| YouTube Channel

उच (uca)

 
शब्दसागरः
English
उच r. 4th cl. (उच्यति) To be conglomerate, to be gathered or assembled
together, to unite or associate with.
Wilson
English
उच r. 4th cl. (उच्यति) To be conglomerate, to be gathered or
assembled together, to unite or associate with.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
उच्
मूलधातुः:
उच
धात्वर्थः:
समवाये (सङ्गमो मिश्रणम्)
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
उच्यति
अनुबन्धादिविशेषः:
पुषादिः
धातुप्रदीपः
Sanskrit
उचँ उच समवाये
- उच्यति उवोच ऊचतुः औचत् मा भावानुचत् औचिचत् मा भवानुचिचत् उचिचिषति ओचित्वा उचितम् उल्वः (26) 117
शब्दकल्पद्रुमः
Sanskrit
उच, समवायने मिश्रणे इति कवि-कल्पद्रुमः
(दिवां -परं -सकं -सेट् ।) ह्रस्वादिः रऔचत् औचित् अस्मात् पुरुषादित्वात् नित्यं ङइत्यन्ये उच्यते केशः स्नानात् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
उच समवाये दि०
पर०
सक०
सेट् उच्यति इरित् औचत्, -औचीत् उवोच ओचिता उच्यात् ओचिष्यति औचिष्यत्उचितः उग्रः “उवोचिथ हि मघवन् देष्णम्” ऋ०७, ३७, उचतिः सेबाकर्मेति माधवः “अभि वा एषएतानुच्यति” तैत्ति० “नियो गृभं पौरुषेयी-मुवोच” ऋ० ७, ४, “तत्र सेदिन्युच्यतु सर्वाश्च यातु-धान्यः” अथ० २, १४,
क्षीरतरङ्गिणी
Sanskrit
उचँ उच समवाये
- (अर्थविवरणम्) समवाय ऐक्यम्
उच्यति उवोच औचिचत् ओक उचः के (7364) उचितम् उचः कुश्च इत्यसुन्-ओकस्, द्यौरोको येषां ते दिवौकस इति वृद्धिविषये दिवशब्दोऽदन्तोऽस्तीत्येके स्थलजलयोवोकसि पररूपम् आहुः-स्थलोकाः, स्थलौकाः, जलोकाः जलौकाः 111
धातुवृत्तिः
Sanskrit
उचँ उच (अर्थः) समवाये
( उचयति उवोच, ऊचतुः, उवोचिथ, ) पिद्वचनेषु परत्वाद्गुणे, पश्चाद् द्विर्वचने "अभ्यासस्यासवर्णे'' इत्युवङ् यद्यपि द्विर्वचने गुणस्य स्थानिवत्त्वम्, तथाप्युत्तरखण्डस्य "वार्णादाङ्गं बलीय'' इति सवर्णदीर्घात्पूर्वे गुणे ऽभ्यासस्योवङ् ओचिता ओचिष्यति उच्यतु औच्यत्, उच्च्येत्, उच्यात्, ) लिडो ( मा भवानुचिचत् ओचिचिषति ) इत्यादावपि द्विर्वचनात्पूर्वं गुणः अत्र ज्ञापकं "रलो व्युपधात्'' इत्यत्र हलादिग्रहणेन अजादेर्गुणार्थः कित्वपर्युदासः यदि पूर्वं द्विर्वचनं स्याद् अधिकत्त्वेऽप्यनुपधात्वाद् गुणो भविष्यतीति किं तेन ( ओचित्वा ) "न क्त्त्वा सेट्'' इत्यकित्त्वम् ( उचितः, औचित्यम् ) ब्राह्मणादित्वात् ष्यञ् ( औचिती ) ष्यञन्तात् षित्त्वान्ङीषि "हलस्तद्धितस्य'' इति यलोपः नियमेनोच्यतीति ( न्योकः ) शंकुः इगुपधलक्षणः कः नियमेनास्मि शकुन्तोः समवयन्तीति ( न्योजो ) वृक्षः, घञर्थे कः ( ओकः ) अच् "ओक उचः के'' इति निपातनात्कुत्वम् ( उल्बम् ) गुणश्च ( ओकः, ओकसी ) गृहम् असुनि बाहुलकात्कुत्वम् ( उल्बम् "उल्बादयश्च'' इति बप्रययः चकारस्य लकारो गुणाभावश्च निपात्यते 115
कृदन्तरूपमाला
Sanskrit
1 {@“उच समवाये”@} 2 समवायः = ऐक्यम्--इति क्षीरस्वामी।
ओचकः-चिका, ओचकः-चिका, ओचिचिषकः-षिका
ओचिता-त्री, ओचयिता-त्री, ओचिचिषिता-त्री
3 उच्यन्-न्ती, ओचयन्-न्ती, ओचिचिषन्-न्ती
ओचिष्यन्-न्ती-ती, ओचयिष्यन्-न्ती-ती, ओचिचिषिष्यन्-न्ती-ती
-- ओचयमानः, ओचयिष्यमाणः
उक्-उचौ-उचः
-- -- उचितम्-तः-तवान्, ओचितः-तं, ओचिचिषितः-तवान्
ओक 4ः-न्योकः 5, ओकः, ओचिचिषुः, ओचिचयिषुः
ओचितव्यम्, ओचयितव्यम्, ओचिचिषितव्यम्
ओचनीयम्, ओचनीयम्, ओचिचिषणीयम्
ओच्यम्, ओच्यम्, ओचिचिष्यम्
ईषदोचः, दुरोचः, स्वोचः, -- -- उच्यमानः, ओच्यमानः, ओचिचिष्यमाणः
ओकः-न्योकः, 6 ओकः, ओचिचिषः
7 ओचितुम्, ओचयितुम्, ओचिचिषितुम्
उक्तिः, ओचना, ओचिचिषा, ओचिचयिषा
ओचनम्, ओचनम्, ओचिचिषणम्
8 ओचित्वा, ओचयित्वा, ओचिचिषित्वा
समुच्य, समोच्य, समोचिचिष्य
9 ओचम् २, ओचित्वा २, ओचम् २, ओचयित्वा
ओचिचिषम्
ओचिचिषित्वा २। ओकः 10 -ओकसी।
-- --
प्रासङ्गिक्यः
01
=>
(९५)
02
=>
(४-दिवादिः-१२२३। सक। सेट्। पर।)
03
=>
[[१। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः शित्त्वात् ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावात् उकारस्य गुणो न।]]
04
=>
[[२। ‘ओक उचः के’ (७-३-६४) इति कप्रत्यये गुणः कुत्वञ्च निपातनात्।]]
05
=>
[[३। नियमेन उच्यति = समवैतीति न्योकः = शकुन्तो वृषलो वा। कर्तरि कः।]]
06
=>
[[४। नियमेनोच्यन्ति = समवयन्त्यत्रेत्यधिकरणकारके ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कः। तिपातनादेव कुत्वम्। वृक्षोऽर्थः। ओकः = गृहम्।]]
07
=>
[पृष्ठम्००९४+ २६]
08
=>
[[१। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]
09
=>
[[२। ‘आभीक्ष्ण्ये णमुल् च’ (३-४-२२) इत्यत्र चकारात् क्त्वाऽपि। ‘नित्यवीप्सयोः’ (८-१-४) इति द्वित्वम्।]]
10
=>
[[३। औणादिके असुन्प्रत्यये बाहुलकात् कुत्वम्। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसो भृश्यद्भ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे।।’ धा। का। २-६६।]]