| YouTube Channel

उँध्रस (u~dhrasa)

 
धातुप्रदीपः
Sanskrit
उँध्रसँ उध्रस उञ्छे
- ध्रस्नाति दध्रास ध्रसिता ध्रसित्वा ध्रस्त्वा ध्रस्तः उदितो वा (7256) इति विशेषणार्थमुदित्त्वम् केचित्तूत्वपूर्वस्य ध्रसेर्गणपाठमिच्छन्ति तथा उध्रस्नातीति रूपम् तु ध्रस्नातीति 55
उँध्रसँ उध्रस उञ्छे
- ध्रासयति पूर्व एवायं धातुरिह पठ्यते तेनायमुदिदिति 209
क्षीरतरङ्गिणी
Sanskrit
उँध्रसँ उध्रस उञ्छे
- ध्रस्नाति ध्रस्त्वा ध्रसित्वा चुरादौ (10191) ध्रासयति 51
उँध्रसँ उध्रस उञ्छे
-क्र्यदिः (956) एवायं स्वार्थणिजर्थः पठित इत्युदित्त्वम्-ध्रासयति, ध्रस्नाति प्रयोगसमवायीत्येके-उद्ध्रासयति, उद्ध्रस्नाति 211
धातुवृत्तिः
Sanskrit
उँध्रसँ उध्रस (अर्थः) उञ्छे
( ध्रस्नाति दध्रास दध्रसिथ ध्रसिता ध्रसिष्यति ध्रस्नातु ध्रसान अध्रस्नात् ध्रस्नीयात् ) आशिषि ( ध्रस्यात् अध्रासीत् अध्रसीत् दिध्रसिषति दाध्रस्यते दाध्रस्ति ध्रासयति अदिध्रसत् ध्रसित्त्वा ध्रस्त्वा ) उदित्त्वादिड्विकल्पः, ( ध्रस्तम् ) "यस्य विभाषा'' इत्यनिट्त्वम् अयं चुरादौ अत्र क्षीरस्वाम्युकारं धात्ववयवमाह तन्मते-( उध्रस्नाति ) इत्यादि, ( उध्रसांचकार औध्रस्नात् ) इत्याद्युदाहार्यम् अनवयवत्वे स्वादिवद् ध्रसु इति ब्रूयादिति तस्याभिप्रायः एव भूवादौ यदाह--
दरिद्राजागृदेदीङोऽनिकाचश्च चिरिर्जिरिः चकास्त्यूर्णोतिवेवीङः स्मर्यन्ते णौ तथौलङिः
इति, तदुदाहरणप्रदर्शनं तु परिगणनम् 52
उँध्रसँ उध्रस (अर्थः) उञ्छे
क्रैयादिकस्योकार इत् अस्य तु धातोरवयव इति काश्यपादिः मैत्रेयस्तु पूर्व एवायं धातुरिह पठ्यते, तेनायमुदिदिति अन्ये तूभयत्रापि धात्त्ववयव उकार इति ध्रासयतीति मैत्रेयमते अन्येषामुध्रासयतीति 207