| YouTube Channel

उछी (uchI)

 
धातुप्रदीपः
Sanskrit
उछीँ उच्छी विवासे
- उच्छती उचिच्छिषति व्युच्छा व्युष्टम् अयमपि तुदादौ पठिष्यते ।। 213 ।।
उछीँ उछी विवासे
- उच्छति व्युष्टिः ''व्युष्टं कल्ये विपाशिते'' अयमपि भ्वादौ पठितः स्वरभेदाय 15
क्षीरतरङ्गिणी
Sanskrit
उछीँ उछी विवासे
-(अर्थविवरणम्) विवासो विनाशः समाप्तिरित्यर्थः
उच्छति उष्टः रजन्यां व्युष्टायामुषसि जनयामास तनयम् एताविह पाठ्यौ तुदादित्वादेवेष्टसिद्धेः 213
उछीँ उछी विवासे
-(अर्थविवरणम्) विवासोऽतिक्रमः
उच्छति व्युष्टा रात्रिः 16
धातुवृत्तिः
Sanskrit
उछीँ उच्छी (अर्थः) विवासे
(अर्थविवरणम्) समाप्तिर्विवास
इति तरङ्गिण्यां, विपूर्वश्चायं प्रायः प्रयुज्यतइति पुरषकारे ( व्युच्छति व्युच्छां चकार व्युच्छितेत्यादि ) आम्विधावागमनिमित्ता गुरुमत्ता गृह्यते, अत एव अनृच्छ'' इति प्रतिषेधः ( उचिच्छिषति) अत्र द्विर्वचने तुकि श्चुत्वस्य पूर्वत्रासिद्धत्वात् हलादिशेषेण तकारस्य शेषे प्राप्ते [ षर्पूर्वाः खय इति वक्तव्यं ] शर्पूर्वाः खय इत्यत्र शर्ग्रहणमपनीय खर्ग्रहणं कर्त्तव्यमित्यर्थः तेन शर्पूर्वाः खयः शिष्यन्ते अन्ये निवर्त्तन्त इति तकारस्य निवृत्तौ छकारस्य "अभ्यासे चर्च'' इति चर्त्वे रूपम् अभ्यासचर्त्वस्य तुक्यसिद्धत्वादुकारस्य पुनस्तुङ्ग भवति [ आभ्यासजशत्वचर्त्वमेत्वतुकोः सिद्धं वक्तव्यम् ] इति चर्त्वस्य सिद्धित्वात् अत्र पूर्वत्रासिद्धीयमद्विर्वचनइति अनाश्रित्योक्तं षर्पूर्वाः खय इति यदाहुर्हरदत्तादयः तदाश्रयणे हि श्चुत्वस्य द्विर्चचने सिद्धत्वाद्धलादिशेषेण छस्य निवृत्ताविष्टसिद्धेः ( व्युष्टः व्युष्टवान् ) "श्वीदितो निष्ठायाम्'' इतीड्भावः ( व्युष्टे दीयते कार्यं वा वैयुष्टम् "व्युष्टादिभ्योऽण्'' इति "तत्र दीयते कार्यम्'' इति विषयेऽण् प्रत्ययः "नय्वाभ्याम्'' इति ऐच् वृद्धेरभावश्च अयमपि तुदादौ पठिष्यते पूर्ववदुभयत्रप्रयोजनम् 214
कृदन्तरूपमाला
Sanskrit
1 {@“उछी विवासे”@} 2 विवासः = समाप्तिः।
प्रायेणायं विपूर्वकः प्रयुज्यते इति पुरुषकारः।
‘शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते।
उच्छतीति विवासे स्यात् इदितोऽनिदितस्तयोः।’ 3 इति देवः।
व्युच्छकः-च्छिका, उच्छकः-च्छिका, उचिच्छिषकः-षिका
व्युच्छिता-त्री, उच्छयिता-त्री, उचिच्छिषिता-त्री
व्युच्छन्-न्ती, व्युच्छयन्-न्ती, उचिच्छिषन्-न्ती
4 व्युच्छिष्यन्-न्ती-ती, उच्छयिष्यन्-न्ती-ती, उचिच्छिषिष्यन्-न्ती-ती
-- व्युच्छयमानः, व्युच्छयिष्यमाणः
5 व्युट्-व्युशौ-व्युशः
-- -- 6 व्युष्टः-ष्टम्-ष्टवान्- 7 व्युष्टा, व्युच्छितम्-तः-तवान्, उचिच्छिषितः-तवान्
उच्छः, उच्छः, उचिच्छिषुः, उचिच्छयिषुः
व्युच्छितव्यम्, व्युच्छयितव्यम्, उचिच्छिषितव्यम्
व्युच्छनीयम्, उच्छनीयम्, उचिच्छिषणीयम्
व्युच्छ्यम्, उच्छ्यम्, उचिच्छिष्यम्
ईषदुच्छः-दुरुच्छः-सूच्छः
-- -- व्युच्छ्यमानः, उच्छ्यमानः, उचिच्छिष्यमाणः
उच्छः, उच्छः, उचिच्छिषः
उच्छितुम्, व्युच्छयितुम्, उचिच्छिषितुम्
8 9 उष्टिः-उच्छा 10, व्युच्छना, उचिच्छिषा, उचिच्छयिषा
उच्छनम्, उच्छनम्, उचिच्छिषणम्
उच्छित्वा, उच्छयित्वा, उचिच्छिषित्वा
व्युच्छ्य, व्युच्छ्य, व्युचिच्छिष्य
उच्छम् २, उच्छित्वा २, उच्छम् २, उच्छयित्वा २, उचिच्छिषम्
उचिच्छिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९८)
02
=>
(१-भ्वादिः-२१६। सक। सेट्। पर।)
03
=>
(श्लो-५६)
04
=>
[पृष्ठम्००९६+ २६]
05
=>
[[१। ‘च्छ्वोः शूड्--’ (६-३-१९) इति शः। पदान्ते ‘व्रश्च--’ (८-२-३६) इत्यादिना षत्वे जश्त्वे रूपम्।]]
06
=>
[[२। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इति इट् न। ‘व्रश्चभ्रस्ज--’ (८-२-३६) इति षत्वम्।]]
07
=>
[[आ। ‘रजन्यां व्युष्टायामुषसि जनयामास तनयम्।’ इति क्षीरतरङ्गिण्यामुपात्तः श्लोकः।]]
08
=>
[[B। “अहूर्णचित्ताः परिमूर्च्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः। भजन्ति यां व्युष्टिमतोऽपि भूयसीं ध्रजन्ति यत् ध्रञ्जनमात्रतो जनाः।।” धा। का। १-२९।]]
09
=>
[[३। बाहुलकात् क्तिन्। षत्वम्। ‘व्युष्टिः फले समृद्धौ च’ इत्यमरः।]]
10
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इति अप्रत्ययः।]]
1 {@“उछी विवासे”@} 2 ‘शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते।
उच्छतीति विवासे स्यात् इदितोऽनिदितस्तयोः।।’ 3 इति देवः।
4 ‘अतिक्रमणबन्धनवर्जनेषु द्रुमे--’ इति धातुकाव्ये।
शतरि उच्छन्- न्ती-ती-इति रूपाणि, ‘आच्छीनद्योर्नुम्--’ 5 इति नुमो बैकल्पि- कत्वात्।
अन्यानि सर्वाण्यपि रूपाणि भौवादिकोच्छतिवत् 6 ज्ञेयानि।
7 उच्छितम्।
प्रासङ्गिक्यः
01
=>
(९९)
02
=>
(६-तुदादिः-१२९५-सक। सेट्-पर।)
03
=>
(श्लो-५५)
04
=>
[पृष्ठम्००९७+ २६]
05
=>
(७-१-८०)
06
=>
(९८)
07
=>
[[आ। ‘वृक्णव्याचरसोञ्छती फलगणन् अव्युच्छितायां निशि स्नान्ती नर्च्छति मिच्छिता सुजनता यस्मिन् हितं जर्जती।’ धा। का। २-७३।]]