| YouTube Channel

उग्रचण्डा (ugracaNDA)

 
Monier Williams Cologne
English
उग्र—चण्डा
f.
N.
of a goddess, KālikāP.
Apte Hindi
Hindi
उग्रचण्डा
स्त्री*
उग्र-चण्डा -
दुर्गा देवी
Wordnet
Sanskrit
Synonyms:
दुर्गा, उमा, कात्यायनी, गौरी, ब्रह्माणी, काली, हैमवती, ईश्वरा, शिवा, भवानी, रुद्राणी, सर्वाणी, सर्वमङ्गला, अपर्णा, पार्वती, मृडानी, लीलावती, चणडिका, अम्बिका, शारदा, चण्डी, चण्डा, चण्डनायिका, गिरिजा, मङ्गला, नारायणी, महामाया, वैष्णवी, महेश्वरी, कोट्टवी, षष्ठी, माधवी, नगनन्दिनी, जयन्ती, भार्गवी, रम्भा, सिंहरथा, सती, भ्रामरी, दक्षकन्या, महिषमर्दिनी, हेरम्बजननी, सावित्री, कृष्णपिङ्गला, वृषाकपायी, लम्बा, हिमशैलजा, कार्त्तिकेयप्रसूः, आद्या, नित्या, विद्या, शुभह्करी, सात्त्विकी, राजसी, तामसी, भीमा, नन्दनन्दिनी, महामायी, शूलधरा, सुनन्दा, शुम्यभघातिनी, ह्री, पर्वतराजतनया, हिमालयसुता, महेश्वरवनिता, सत्या, भगवती, ईशाना, सनातनी, महाकाली, शिवानी, हरवल्लभा, उग्रचण्डा, चामुण्डा, विधात्री, आनन्दा, महामात्रा, महामुद्रा, माकरी, भौमी, कल्याणी, कृष्णा, मानदात्री, मदालसा, मानिनी, चार्वङ्गी, वाणी, ईशा, वलेशी, भ्रमरी, भूष्या, फाल्गुनी, यती, ब्रह्ममयी, भाविनी, देवी, अचिन्ता, त्रिनेत्रा, त्रिशूला, चर्चिका, तीव्रा, नन्दिनी, नन्दा, धरित्रिणी, मातृका, चिदानन्दस्वरूपिणी, मनस्विनी, महादेवी, निद्रारूपा, भवानिका, तारा, नीलसरस्वती, कालिका, उग्रतारा, कामेश्वरी, सुन्दरी, भैरवी, राजराजेश्वरी, भुवनेशी, त्वरिता, महालक्ष्मी, राजीवलोचनी, धनदा, वागीश्वरी, त्रिपुरा, ज्वाल्मुखी, वगलामुखी, सिद्धविद्या, अन्नपूर्णा, विशालाक्षी, सुभगा, सगुणा, निर्गुणा, धवला, गीतिः, गीतवाद्यप्रिया, अट्टालवासिनी, अट्टहासिनी, घोरा, प्रेमा, वटेश्वरी, कीर्तिदा, बुद्धिदा, अवीरा, पण्डितालयवासिनी, मण्डिता, संवत्सरा, कृष्णरूपा, बलिप्रिया, तुमुला, कामिनी, कामरूपा, पुण्यदा, विष्णुचक्रधरा, पञ्चमा, वृन्दावनस्वरूपिणी, अयोध्यारुपिणी, मायावती, जीमूतवसना, जगन्नाथस्वरूपिणी, कृत्तिवसना, त्रियामा, जमलार्जुनी, यामिनी, यशोदा, यादवी, जगती, कृष्णजाया, सत्यभामा, सुभद्रिका, लक्ष्मणा, दिगम्बरी, पृथुका, तीक्ष्णा, आचारा, अक्रूरा, जाह्नवी, गण्डकी, ध्येया, जृम्भणी, मोहिनी, विकारा, अक्षरवासिनी, अंशका, पत्रिका, पवित्रिका, तुलसी, अतुला, जानकी, वन्द्या, कामना, नारसिंही, गिरीशा, साध्वी, कल्याणी, कमला, कान्ता, शान्ता, कुला, वेदमाता, कर्मदा, सन्ध्या, त्रिपुरसुन्दरी, रासेशी, दक्षयज्ञविनाशिनी, अनन्ता, धर्मेश्वरी, चक्रेश्वरी, खञ्जना, विदग्धा, कुञ्जिका, चित्रा, सुलेखा, चतुर्भुजा, राका, प्रज्ञा, ऋद्भिदा, तापिनी, तपा, सुमन्त्रा, दूती, अशनी, कराला, कालकी, कुष्माण्डी, कैटभा, कैटभी, क्षत्रिया, क्षमा, क्षेमा, चण्डालिका, जयन्ती, भेरुण्डा
noun
सा देवी यया नैके दैत्याः हताः तथा या आदिशक्तिः अस्ति इति मन्यते।
"नवरात्रोत्सवे स्थाने स्थाने दुर्गायाः प्रतिष्ठापना क्रियते।"
शब्दकल्पद्रुमः
Sanskrit
उग्रचण्डा,
स्त्री,
(उग्रा चण्डा कोपना स्त्री ।) देवी-भेदः यथा महिषासुरं प्रति भगवतीवाक्यम् ।“उग्रचण्डेति या मूर्त्तिर्भद्रकाली ह्यहं पुनः ।यया मूर्त्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्त्तिता
एतासु मूर्त्तिषु सदा पादलग्नो नृणां भवान् ।पूज्यो भविष्यसि त्वं वै देवानामपि रक्षसाम्
आदिसृष्टौ उग्रचण्डामूर्त्त्या त्वं निहतः पुरा ।द्वितीयसृष्टौ तु भवान् भद्रकाल्या मया हतः
दुर्गारूपेणाधुना त्वां हनिष्यामि सहानुगम्” ।इत्यादि
*
तस्याः प्रादुर्भावो यथा ।श्रीभगवानुवाच ।“उग्रचण्डा तु या मूर्त्तिरष्टादशभुजाऽभवत् ।सा नवम्यां पुरा कृष्णपक्षे कन्यां गते रवौ
प्रादुर्भूता महाभागा योगिनीकोटिभिः सह”
*
अन्या मूर्त्त्या दक्षयज्ञभङ्गः कृतः यथा, --“आषाढस्य तु पूर्णायां सत्रं द्वादशवार्षिकम् ।दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः
ततोऽहं वृतस्तेन दक्षेण सुमहात्मना ।कपालीति सती चापि तज्जायेति नो वृता
ततो रोषसमायुक्ता प्राणांस्तत्याज सा सती ।त्यक्तदेहा सती चापि चण्डमूर्त्तिस्तदाभवत्
ततः प्रवृत्ते यज्ञे तु तस्मिन् द्वादशवार्षिके ।नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक्
योगनिद्रा महामाया योगिनीकोटिभिः सह ।सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत्
शङ्करस्य गणैः सर्व्वैः सहिता शङ्करेण ।स्वयं बभञ्ज सा देवी महासत्रं महात्मनः
ततो देव्या महाक्रोधे व्यतीते त्रिदिवौकसः ।पूजयाञ्चक्रुरतुलां देवीं पूर्व्वोदितेन वै
पूर्व्वोदितविधानेन पूजामस्या दिवौकसः ।कृत्वैव परमामापुर्निर्वृतिं दुःखहानये
एवमन्यैरपि सदा कार्य्यं देव्याः प्रपूजनम् ।विभूतिमतुलां प्राप्तुं चतुर्व्वर्गप्रदायकम्
यो मोहादथवालस्याद्देवीं दुर्गां महोत्सवे ।न पूजयति दम्भाद्वा द्वेषाद्वाप्यथ भैरव
क्रुद्धा भगवती तस्य कामानिष्टान्निहन्ति वै ।परत्र महामायावलिर्भूत्वा जायते
अष्टम्यां रुधिरैर्म्मांसैर्म्महामांसैः सुगन्धिभिः ।पूजयेद्बहुजातीर्यैर्व्वलिभिर्भोजनैः शिवां”
इत्यादि
*
तन्मन्त्रो यथा, --“भद्रकालीमुग्रचण्डां महामायां महोत्सवे ।नेत्रवीजन्तु सर्व्वासां पूजने परिकीर्त्तितम् ।तन्त्रं यथोग्रचण्डायाः पृथक् त्वं शृणु भैरव
आद्यद्वयं नेत्रवीजं मन्त्रस्योपान्तमन्तरे ।वह्निनान्तस्वरेणेन्दुविन्दुभ्यां तन्त्रमौग्रकम्”
इत्यादि कालिकापुराणे ५९ ६० अध्यायौ
वाचस्पत्यम्
Sanskrit
उग्रचण्डा स्त्री० उग्रा चण्डा कोपनां कर्म्म० देवीभेदे ।तदाविर्भावः कालिका०
पु०
५९, ६० अ० उक्तः “उग्र-चण्डा तु या मूर्त्तिरष्टादशभूजाऽभवत् सा नवम्यांपुरा कृष्णपक्षे कन्यां गते रवौ प्रादुर्मूता महाभागायोगिनीकोटिभिः सह” अनयैव मूर्त्त्या दक्षयज्ञो विना-अतिः यथा “आषाढस्य तु पूर्णायां सत्रं द्वादश वा-र्षिकम् दक्षः कर्त्तुं समारेभे वृताः सर्व्वे दिवौकसः ।ततोऽस्मिन् वृतस्तेन दक्षेण सुमहात्मना कपालीतिसती चापि तज्जायेति नो वृता ततो रोषसमायुक्ताप्राणांस्तत्याज सा सती त्यक्तदेहा सती चापि चण्ड-मूर्त्तिस्तदाऽभवत् ततः प्रवृत्ते सत्रे तु तस्मिन् द्वादश-वाषिके नवम्यां कृष्णपक्षे तु कन्यायां चण्डमूर्त्तिधृक् ।योगनिद्रा महामाया योगिनीकोटिभिः सह ।सतीरूपं परित्यज्य यज्ञभङ्गमथाकरोत् शङ्करस्य गणैःसर्व्वैः सहिता शङ्करेण स्वयं बभञ्ज सा देवी महा-सत्रं महात्मनः” “उग्रचण्डा प्रचण्डा चाण्डोग्राचण्डनायिका” इत्युक्ते दुर्गावरणभेदे