| YouTube Channel

उग्रायुध (ugrAyudha)

 
Monier Williams Cologne
English
उग्रा॑युध
mfn.
having powerful weapons,
AV.
iii, 19, 7
उग्रा॑युध
m.
N.
of a prince.
Mahabharata
English
Ugrāyudha^1, a son of Dhṛtarāshṭra. § 130 (Aṃśāvat.): I 67, 2734 (enumeration).--§ 182 (Dhṛtarāshṭraputranāmak.): I, 117, 4546 (do.).--§ 232 (Svayaṃvarap.): I, 186, 6982 (came to the svayaṃvara of Draupadī).--§ 604 (Karṇap.): VIII, 7, †207 (Bhāratarājaputraḥ?).
Ugrāyudha^2, a Pāñcāla prince. § 608 (Karṇap.): VIII, 56, 2735 (fought with Karṇa).
Ugrāyudha^3, a Kuru warrior. § 609 (Śalyap.): IX, 2, 93 (had been slain).
Ugrāyudha^4 = Śiva: VII, 9536
XII, 10676.
पुराणम्
English
उग्रायुध / UGRĀYUDHA I. A son of dhṛtarāṣṭra. (M.B. Ādi Parva, Chapter 67, Verse 99). He was present at the wedding of pāñcālī. (M.B. Ādi Parva, Chapter 185).
उग्रायुध / UGRĀYUDHA II. A pāñcāla king and partisan of the pāṇḍavas. karṇa wounded him in war. (karṇa Parva, Chapter 56, Verse 44).
उग्रायुध / UGRĀYUDHA III. A powerful person, who fought on the kaurava side. (M.B. śalya Parva, Chapter 2, Verse 37).
उग्रायुध / UGRĀYUDHA IV. An emperor killed by bhīṣma. (M.B. śānti Parva, Chapter 27, Verse 10).
वाचस्पत्यम्
Sanskrit
उग्रायुध
पु०
उग्राणि आयुधान्यस्य पौरवे राजभेदे तस्योत्-पत्तिभीष्महननकथादि हरिवं० २० अ० “अजमीढस्यदायादः” इत्युपक्रम्य तद्वंशपरम्परा उक्त्वा“तस्य वै सन्नतेः पुत्रः कृतो नाम महाबलः” इति कृतोत्पत्तिमुक्त्वा “कार्त्तिरुग्रायुधः सोऽथ वीरः पौरवनन्दनः बभूव येन विक्रम्य पृषतस्य पितामहः नीपो-नाम महातेजाः पञ्चालाधिपतिर्हतः उग्रायुधस्यदायादः क्षेम्यो नाम महायशाः क्षेम्यात् सुवीरो नृपतिःसुवीरात्तुनृपञ्जयः नृपञ्जयाद्बहुरथ इत्येते पौरवाःस्मृताः सचाप्युग्रायुधस्तात दुर्बुद्धिरभवत्तदा प्रवृद्धचक्रो बलवान्नीपान्तकरणो महान् दर्पपूर्णोहत्वाजौनीपानन्यांश्च पार्थिवान् पितर्युपरते मह्यं श्रावयामास किल्विषम् महामात्यैः परिवृतं शयानं धरणीतले ।उग्रायुधस्य राजेन्द्र! दूतोऽभ्येत्य वचोऽब्रवीत् अद्य त्वंजननीं भीष्म! गन्धकालीं यशस्विनीम् स्त्रीरत्नंमम भार्य्यार्थे पयच्छ कुरुनन्दन! एवं राज्यञ्चते स्फीतं धनानि संशयः प्रदास्याभि यथाकाममहं वै रत्नभाग् भुवि मम प्रज्रलितं चक्रं निश-म्येदं सुदुर्ज्जयम् शत्रवो विद्रवन्त्याजौ दर्शनादेव भारत!राष्ट्रस्येच्छसि चेत् स्वस्ति प्राणानां वा कुलस्य वा शासगेमम तिष्ठस्व हि ते शान्तिरन्यथा अधःप्रस्तारशयनेशयानस्तेन नोदितः दूतोऽन्तर्हितमेतद्वै वाक्यमग्निशिखोपमम् ततोऽहं तस्य दुर्बुद्धेर्विज्ञाय मतमच्युत! ।आज्ञापयं वै संग्रामे सेनाध्यक्षांश्च सर्वशः विचित्र-वीर्य्यं बालञ्च मदुपाश्रयमेव दृष्ट्वा क्रोधपरीतात्मा यु-द्धायैव मनोदधे निगृहीतस्तदाऽहं तैः सचिवैर्मन्त्र-कोविदैः ऋत्विग्भिर्द्देवकल्पैश्च सुहृद्भिश्चार्थदर्शिभिः ।स्निग्धैश्च शास्त्रविद्भिश्च संयुगस्य निवर्त्तने कारणं श्रावित-श्चास्मि युक्तरूपं तदाऽनघ!” “प्रवृत्तन्तस्य तच्चक्रमधर्मनिरतस्य वै परदाराभिलाषेण सद्यस्तात निवर्त्तितः ।नत्वहं तस्य जाने तन्निवृत्तं चक्रमुत्तमम् हतं स्वकर्म्मणातन्तु पूर्व्वं सद्भिश्च निन्दितम् कृतशौचः शरी चापीरथी निष्क्रम्य वै पुरात् कृतस्वस्त्ययनो विप्रैः प्रायोधयमहं रिपुम् ततः संसर्गमागम्य बलेनास्त्रबलेन ।त्र्यहमुन्मत्तवद्युद्धं देवासुरमिवाऽभवत् मयाऽस्त्रप्रतापेननिर्द्दग्धोरणमूर्द्धनि पपाताभिमुखः शूरस्त्यक्त्वा प्राणा-नरिन्दम! एतस्मिन्नन्तरे तात! काम्पिल्यात् पृषतोऽभ्य-गात् हते नीपेश्वरे चैव हते चोग्रायुधे नृपे अहि-च्छत्रं स्वकं राज्यं पित्र्यं प्राप महाद्युतिः द्रुप-दस्य पिता राजन्ममैवानुमते तदा” भा० हरिव० २० अ०२ धृतराष्ट्रपुत्रभेदे तन्नामकीर्त्तने भा० आ० ६७ अ० ।“उग्रायुधोभीमशरः कनकायुर्दृढायुधः”