बद्धनिस्त्रिंशं वाण-कार्मुकधारिणम् तस्याधः स्रोतसो ऽपश्यत् द्वारि भूरिद्विजोत्तमः स्मरन्नेव तं प्राह मातङ्गः प्रहसन्निव ।एह्युतङ्क! प्रतीच्छस्व मत्तो वारि भृगूद्वह! कृपाहि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् इत्युक्तस्तेनस मुनिस्तत्तोयं नाभ्यनन्दत चिक्षेप तं धीमान्वाग्भिरुग्राभिरच्युतम् पुनः पुनश्च मातङ्गः पिब-स्वेति तमब्रवीत् चापिबत् सक्रोधः क्षुधितेनान्त-रात्मना तयो निश्चयात्तेन प्रत्याख्यातो महात्मना ।श्वभिः सह महाराज! तत्रैवान्तरधीयत उतङ्कस्तंतथा दृष्ट्वा ततो व्रीडितमानसः मेने प्रलब्धमात्मानं कृष्णे-नामित्रघातिना अथ तेनैव मार्गेण शङ्खचक्रगदा-धरः आजगाम महाबुद्धिरुतङ्कश्चैनमब्रवीत् नदत्तं तादृशं दातुं त्वया पुरुषसत्तम सलिलं विप्र-मुख्येभ्यी मातङ्गस्रोतसा विभो इत्युक्तवचनं तन्तु म-हाबुद्धिर्ज्जनार्द्दनः! उतङ्कं श्लक्ष्णया वाचा सान्त्व-यन्निदमब्रवीत् यादृशेनेह रूपेण योग्यं दातुं धृतेनवै तादृशं खलु ते दत्तं तच्च त्वं नावबुध्यथाः ।मया त्वदर्थमुक्तो वै वज्वपाणिः पुरन्दरः उतङ्का-यामृतं देहि तीयरूपमिति प्रभुः मामुवाच देवे-न्द्री मर्त्योऽमर्त्यतां व्रजेत् अन्यमस्मै वरं देही-त्यसकृद्भृगुनन्दन अमृतं देयमित्येव मयैवोक्तः शची-पतिः मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् यदिदेयमवश्यं वै मातङ्गो हि महामते! भूत्वाऽमृतं प्रदा-स्यामि भार्रवाय महात्मने यद्येवं प्रतिगृह्णातिभार्गवोऽमृतमद्य वै प्रदातुमेष गच्छामि भार्गवस्यामृतंविभो! प्रत्याख्यातस्त्वहं तेन दास्यामि कथञ्चन ।स तथा समयं कृत्वा तेन रूपेण वासवः उपस्थित-स्त्वया चापि प्रत्याख्यातोऽमृतं ददत् चाण्डालरूपीभगवन्! सुमहांस्ते व्यतिक्रमः तन्न शक्यं मयाकर्त्तुं भूय एव तषेप्सितम् तोयेप्सां तव दुर्द्धर्षां करिष्येसफलामहम् येष्वहःसु ते ब्रह्मन् सलिलेप्सा भवि-ष्यति तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ।रसवच्च प्रदास्यन्ति तोयं ते भृपुनन्दन! उतङ्कमेषाइत्युक्ताः ख्यातिं यास्यन्ति चापि ते इत्युक्तः प्रीति-मान् विप्रः कृष्णेन बभूव अद्याप्युतङ्कमेघाश्च मरौवर्षन्ति भारत”