| YouTube Channel

ईषद्दोहनः-दुर्दोहनः-सुदोहनः (ISaddohanaH-durdohanaH-sudohanaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“दुह प्रपूरणे”@} 2 “प्रपूरणम् = पूरणाभावः, उपसर्गोऽत्र धात्वर्थं बाधते प्रस्थानवत्।” इति क्षीरस्वामी।
3 ‘प्रपूरणे दोग्धि दुग्धे, दोहतीत्यर्दने दुहेः।।’ 4 इति देवः।
दोहकः-हिका, दोहकः-हिका, दुधुक्षकः-क्षिका, दोदुहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकदेग्धिवत् 5 ज्ञेयानि।
6 दुह्यम्-दोह्यम्, 7 गोधुक्-प्रधुक्-प्रदुहौ-प्रदुहः, 8 कामदुधा 9 10, 11 दोही, 12 13 दुहानः, 14 15 गोदोहनी, 16 ईषद्दोहनः-दुर्दोहनः-सुदोहनः
17 इत्यादिना तृन्प्रत्यये इडागमे, गुणनिषेधे निपातितः।
दुहिता = स्त्र्यपत्यम्।]] दुहिता, इत्यस्माद्धातोस्तत्तत्प्रत्ययेषु यथासम्भवं रूपाणि भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(८५३)
02
=>
(२-अदादिः-१०१४। सक। अनि। उभ।)
03
=>
[पृष्ठम्०७५९+ ३१]
04
=>
(श्लो। १९३)
05
=>
(८४२)
06
=>
[[१। ‘शंसिदुहिगुहिभ्यो वा’ (काशिका वा। ३-१-१०९) इति क्यप् वा भवति। क्यपि गुणनिषेधे दुह्यम् इति, औत्सर्गिके ण्यति दोह्यम् इति रूपे भवतः।]]
07
=>
[[२। ‘सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्’ (३-२-६१) इत्यनेन क्विपि, ‘दादेर्धातोर्घः’ (८-२-३२) इति घत्वे पदान्तनिमित्तकेषु चर्त्वभष्भाव- जश्त्वादिकेषु रूपम्। ‘उपसर्गेऽपि’ इत्युक्तत्वात् उपसर्गभिन्नेषु सुबन्तेषु उप- पदेष्वपि कर्मभूतेषु क्विप् भवति, तेन गोधुक् इति सिद्धम्।]]
08
=>
[[३। ‘दुहः कब् घश्च’ (३-२-७०) इत्यनेन सुप्युपपदे कप्प्रत्ययः, धात्वन्त्यवर्णस्य घकारादेशश्च विहितः।]]
09
=>
[[आ। ‘आराधय सपत्नीकः प्रीता कामदुघा हि सा।’ रघुवंशे १। ८१।]]
10
=>
[गौः]
11
=>
[[४। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरि- मुहदुषद्विषद्रुहदुह--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये रूपम्।]]
12
=>
[गां पयो]
13
=>
[[५। शानचि, शपोलुकि, रूपमेवम्। ‘दुहियाचि--’ (भाष्यम् १-४-५१) इत्यादिना द्विकर्मकत्वम्।]]
14
=>
[[B। ‘अदन् मधुघ्नो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः।’ धा। का। २। ४४।]]
15
=>
[[६। गावः दुह्यन्तेऽत्रेति अधिकरणे ‘करणाधिकरणयोश्च’ (३-३-११७) इति ल्युट्। गोदोहनी = स्थलविशेषो गोष्ठादिः।]]
16
=>
[[७। ‘अन्येभ्योऽपि दृश्यते’ (३-३-१३०) इति ईषदाद्युपपदेषु खलपवादो युच्प्रत्ययः। क्षीरस्वामिमतेनेदमुक्तम्। अन्ये तु बाहुलकादाहुः।]]
17
=>
[[८। ‘नप्तृनेष्ट्ट--’ [द। उ। २-३]