| YouTube Channel

उच्छास (ucchAsa)

 
वाचस्पत्यम्
Sanskrit
उच्छास
पु०
उद् + श्वस--घञ् अन्तर्मुखश्वासे, आख्यायिकायाः परिच्छेदे, यथा दशकुमारस्य प्रथमोच्छ्वासादि प्राण-वायोर्दीर्घगत्या बहिर्गतौ आश्वासे “दीर्वा-ङ्गुलीपर्वोच्छ्वासप्रेक्षणबाहुम्” कात्या० “वायोर्मार्गनिरो-धाच्च गर्भस्थः प्ररोदिति” निश्वासोच्छ्वाससंक्षोभस्वप्नान्गर्भोऽधिगच्छति” तुश्रु० उच्छ्वासवहनाडीभेदास्तु तत्रदर्शिताः “ऊर्द्धगाः शब्दस्पर्शणपरसगन्धप्रश्वासोच्छ्वास-जृम्भितक्षुद्धसितकथितरुदितादीनि विशेषानभिवहन्त्यःशरीरं धारयन्ति “पीडयन्नरुजोगाढः सोच्छ्वासः शिथि-लः स्मृतः” “शीतपादकरोच्छ्वासश्छन्नश्वासश्च यो भवेत् ।काकोच्छ्वासश्च यो मर्त्यस्तं धीरः परिवर्ज्जयेत्” सुश्रु० ।“सन्ततोच्छ्वासिनं क्षीणं नरं क्षपयति ज्वरः” सुश्रु० ।उच्छ्वासश्चदीर्घनिश्वासः यावत्कालेन श्वासरूपप्राण-क्रिया भवति ततोऽल्पकालेन, दीर्घदेशपर्य्यन्तप्राणवायोर्ब-हिर्गमने भवति “उष्णोच्छ्वासं समधिकतरोच्छ्वा-सिना दूरयर्ती” मेघदू० “इत्युच्छ्वासोऽमृतं प्राण आदध”कात्या० ४, ८, २९