| YouTube Channel

उँछृदिँर् (u~chRdi~r)

 
धातुप्रदीपः
Sanskrit
उछृदिर् दीप्ति, देवनयोः
- छृणत्ति छृन्ते चच्छर्द चच्छृदे छर्दिता छर्दिष्यति छर्त्स्यति छर्दिष्यते छर्त्स्यते छृद्यात् छर्दिषीष्ट छृत्सीष्ट अच्छृदत् अच्छर्दीत् अच्छर्दिष्ट चिच्छर्दिषति चिच्छृत्सति चरीच्छृद्यते छर्दित्वा छृत्त्वा छृण्णम् छर्दिः 8
क्षीरतरङ्गिणी
Sanskrit
उछृदिर् दीप्ति, देवनयोः
-उदात्तौ स्वरितेतौ- छृणत्ति छृन्त्ते अच्छृदत् अच्छर्दीत्, अच्छर्दिष्ट चङि-अचच्छर्दत्, अचिच्छृदत उरृद् (747) इति वा ऋकारः सेऽसिचि कृति (तु0 7257) इति वेट्-छर्दिष्यति छर्त्स्यति उदितो वा (7256)-छृत्त्वा, छर्दित्वा छृण्णः अर्चिशुचि (उ0 2108) इतीसिः-छर्दिस् चुरादौ छर्द वमने (1047)-छर्दयति
धातुवृत्तिः
Sanskrit
उच्छृदिर् (अर्थः) दीप्ति, देवनयोः
उकारः क्त्वायामिड्विकल्पार्थः (छृणत्ति छृत्तः छृन्दन्ति छृणत्सि छृन्थः छृन्ते छृन्त्से छृन्दे छृन्द्वहे चच्छर्द चच्छृदतुः चच्छृदुः चच्छृदिषे) "सेसिचि" इति सकारादाविड्विकल्पं बाधित्वा क्रादिनियमानित्यं एवेड्भवति अन्ये तु विकल्पमाहुः, क्रादिनियमस्य प्रतिषेधविषयत्वात् (छर्दिता छर्दिष्यतिछर्दिष्यतेछर्त्सते) "सेसिचि" इतीड्विकल्पः (छृणत्तु छृन्तात् छृन्ताम् छृन्दन्तु अछृणत् अछृन्ताम् अछृन्त अछृन्दाताम् छृन्द्यात् छृन्दीत) आशिषि (छृद्यात् छर्दिषीष्ट छृत्सीष्ट अछृदत् अछृत्त अछृत्साताम् अछृत्सत अच्छर्दिष्ट अच्छर्दिषाताम् चिच्छर्दिषति चिच्छृत्सति चरीच्छृद्यते चर्छर्ति चर्दयति अचच्छर्दत्) अत्र सन्वदित्वादन्तरङ्त्वात्तुक् चास्ति वारणादाङ्गं बलीयः इति, व्याश्रयत्वात्, तुकः छकार आश्रयः, इत्वस्य तु चङ्परो णिः (अचिछृदत् अचछृदत्) उरृद्वा (छृत्वा छर्दित्वा) उदित्वादिड्विकल्पः (छृण्णः छृण्णवान्) "यस्य विभाषा" इत्यनिट्त्वम् छृदी सन्दीपने युजादौ8