| YouTube Channel

उच्छिष्टं (ucchiSTaM)

 
Hindi
Hindi
दूसरों के द्वारा खाया भोजन के अवशेष
शब्दकल्पद्रुमः
Sanskrit
उच्छिष्टं, त्रि, (उत् शिष्यते यत् उत् + शिष + क्त
)भुक्तावशिष्टम् इति पुराणम्
एँटो इतिभाषा तद्भोजनप्रायश्चित्तं यथा (प्रायश्चित्ततत्त्वेचाण्डालाद्यन्नभक्षणप्रायश्चित्तप्रकरणे ।) विष्णुः ।“आमश्राद्धाशने त्रिरात्रं पयसा वर्त्तेत ब्राह्मणःशूद्रोच्छिष्टाशने वमनं कृत्वा सप्तरात्रमुपवसेत्”इति एवं उच्छिष्टे यः पराक उक्तोऽङ्गिरसासोऽपि प्रागुक्तसकृदापदादिविषये बोध्यः विष्णुनापि अनुच्छिष्टे पराकोक्तेः तथाचाङ्गिराः ।“चाण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे ।द्विजः शुध्येत् पराकेण शूद्रः कृच्छ्रेण शुध्यति”
यत्तु मिताक्षरायामापस्तम्बः ।“अन्त्यानां भुक्तशेषन्त भक्षयित्वा द्विजातयः ।चान्द्रं कृच्छ्रं तदर्द्धन्तु ब्रह्मक्षत्रविशां विधिः”
चान्द्रं चान्द्रायणम् कृच्छ्रं तप्तकृच्छ्रम् एतच्चब्राह्मणस्य सकृदज्ञानविषयं बलात्कारानुत्तारे-ऽप्यन्नेतरताम्बूलाद्युत्सृष्टपरञ्च तत्राज्ञाने आप-स्तम्बेन उच्छिष्टे चान्द्रायणविधानात् अङ्गिरसाअन्त्यावसायिनामित्यादि प्रागुक्तवचने सामान्यत-स्तप्तकृच्छ्रविधानात् अनुच्छिष्टेऽपि तथात्वादेवसर्व्वत्रानुच्छिष्टादुच्छिष्टे द्वैगुण्यं बोध्यम् प्राय-श्चित्तविवेके संसर्गप्रकरणेऽप्येवम् क्षत्रियवि-शीश्चापदि ज्ञेयम्”
*
“सर्व्वत्रोच्छिष्टे तु व्रत-द्वैगुण्यं आपदज्ञानभुक्तोत्तारिते मासयावकव्रतंतदशक्तौ धेनुद्वयं षट्कार्षापणा वा देयाः तत्रो-च्छिष्टान्ने पराक इति अभ्यासभेदे त्वावृत्ति-रूहणीया” इति प्रायश्चित्ततत्त्वम्
*
अथो-च्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तम् (तत्रैवउच्छिष्टस्य चाण्डालादिस्पर्शप्रायश्चित्तप्रकरणेद्रष्टव्यम् ।) आपस्तम्बः ।“भुक्तोच्छिष्टस्त्वााचान्तश्चाण्डालैः श्वपचेन वा ।प्रमादात् स्पर्शनं गच्छेत् तत्र कुर्य्याद्विशोधनम्
गायन्यष्टसहस्नन्तु द्रुपदां वा शतं जपेत् ।त्रिरात्रोपोषितो भूत्वा पञ्चगव्येन शुध्यति
भुक्तोच्छिष्टोऽन्त्यजैः स्पृष्टः प्राजापत्यं समाचरेत् ।अर्द्धोच्छिष्टे स्मृतः पादः पाद आमाशने तथा”
प्राजापत्यं ज्ञाने अर्द्धोच्छिष्टो येनाद्यग्रास आस्येनिक्षिप्तः तु निगीर्णः दक्षः ।“पाने मैथुनसंसर्गे तथा मूत्रपूरीषयोः ।संस्पर्शं यदि गच्छेत्तु शवोदक्यान्त्यजैः सह
दिनमेकं चरेन्मूत्रे पुरीषे तु दिनद्वयम् ।”दिनत्रयं मैथुने स्यात् पाने स्याच्च चतुष्टयम्
काश्यपः ।श्वशूकरान्त्यचाण्डालमद्यभाण्डरजस्वलाः ।यद्यच्छिष्टः स्पृशेत्तत्र कृच्छ्रं सान्तपनं चरेत्
एतद्ज्ञानाभ्यासे सान्तपने धेनुद्वयं
ब्रह्मपुराणे ।“उच्छिष्टेन तु शूद्रेण विप्रः स्पृष्टस्तु तादृशः ।उपवासेन शुद्धिः स्यात् शुना संस्पृष्ट एव वा
उच्छिष्टेन तु विप्रेण विप्रः स्पृष्टस्तु तादृशः ।उभौ स्नानं प्रकुरुतं सद्य एव समाहितौ”
अनुच्छिष्टशूद्रस्पर्शे उच्छिष्टब्राह्मणस्य नक्तमितिप्रायश्चित्तविवेकः
त्यक्तं इति हेमचन्द्रः
(यथा, शतपथब्राह्मणे ३१ ११ “हुतोच्छिष्टमिदम्” ।इति अनाचान्तो भक्षकः यथा मनुः ५६ ।“नचैवात्यशनं कुर्य्यात् नचोच्छिष्टः क्वचित् व्रजेत्”