| YouTube Channel

उछि (uchi)

 
धातुप्रदीपः
Sanskrit
उछिँ उछि उञ्छे
- उञ्छति उञ्छाञ्चकार उञ्चिच्छिषति निष्ठा प्रोञ्छितम् तुदादावप्ययं पठिष्यते शपोऽनुदात्तत्वार्थमिह पठ्यते (41) ।। 212 ।।
उछिँ उछि उञ्छे
- उञ्छति उञ्छाञ्चकार उञ्चिच्छिषति उञ्छती उञ्छन्ती उञ्छा भ्वादौ चास्य पाठः स्वरभेदार्थः (4) 14
क्षीरतरङ्गिणी
Sanskrit
उछिँ उछि उञ्छे
- (अर्थविवरणम्) उञ्छ उच्चयनम्
उञ्छति, उञ्छाञ्चकार उञ्छितः शिलोञ्छनम्, शिलोच्चयनमित्यर्थः 212
उछिँ उछि उञ्छे
-(अर्थविवरणम्) उञ्छ उच्चयः
उञ्छति उञ्छिता 15
धातुवृत्तिः
Sanskrit
उछिँ उच्छि (अर्थः) उञ्छे
(अर्थविवरणम्) उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्
इति यादवप्रकाशः एवं विज्ञानेश्वरोपि "उञ्छति'' सूत्रे उञ्छति उच्चिनोतीत्यर्थ इति न्यासो बदाराण्युञ्छति बादरिकः श्यामाकानुञ्छति श्यामाकिक इत्युदाहरतो वृत्तिकारस्यापि व्यापित्वेनोच्चयनार्थइत्यभिप्रायो लक्ष्यते ( उञ्छति उञ्छांचकर उञ्छितेत्यादि ) इदित्त्वाद् उञ्छ्यते इत्यादौ नलोपो भवति ( उञ्चिच्छिषति ) "न न्द्रा' इति छादेर्द्विर्वचनमभ्यासस्य चर्त्वेह्रस्वे "छे च'' इति तुकि हलादिशेषो भवति, अवयवभक्तत्वेनाभ्यासभक्तत्वाभावात् स्वङ्गुलिर्देवदत्त इत्यादिवत् इहावयवावयवस्य समुदायवयवत्वम् यतः "छे च'' इत्यात्रागामिनो भावादेव पूर्वसूत्रात् ह्रस्वस्येत्युनवृत्तिसिद्धावपि चकारेण तदनुकृष्यते, पूर्वसूत्रे ह्रस्वान्तस्येति स्थितम् इह तु तथा माभूदिति हि भावः ( उञ्छयति मा भवानुञ्चिच्छत् ) अयं तुदादौ पठिष्यते पाठ (उञ्छती लञ्छन्तीति)शीनद्योर्नुम्बिकल्पार्थोऽवश्याभ्युपगन्तव्यइति पाठः किमर्थमिति चेत् स्वरार्थः उञ्छतीत्यत्र शपि "अनुदात्तौ सुप्पितौ'' इति शप्तिपोरनुदात्तत्वेन ( सूत्रम्) धातोः (इति सूत्रम्) धातोरन्त उदात्त इत्युकारस्योदात्तत्वे "उदात्तादनुदात्तस्य स्वरितः'' इति शबकारस्य स्वरितत्वे "स्वरितात् संहितायामनुदात्तानाम्'' इति तीकारस्य प्रचयत्वे अचः क्रमेणोदात्तस्वरितप्रचया भवन्ति, शे तु आद्युदात्त्त्वे प्रत्ययादित्वेनलकारयोदात्तत्वे ( सूत्रम्) अनुदात्तं पदमेकवर्जम् (इति सूत्रम्) यत्र पदे उदात्तः स्वरितो वा विधीयते तत्र तं वर्जयित्वाऽन्यदनुदात्तमिति धातोरप्यनुदात्तत्वे पूर्ववत्तिपः स्वरितत्वेऽचोनुदात्तोदात्तस्वरिता भवन्ति विपर्ययः कस्मान्न भवति धातोरन्तोदात्तत्वेशस्यानुदात्तत्वमिति यतोऽयं स्वरभेदो स्यात् नैतदस्ति सतिशिष्टस्वरो बलीयानिति यस्मिन्नसति यः शिष्यते बलीयानित्यर्थः ननु "अन्यत्र विकारणेभ्य'' इत्यपि तत्र पठ्यते नायं पर्युदासो धातुस्वरविषयः किं तु लसार्वधातुकस्वरविषयः लादेशस्य सार्वधातुकस्य प्रत्ययाद्युदात्तत्वं सति शिष्टोपि विकरणस्वरो बाधत इति, अस्य ज्ञापकं तादृशमेव तथाहि "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः'' इति तासेः परस्य सार्वधातुकस्य सति शिष्टस्वरेणानुदात्तत्वेपि सिद्धे पुनर्विधानाज् ज्ञायतेऽन्यत्र विकरणेभ्य इति तच्च लसार्वधातुकविषयम् 213
उछिँ उछि (अर्थः) उञ्छे
उच्छी विवासे (उञ्छति उच्छति) इत्यादि भूवादौ व्याख्यातौ 14-15
कृदन्तरूपमाला
Sanskrit
1 {@“उछि उञ्छे”@} 2 ‘शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते।’ 3 इति देवः।
उञ्छकः-ञ्छिका, उञ्छकः-ञ्छिका, 4 उञ्चिच्छिषकः-षिका
उञ्छिता-त्री, उञ्छयिता-त्री, उञ्चिच्छिषिता-त्री
उञ्छन्-न्ती, उञ्छयन्-न्ती, उञ्चिच्छिषन्-न्ती
उञ्छिष्यन्-न्ती-ती, उञ्छयिष्यन्-न्ती-ती, उञ्चिच्छिसिष्यन्-न्ती-ती
-- उञ्छयमानः, उञ्छयिष्यमाणः
उन्-उञ्छौ-उञ्छः
-- -- उञ्छितः-तं-तवान्, उञ्छितः-तम्, उञ्चिच्छिषितः तवान्
उञ्छः, उञ्छः, उञ्चिच्छिषुः, उञ्चिच्छयिषुः
उञ्छितव्यम्, उञ्छयितव्यम् उञ्चिच्छिषितव्यम्
उञ्छनीयम्, उञ्छनीयम्, उञ्चिच्छिषणीयम्
उञ्छ्यम्, उञ्छ्यम्, उञ्चिच्छिष्यम्
5 ईषदुञ्छः, दुरुञ्छः, सूञ्छः
-- -- उञ्छ्यमानः, उञ्छ्यमानः, उञ्चिच्छिष्यमाणः
6 उञ्छः, उञ्छः, उञ्चिच्छिषः
उञ्छितुम्, उञ्छयितुम्, उञ्चिच्छिषितुम्
उञ्छा, उञ्छना, उञ्चिच्छिषा, उञ्चिच्छयिषा
7 उञ्छनम्, उञ्छनम्, उञ्चिच्छिषणम्
उञ्छित्वा, उञ्छयित्वा, उञ्चिच्छिषित्वा
समुञ्छ्य, समुञ्छ्य, समुञ्चिच्छिष्य
उञ्छम् २, उञ्छित्वा २, उञ्छम् २, उञ्छयित्वा २, उञ्चिच्छिषम्
उञ्चिच्छिषित्वा २।
प्रासङ्गिक्यः
01
=>
(९६)
02
=>
(१-भ्वादिः-२१५-सक। सेट्। पर।)
03
=>
(श्लो-५५)
04
=>
[[४। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘छे च’ (६-१-३७) इति तुक्। अस्याभ्यासावयवत्वाभावात् हलादिश्शेषो न।]]
05
=>
[पृष्ठम्००९५+ २५]
06
=>
[[आ। ‘उञ्छो धान्यश आदानं कणिशाद्यर्जनं सिलम्।’ इति यादवप्रकाशः।]]
07
=>
[[B। ‘अहूर्णचित्ताः परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः। भजन्ति यां व्युष्टिमतोऽपि भूयसीं ध्रजन्ति यत् ध्रञ्जनमात्रतो जनाः।।’ धा। का। १-२९।]]
1 {@“उछि उञ्छे”@} 2 ‘शशपोरुञ्छतीत्युञ्छे स्वरभेदाद् द्विरुच्यते।’ 3 इति देवः।
शतरि परं 4 उञ्छती-उञ्छन्ती इति रूपम्।
‘आच्छीनद्योर्नुम्’ 5 इति नुमो वैकल्पिकत्वम्।
अन्यत् सर्वमपि भौवादिकोञ्छतिवत् 6 ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(९७)
02
=>
(६-तुदादिः-१२५४-सक। सेट्। पर।)
03
=>
(श्लो-५५)
04
=>
[[C। ‘वृक्णव्याचरसोञ्छती फलगणानव्युञ्छितायां निशि स्नान्ती नर्च्छति मिच्छिता सुजनता यस्मिन् हितं जर्जती।’ धा। का। २-७३।]]
05
=>
(७-१-८०)
06
=>
(९६)