| YouTube Channel

उग्रतारा (ugratArA)

 
Monier Williams Cologne
English
उग्र—तारा
f.
N.
of a goddess, KālikāP.
Shabdartha Kaustubha
Kannada
उग्रतारा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ದೇವಿ /ಭಯಂಕರ ವಿಪತ್ತಿನಿಂದ ಪಾರುಮಾಡುವ ಮಹಾದೇವಿ
प्रयोगाः - > "तारकत्वात्सदा तारा महामोक्षप्रदायिनी उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ॥"
E Bharati Sampat
Sanskrit
(स्त्री) आपदपाकरी देवी ‘तारकत्वात्सदा तारा महामोक्षप्रदायिनी उग्रापत्तारिणी यस्मादुग्रतारा प्रकीर्तिता ।’
Wordnet
Sanskrit
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
उग्रतारा,
स्त्री,
(उग्रादपि भयात् भक्तान् त्रातितारयति वा या
उग्र + तॄ + णिच् + अच् +टाप् यथा, निरुक्तौ ।“उग्रादपि भयात् त्राति यस्मात् भक्तान् सदा-म्बिका” ।) देवीविशेषः अस्या उत्पत्त्यादियथा, --“सर्व्वेषामेव देवानां यज्ञभागानपाहरत् ।स्वयं शुम्भो निशुम्भश्च दिक्पालत्वं तथा गतौ
सर्व्वे सुरगणाः सेन्द्रास्ततो गत्वा हिमाचलम् ।गङ्गावतारनिकटे महामायां प्रतुष्टुवुः
अनेकसंस्तुता देवी तदा सर्व्वामरोत्करः ।मातङ्गवनितामूर्त्तिर्भूत्वा देवानपृच्छत
युष्माभिरमरैरत्र स्तूयते का भाविनी ।किमर्थमागता यूयं मातङ्गस्याश्रमं प्रति
एवं ब्रुवन्त्या मातङ्ग्यास्तस्यास्तु कायकोषतः ।समुद्भूताब्रवीद्देवी मां स्तुवन्ति सुरा इति
शुम्भो निशुम्भो ह्यसुरौ बाधेते सकलान् सुरान् ।तस्मात्तयोर्बधायाहं स्तूयेऽद्य सकलैः सुरैः
विनिःसृताया देव्यास्तु मातङ्ग्याः कायतस्तदा ।भिन्नाञ्जननिभा कृष्णा साभूद्गौरी क्षणादपि
कालिकाख्याभवत् सापि हिमाचलकृताश्रया ।तामुग्रतारामृषयो वदन्तीह मनीषिणः
उग्रादपि भयात्त्राति यस्माद् भक्तान् सदाम्बिका ।एतस्याः प्रथमं वीजं कथितं तन्त्रमेव च”
*
“एषैवैकजटाख्यातिर्यस्मात्तस्या जटाधिका ।शृणु त्वं चिन्तनं चास्याः सम्यक् वेतालभैरवौ
यथा ध्यात्वा महादेवीं भक्तः प्राप्नोत्यभीप्सितम् ।चतुर्भुजां कृष्णवर्णां मुण्डमालाविभूषिताम्
खड्गं दक्षिणपाणिभ्यां बिभ्रतीन्दीवरं त्वधः ।कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम्
खं लिखन्तीं जटामेकां बिभ्रतीं शिरसा स्वयम् ।मुण्डमालां धरां शीर्षे ग्रीवायामपि सर्व्वदा
वक्षसा नागहारन्तु बिभ्रतीं रक्तलोचनाम् ।कृष्णवस्त्रधरां कट्यां व्याघ्राजिनसमन्विताम्
वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।विनस्य सिंहपृष्ठे तु लेलिहाना शवं स्वयम्
साट्टहासमहाघोरा रावयुक्तातिभीषणा ।चिन्त्योग्रतारा सततं भक्तिमद्भिः सुखेप्सुभिः”
*
“एतस्याः संप्रवक्ष्यामि या अष्टौ योगिनीस्तु ताः ।महाकाल्यथ रुद्राणी उग्रा भीमा तथैव ।घोरा भ्रामरी चैव महारात्रिश्च सप्तमी
भैरवी चाष्टमी प्रीक्ता योगिनीस्ताः प्रपूजयेत्” ।इति कालिकापुराणे ६० अध्यायः
*
अपिच“ब्रह्मशैलस्य पूर्व्वस्यां भूमिपीठे व्यवस्थिता ।“चारुनिम्नं शुभावर्त्तं कामाख्यानाभिमण्डलम्
यत्रोग्रतारारूपेण रमते परमेश्वरी ।तत्र तेनैव रूपेण पूजितव्या शुभात्मिका
तस्यास्तु वीजं पूर्व्वस्मिन् उत्तरे प्रतिपादितम् ।रूपं शृणु नरश्रेष्ठ येन ध्येया सदाशिवा
कृष्णा लम्बोदरी दीर्घा विरला रक्तदन्तिका ।चतुर्भुजा कृशाङ्गी तु दक्षे कर्त्तृकखर्परौ
खड्गं चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः ।वामपादं शवस्योर्व्वोर्निधायोत्थाय दक्षिणम्
शवस्य हृदये न्यस्य साट्टहासं प्रकुर्व्वती ।नागहारशिरोमालाभूषिता कामदा परा
त्रिकोणं मण्डलं चास्या हुंकारमध्यवीजकम् ।द्वारे नानायोगिनीनां नामान्यस्यास्तु तन्त्रके
ज्ञेयानि नरशार्द्दूल तत्प्रोक्तं वान्यगोचरे” ।इति कालिकापुराणे कामाख्यारूपनिर्णये ८१अध्यायः
*
सा वशिष्ठशापात् वामाभूता यथा, --और्व्व उवाच ।“एतद्विष्णोर्व्वचः श्रुत्वा विधिना सहितः तु ।अङ्गीचकार हृदये तद्वचः साध्यसाधने
विसृज्य तान् ब्रह्मविष्णुयमान् वृषभवाहनः ।आदाय सगणान् सर्व्वान् कामरूपान्तरं ययौ
उग्रतारां ततो देवीं गणांश्च प्राह शङ्करः ।उत्सारयन्तु सकलान् इमान् लोकान् गणा द्रुतम्
उग्रतारे महादेवि त्वञ्चाप्युत्सारय द्रुतम्
ततो गणाः कामरूपाद्देवीचाप्यपराजिता ।लोकानुत्सारयामासुः पीठं कर्त्तुं रहस्यकम्
उत्सार्य्यमाने लोके तु चतुर्व्वर्णैर्द्विजातिभिः ।सन्ध्याचलो गतो विप्रो वशिष्ठः कुपितो मुनिः
सोऽप्युग्रतारया देव्या उत्सारयितुमीशया ।गणैः सह वृतः प्राह शापं कुर्व्वन् सुदारुणम् ।यस्मादहं धृतं वामे त्वयोत्सारयितुं मुनिः
तस्मात्त्वं वाम्यभावेन पूज्या भव समन्त्रिका ।भर्त्स्यन्ति म्लेच्छवत् यस्माद्गणास्ते मन्दबद्धयः ।भवन्तु म्लेच्छास्तस्माद्व भवत्या काभरूपके
महादेवोऽपि यस्मान्मां निःसारयितुमुद्यतः ।तपोबलं मुनिं दान्तं म्लेच्छवद्वेदपारगभ्
तस्मात् म्लेच्छप्रियो भूयात् शङ्करश्चास्थिभस्मधृक् ।एतत्तु कामरूपाख्यं म्लेच्छैर्गुप्त्रं भवद्बलं
स्वयं विष्णुर्न चायाति यावत् कालमिदं पुनः ।विरलाश्चागमाः सन्तु यत्र तत्प्रतिपादकाः
विरलं यस्तु जानाति कामरूपागमं बुधः ।स एव प्राप्तकालेऽपि पूर्व्वं फलमवाप्स्यति
एवमुक्त्वा वशिष्ठस्तु तत्रैवान्तरधीयत ।ते गणाः म्लेच्छतां याताः कामरूपे सुरालये
वामाऽभूदुग्रतारापि शम्भुर्म्लेच्छरतोऽभवत्” ।इति कालिकापुराणे ८३ अध्यायः
वाचस्पत्यम्
Sanskrit
उग्रतारा स्त्री उग्रादपि भयात् तारयति भक्तान् तॄ--णिच्-अच् त० तारारूपायां देव्याम् “तारकत्वात्सदा तारा महामोक्षप्रदाविनी उग्रापत्तारिणीयस्मादुग्रतारा प्रकीर्त्तितैति तन्त्रोक्ताऽस्य वा निरुक्तिः ।तदाविर्भावः कालिकापु० ८१ अ० “विनिःसृतायांदेव्यास्तु मातङ्ग्याः कायतस्तदा भिन्नाञ्जननिभा कृष्णासाऽभूद्गौरी क्षणादपि कालिकाख्याऽभवत् सापि हिमा-चलकृताश्रया तामुग्रतारामृयषो वदन्तीह मनीषिणः ।उग्रादपि भयाद्रक्षेत् यस्मात् भक्तान् सदाम्बिका एषेवै-कजटाख्यातिं यस्मात्तस्या जटैकिका शृणृतं चिन्तनंचास्याः सम्यक् वेतालभैरवौ! यथा ध्यात्वा महादेवींभक्तः प्राप्तोत्यभीप्सितम् चतुर्भुजां कृष्णवर्णां मुण्डमा-लाविभूषिताम् खडगं दक्षिणपाणिभ्यां बिभ्रतीन्द्रवरंत्वधः कर्त्रीञ्च खर्परञ्चैव क्रमाद्वामेन बिभ्रतीम् ।खं लिखन्तीं जटामेकां वि्रतीं शिरसा स्वयम् मुण्डमा-लाधरां शीर्षे ग्रीवायामपि सर्व्वदा वक्षसा नागहारन्तुपिभ्रतीं रक्तलोचनाम् कृष्णवस्त्रधरां कट्यां व्याघ्राजिनस-मन्विताम् वामपादं शवहृदि संस्थाप्य दक्षिणं पदम् ।विन्यस्य सिंहपृष्ठे तु लेलिहानां शवं स्वयम् साट्टहासमहाघोरारावयुक्तातिभीषणा चिन्त्योग्रताराः कततंभक्तिमद्भिः सुखेप्सुभिः” अन्यत्र “रूपं शृणु नरश्रेष्ठ!येन ध्येया सदा शिवा कृष्णा लम्बोदरी दीर्घा विरला रक्त-दन्तिका चतुर्भुजा कृशाङ्गी तु दक्षे कर्तृकखर्परौ ।खड्ग चेन्दीवरं वामे शीर्षे त्वेकजटां पुनः वामपादंशवस्योर्व्वोर्निधायोत्थाप्य दक्षिणम् शवस्य हृदये न्यस्यसाट्टहासं प्रकुर्व्वती नागहारशिरोमालाभूषिताकामदा परा” अस्यारूपविषये बहुविप्रतिपत्तिरस्ती-त्यतस्तन्निरूपणं तावत् क्रियतेराघवकृते पञ्चकल्पतरौ मन्दारवृक्षप्रकरणे श्रीशङ्कराचार्य्यकृतैतदीयमूर्त्तिप्रकाशकस्तोत्रं यथा “ज्वलत्पाबक-ज्वालयोज्ज्वालभास्वच्चितामध्यसंस्थां सुपुष्टां सुखर्वाम् ।शवं वामपादेन कण्ठे निपीड्य स्थितां दक्षिणेनाङ्घ्रिणोरूनिपीड्य वृहद्भीमलम्बोदरीं मेघवर्ण्णां समुत्तुङ्गपीनस्तनाभोगरम्याम् जवारागरागप्रवृत्तत्रिनेत्रां ललज्जि-ह्वया दंष्ट्रया भीषणास्याम् लसद्द्वीपिचर्म्मावृताङ्गींनितम्बे जटाजूटमध्यस्थितेन्दीवरालीम् शिरोदेशभा-स्वत्पिशङ्गाभसर्पां जटाजूटमध्यस्थिताक्षोभ्यमूर्तिम् मिथःकेशबन्धात् शिरश्छिन्नसद्योगलच्छोणितां मानवीं मुण्डमा-लाम् दधानां पञ्चाशदाख्यानसंख्याम् अतश्छिन्नमु-ण्डालिसंनामिताङ्गीम् समाच्छिन्नमांसोत्करामूर्द्धदक्षे स्फुर-त्पाणिना धारयन्तीं महासीम् करे वाम ईषत्स्फुर-द्रक्तनालं लसन्नीलपङ्केरुहं धारयन्तीम् करे सव्य उच्चै-रधस्ताद्दधानां शितां कर्त्तृकां वामपाणौ कपालम् ।जगद्वर्त्तिसंसारसंजातजाड्यं स्वतः कर्त्तृकाधारया खण्ड-यन्तीम् विचित्रास्थिमालं करालं कपालं ललाटे चपञ्चान्वितं धारयन्तीम्” इति तत्रैव मन्त्रप्रदीपे “महा-ष्टासिद्धिप्रकटाहिभूषणाम् इत्यनेन अष्टनागानामष्टसिद्धिरूप-त्वोक्त्या तेषां भूषणविशेषरूतया यथा स्थितिस्तथा तत्रैवदर्शितं यथा “जटास्वनन्तः श्रवसोश्च तक्षको महादि-पद्मो हृदि हारभूषणम् तथैव कर्कोटकृतोपवीतकम् समेखलायामथ देवि! वासुकिः शङ्खपालः किल कङ्क-णोद्गतः करेषु, पद्मः पदयुक्समाश्रयः भुजेषु नागः कुलि-कोऽङ्गदे मतः” इति “तेषां वर्ण्णा अपि क्रमशोदर्शिताःसितोऽथ रक्तीधवलश्च मेचकः तथैव पोतोऽप्यसिप्तश्च पाटलः ।भुजङ्गमानामिह वर्णजातयो भवन्ति सर्वेषु नरेषुसन्ति ताः” ।ततश्चायं निर्गलितार्थः अभ्रं लिहपिशङ्कैकजटा जवाकुसुम-सङ्काशतक्षकनागकृतकुण्डला शुभ्रशेषनागकृतहारा दूर्व्वा-दलश्यामनागकृतयज्ञोपवीता नीलवर्ण्णा लम्वोदरी खर्वाचतुर्भुजा तत्र उपरि दक्षिणे सरक्तमांसखण्डमण्डितमुष्टि-निविष्टजटाजूटसंलग्नोग्रखड्गविभूषितकरा उपरि वामेरक्तनालकिञ्चिद्विकस्वरनीलोत्पलकरा अधस्तात् दक्षिणेवीजभूषितकर्त्तृकालङ्क्रतकरा अधस्तात् वामे त्रिजगज्जाड्य-खण्डककपालमण्डितकरा भुजचतुष्टये धूम्राभनागकृतके-यूरा कनकाभनागकृतकङ्कणा शवारूढा प्रत्यालीढस्थाना-धिष्ठिता निर्भरयन्त्रणाप्रायेण शवहृदयस्थितदक्षिणचरणाशवोरुद्वयस्थितप्रासारितवामपादा कुन्दाभनागकृतकटीसूत्रापाटलनागकृतनुपूरालङ्कृता सद्यश्छिन्नगलद्रधिरान्योन्यकेश-ग्रथितपादपद्म प्रलम्बित--पञ्चाशत्तमनृमुण्डमाला ज्वल-दनलचितामध्यस्थिता द्वीपिचर्म्मालङ्कृतकृष्णवस्त्रा योषि-दखिलालङ्कारभूषिता मौलावक्षोभ्यरूपनागभूषिता पञ्च-संख्यान्वितकपालमालाभूषितललाटा ललज्जिह्वा वृहद्दंष्ट्राइत्येवं रूपा अत्र प्रमाणवाक्ययोः शवहृदयस्थत्वे वामद-क्षिणपादयोर्विकल्पैत्यतोमूर्त्तिद्वयमित्यन्ये प्रत्यीलाढपदा-ङ्घिशवहृदित्युक्तेः आलोढं दक्षिणं पादं प्रत्यालीढं तुवामकमित्युक्तेः आलीढशब्दे दर्शितवाक्याच्च प्रत्यालीढ-शब्दस्य आलीढविपर्य्ययरूपत्वात् वामचरणस्यैव शव-हृदयस्थितिरिति तु न्याय्यम्