| YouTube Channel

ईहामृगः (IhAmRgaH)

 
Apte Hindi
Hindi
ईहामृगः
पुं*
- ईहा-मृगः
भेड़िया
ईहामृगः
पुं*
- ईहा-मृगः
"नाटक का एक खंड जिसमें अंक होते हैं, "
E Bharati Sampat
Sanskrit
(पुं) ईहाप्रधानो मृगः। १.वृकः। २.दशरूपकेषु अन्यतमः। ‘ईहामृगस्तु पुंसि स्यात् कोकरूपकभेदयोः’ मेदिनी०। ‘ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्तितः। मुखप्रतिमुखे सन्धी तत्र निर्वहणं तथा नरदिव्यावनियमौ नायकप्रतिनायकौ’ सा०द०।
Wordnet
Sanskrit
Synonyms:
ईहामृगः
noun
चतुरङ्कात्मकः दशरुपकेषु एकः भेदः यस्मिन् दिव्यः नायकः दिव्या नायिका भवतः।
"ईहामृगे मुख्यत्वेन नायिकायाः वीरतायाः प्रदर्शनं भवति।"
Synonyms:
वृकः, कोकः, अरण्याश्वा, ईहामृगः, ईहावृकः, छागभोजी, जनाशनः
noun
पशुविशेषः- कुक्कुरप्रमाणमृगघ्नजन्तुविशेषः।
"मेषपालः वृकं दृष्ट्वा बिभेति।"
शब्दकल्पद्रुमः
Sanskrit
ईहामृगः,
पुं,
(ईहाप्रधानो मृगो वृकः ।) कुक्कुर-प्रमाणहरिणघ्नकपिलवर्णजन्तुविशेषः इतिभरतः
घोॱᳪ᳭घ इति ख्यातः तत्पर्य्यायः कोकः २ष्टकः इत्यमरः
(“पुलहस्य सुता राजन् शलभाश्च प्रकीर्त्तिताः ।सिंहाः किम्पुरुषा व्याघ्रा यक्षा इहामृगास्तथा”
इति महाभारते आदिपर्ब्बणि
) (नायको मृग-वदलभ्यामपि नायिकामीहते वाञ्छत्यत्र इति ।)नाटकरूपकभेदः इति मेदिनीकरहेमचन्द्रौ
(तल्लक्षणं यथा, साहित्यदर्पणे षष्ठपरिच्छदे ।“ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तितः ।मुखप्रतिमुखे सन्धी तत्र निर्व्वहनं तथा
नरदिव्यावनियमौ नायकप्रतिनायकौ ।ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत्
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ।शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत्
पताका नायका दिव्या मर्त्त्या अपि दशोद्धताः ।युद्धमानीय संरब्धं परं व्याजान्निवर्त्तयेत्
महात्मानो बधप्राप्ता अपि बध्याः स्युरत्र नो ।एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः
दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे”
“मिश्रं ख्याताख्यातम् अन्यः प्रतिनायकः ।पताकानायकास्तु नायकप्रतिनायकयोर्मिलितादश नायको मृगवदलभ्यां नायिकामत्र ईहतेवाञ्छतीति ईहामृगः यथा--कसुमशेखर-विजयादि”
)