ईहामृग (IhAmRga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English ईहामृग IhAmRga kind of drama
ईहामृग IhAmRga wolf
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiईहामृगः
- ईहा-मृगः
भेड़िया
ईहामृगः
- ईहा-मृगः
"नाटक का एक खंड जिसमें ४ अंक होते हैं, "
Shabdartha Kaustubha
Kannadaईहामृग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ತೋಳ /ವೃಕ
व्युत्पत्तिः - > ईहाप्रधानो मृगः
ईहामृग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದಶರೂಪಕಗಳಲ್ಲೊಂದು
विस्तारः - > "ईहामृगस्तु पुंसि स्यात् कोकरूपकभेदयोः ।" - मेदि० ।
L R Vaidya
Englishअभिधानचिन्तामणिः
Sanskritस्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगः समवकारो विथ्यङ्केहामृगा इति ॥ २८४ ॥
अभिनेयप्रकाराः स्युर्भाषाः षट्संस्कृतादिकाः ।
अभिनेयप्रबन्ध (पुं), नाटक (क्ली), प्रकरण (क्ली), भाण (पुं), प्रहसन (क्ली), डिम (पुं), व्यायोग (पुं), समवकार (पुं), वीथी (स्त्री), अङ्क (पुं), ईहामृग (पुं), भाषा (स्त्री), संस्कृत (क्ली), प्राकृत (क्ली), मागधी (स्त्री), शौरसेनी (स्त्री), पैशाची (स्त्री), अपभ्रंश (पुं)
पृथौ गृण्डिबलोपाकौ कोकस्त्वीहामृगो वृकः ।
अरण्यश्वा मर्कटस्तु कपिः कीशः प्लवंगमः ॥ १२९१ ॥
प्लवंगः प्लवगः शाखामृगो हरिर्बलीमुखः ।
वनौका वानरोऽथासौ गोलाङ्गूलोऽसिताननः ॥ १२९२ ॥
गुण्डिव (पुं), लोपाक (पुं), कोक (पुं), ईहामृग (पुं), वृक (पुं), अरण्यश्वन् (पुं), मर्कट (पुं), कपि (पुं), कीश (पुं), प्लवङ्गम (पुं), प्लवङ्ग (पुं), प्लवग (पुं), शाखामृग (पुं), हरि (पुं), बलीमुख (पुं), वनौकस् (पुं), वानर (पुं), गोलाङ्गूल (पुं), असितानन (पुं)
अभिधानरत्नमाला
Sanskritअरण्यश्वन्
अरण्यश्वन्, कोक, ईहामृग, वृक
अरण्यश्वा बुधैर्ज्ञेयः कोक ईहामृगो वृकः ॥ २२८ ॥
verse 2.1.1.228
page 0028
नाममाला
Sanskritकोक, ईहामृग, वृक
वरटा वारली हंसी कोक ईहामृगो वृकः ।
verse 0.1.1.127
page 0064
Mahabharata
English*īhāmṛga, pl. (ºāḥ) (“wolves”). § 113 (Aṃśāvat.): I, 66, 2572 (descendants of Pulaha).
शब्दकल्पद्रुमः
Sanskritईहामृगः, (ईहाप्रधानो मृगो वृकः ।) कुक्कुर-प्रमाणहरिणघ्नकपिलवर्णजन्तुविशेषः । इतिभरतः ॥
घोॱᳪ᳭घ इति ख्यातः । तत्पर्य्यायः । कोकः २ष्टकः ३ । इत्यमरः ॥
(“पुलहस्य सुता राजन् शलभाश्च प्रकीर्त्तिताः ।सिंहाः किम्पुरुषा व्याघ्रा यक्षा इहामृगास्तथा” ॥
इति महाभारते । आदिपर्ब्बणि ॥
) (नायको मृग-वदलभ्यामपि नायिकामीहते वाञ्छत्यत्र इति ।)नाटकरूपकभेदः । इति मेदिनीकरहेमचन्द्रौ ॥
(तल्लक्षणं यथा, साहित्यदर्पणे षष्ठपरिच्छदे ।“ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तितः ।मुखप्रतिमुखे सन्धी तत्र निर्व्वहनं तथा ॥
नरदिव्यावनियमौ नायकप्रतिनायकौ ।ख्यातौ धीरोद्धतावन्यो गूढभावादयुक्तकृत् ॥
दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ।शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ॥
पताका नायका दिव्या मर्त्त्या अपि दशोद्धताः ।युद्धमानीय संरब्धं परं व्याजान्निवर्त्तयेत् ॥
महात्मानो बधप्राप्ता अपि बध्याः स्युरत्र नो ।एकाङ्को देव एवात्र नेतेत्याहुः परे पुनः ॥
दिव्यस्त्रीहेतुकं युद्धं नायकाः षडितीतरे” ॥
“मिश्रं ख्याताख्यातम् । अन्यः प्रतिनायकः ।पताकानायकास्तु नायकप्रतिनायकयोर्मिलितादश । नायको मृगवदलभ्यां नायिकामत्र ईहतेवाञ्छतीति ईहामृगः । यथा--कसुमशेखर-विजयादि” ॥
)
वाचस्पत्यम्
Sanskritईहामृग इहां मृगयते अण् ईहाप्रधानो वा मृगःपशुभेदः । (नेकडावाघ) । १ वृके ईहया ईहासाध्वो मृगः ।२ कृत्रिममृगे अलङ्कारशास्त्रलक्षिते ३ नाटकभेदे च साहि०६ परि० । यथा “ईहामृगो मिश्रवृत्तश्चतुरङ्कः प्रकीर्त्तिलः ।मुखप्रतिमुखे सन्धी तत्र निर्व्वहणं तथा । नरदिव्यावनियमौनायकप्रतिनायकौ । ख्यातौ धीरोद्धतावन्यो गूढभा-वादयुक्तकृत् । दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः ।शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् । पताकानायका दिव्या मर्त्यावापि दशोद्धताः । युद्धमानीय संरम्भं-परं व्याजान्निवर्त्तते । महात्मानो बधंप्राप्ता अपि बध्याःस्युरत्र नो । एकाङ्कोदेव एवात्र नेतेत्याहुः परेपुनः । दिव्य-स्त्रीहेतुकं युद्धं नायकाः षडितीतरे । मिश्राणि ख्याता-ख्यातानि । अन्यः प्रतिनायकः पताकानायकास्तु नायक-प्रतिनायकयोर्मिलिता दश । नायको मृगवदलभ्यांनायिकामत्र ईहते वाञ्छतीतीहामृगः यथा कुसुमशेखर-विजयादि”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
