| YouTube Channel

उक्थवर्द्धन (ukthavarddhana)

 
वाचस्पत्यम्
Sanskrit
उक्थवर्द्धन
पु०
उक्थैः स्तोत्रैर्वर्द्ध्यतेऽसौ वृध--णिच् कर्भणिल्युट् स्तोत्रैर्वर्द्धनीये इन्द्रदेवे “त्वं हि स्तोमवर्द्धनइन्द्रास्युक्थवर्द्धनः” ऋ० ८, १४, ११ “उक्थैःशस्त्रैर्वर्द्धनीयः”भा० इन्द्रस्य यथा उक्थवर्द्धनीयत्वं तथोक्तं “उक्थ-मिन्द्राय शंस्यं वर्द्धनं पुरुनिष्षिधे” ऋ० १, १०, ५, “इन्द्रायेन्द्रार्थं वर्द्धनं वृद्धिसाधनम् उक्थं शस्त्रम्” भा०