| YouTube Channel

ईषादन्तः (ISAdantaH)

 
E Bharati Sampat
Sanskrit
(पुं) ईषा इव दीर्घः दन्तः अस्य १.हलः इव दीर्घदन्तयुक्तः गजः। ‘उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम्’ माघः१८.३८। २.दन्तुरः मनुष्यः।
शब्दकल्पद्रुमः
Sanskrit
ईषादन्तः,
पुं,
(ईषेव दन्तो यस्य ।) दीर्घदन्तहस्ती ।तत्पर्य्यायः उदग्रदन्तः इति हेमचन्द्रः
(“ईषादन्तान् हेमकक्षान् पद्मवर्णान् कुथावृतान्”ईषादन्ता महाकायाः सर्व्वे चाष्टकरेणवः”
इति भारते
)