| YouTube Channel

ईषदयः (ISadayaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“अय गतौ”@} 2 आयकः-यिका, आयकः-यिका, अयियिषकः-षिका
अयिता-त्री, आययिता-त्री, अयियिषिता-त्री
-- आययन्-न्ती, आययिष्यन्-न्ती-ती
प्लायमानः, 3 पलायमानः, अयमानः, आययमानः, अयियिषमाणः
4 अत्, अतौ, अतः
अयितम्-तः-तवान्, आयितम्-तः, अयियिषितम्-तः-तवान्
अयः, आयः, अयियिषुः, आयिययिषुः
अयितव्यम्, आययितव्यम्, अयियिषितव्यम्
अयनीयम्, आयनीयम्, अयियिषणीयम्
आय्यम्, आय्यम्, अयियिष्यम्
ईषदयः, दुरयः, स्वयः
अय्यमानः, आय्यमानः, अयियिष्यमाणः
आयः, आयः, अयियिषः
अयितुम्, आययितुम्, अयियिषितुम्
5 अतिः, आयना, अयियिषा, आयिययिषा
अयनम्, 6 प्लायनम्-दुलयनम्, पलायनम्, आयनम्, अयियिषणम्
शोभनं अन्त 7 रयणं, 8 अन्तरयनः-देशः, अयित्वा, आययित्वा, अयियिषित्वा
समय्य, समाय्य, समयियिष्य
आयम् २, अयित्वा २, आयम् २, आययित्वा २, अयियिषम्
अयियिषित्वा
9
प्रासङ्गिक्यः
01
=>
(३४)
02
=>
(१-भ्वादिः-४७४। सक। से। आ।)
03
=>
[[१। ‘उपसर्गस्यायतौ’ (८-२-१९) इति लत्वम्।]]
04
=>
[[२। वलि लोपे तुक्।]]
05
=>
[[३। वलि लोपः।]]
06
=>
[[१। ‘उपसर्गस्यायतौ’ (८-२-१९) इति लत्वम्।]]
07
=>
[[४। ‘अयनं च’ (८-४-२५) इति णत्वम्।]]
08
=>
(देशादन्यत्र)
09
=>
[पृष्ठम्००३३+ ३४]
1 {@“इण् गतौ”@} 2 ‘अयत्येतीयते गत्याम्, अधीतेऽध्येति चेङिकोः’ 3 इति देवः।
4 आयकः-यिका, 5 गमकः-मिका, 6 प्रत्यायकः-यिका, 7 जिगमिषकः-षिका, 8 प्रतीषिषकः-षिका
एता-त्री, आययिता-त्री, गमयिता-त्री, जिगमिषिता-त्री, प्रतीषिषिता-त्री
9 यन् 10 निर्यन् यती, प्रत्याययन्-न्ती, गमयन्-न्ती, जिगमिषन्-न्ती, प्रतीषिषन्-न्ती
एष्यन्- 11 न्ती-ती, प्रत्याययिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्- न्ती-ती, प्रतीषिषिष्यन्-ती-न्ती
-- प्रत्याययमानः, प्रत्याययिष्यमाणः
-- 12 परीत्-परीतौ-परीतः
-- -- इतं- 13 इतः-इतवान्, 14 उपेतः, प्रत्यायितः, अवगमितः, जिगमिषितः, प्रतीषितः-तवान्
15 अयः, आयः, गमः, 16 इत्वरः, 17 उपेयिवान् 18, ईयिवान् 19, समीयिवान्- 20 उपेयुषी, 21 अत्ययी, 22 अत्यायः, जिगमिषुः, जिगमयिषुः, परीषिषुः
एतव्यम्, 23 उपैतव्यम्, प्रत्याययितव्यम्, गमयितव्यम्, जिगमिषितव्यम्, प्रतीषिषितव्यम्
अयनीयम्, प्रत्यायनीयम्, गमनीयम्, जिगमिषणीयम्, प्रतीषिषणीयम्
24 इत्यम् 25, अनभ्याशमित्यः 26, प्रत्याय्यम्, अवगम्यम्, जिगमिष्यम्, प्रतीषिष्यम्
ईषदयः, -दुरयः-स्वयः, ईषदायः-ईषदवगमः-इत्यादि
-- 27 ईयमानः, प्रत्याय्यमानः, अवगम्यमानः, 28 जिगांस्यमानः, प्रतीष्यमाणः
29 आयः, 30 न्यायः 31, 32 पर्यायः, 33 34 अध्यायः, समयः, 35 अन्वयः, उदयः, न्ययः, व्ययः, 36 अभ्युदयः, न्यायः 37 अवगमः, प्रत्यायः
एतुम्, प्रत्याययितुम्, गमयितुम्, जिगमिषितुम्, प्रतीषिषितुम्
38 इत्या, अपीतिः, 39 समितिः, इतिः, समित् 40, प्रत्यायना, अवगमना, जिगमिषा, जिगमयिषा, प्रतीषिषा, प्रत्याययिषा
अयनम्, 41 अन्तरयणम् 42, अन्तरयनो 43, प्रत्यायनम्, अवगमनम्, जिगमिषणम्, प्रतीषिषणम्
इत्वा, आययित्वा, गमयित्वा, जिगमिषित्वा, ईषिषित्वा
उपेत्य-परीत्य, प्रत्याय्य, 44 अवगमय्य, अवजिगमिष्य, प्रतीषिष्य
45 आयम् २, इत्वा २, प्रत्यायम् २, आययित्वा २, 46 अवगमम् अवगामम् गमयित्वा २, -- -- -- -- जिगमिषम् २, जिगमिषित्वा २, प्रतीषिषम्
ईषिषित्वा
प्रासङ्गिक्यः
01
=>
(६८)
02
=>
(२-अदादिः-१०४५-अनिट्। सक-पर-)
03
=>
(१४ श्लो।)
04
=>
[[१। ‘अचो ञणति’ (७-२-११५) इति वृद्धौ आयादेशः।]]
05
=>
[[२। ‘णौ गमिरबोधने’ (२-४-४६) इति गमादेशः। अमन्तत्वान्मित्त्वेन उपधाह्रस्वः।]]
06
=>
[[३। इणो बोधनार्थकत्वात् ‘अबोधने’ (२-४-४६) इत्युक्त्या गमादेशाभावः।]]
07
=>
[[४। ‘सनि च’ (२-४-४७) इति गमादेशः। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इत्यत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थकतया अत्र सन इड् भवति।]]
08
=>
[[५। ‘सनि च’ (२-४-४७) इत्यत्रापि ‘अबोधने’ इत्यनुवृत्त्या गमादेशाभावे, अजादि- त्वाद् ‘अजादेर्द्वितीयस्य’ (६-१-२) इति द्वितीयस्यैकाचो द्वित्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
09
=>
[[६। ‘इणो यण्’ (६-४-८१) इति यणादेशः।]]
10
=>
[[आ। ‘निर्यत्स्फुलिङ्गाकुलधूमराशिं किं ब्रूहि भूमौ पिनषाम भानुम्। आदन्तनिष्पी- डितपीतमिन्दुं ष्ठीवाम शुष्केक्षुलताऽस्थिकल्पम्’।। भ। का। १२-१८।]]
11
=>
[[७। ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुमागमस्य वैकल्पिकत्वात् रूपद्वयम्।]]
12
=>
[[८। ‘षत्वतुकोरसिद्धः’ (६-१-८६) इत्यनेन एकादेशशास्त्रस्यासिद्धत्वात् तुक्।]]
13
=>
[[B। ‘अहृत धनेश्वरस्य युधि यः समेतमायो धनं तमहमितो विलोक्य बिबुधैः कृतोत्त- मायोधनम्।’ भ। का। १०-३६।]]
14
=>
[[९। + इतः एतः, उप × एत = इति स्थिते ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिं बाधित्वा, ‘ओमाङोश्च’ (६-१-९५) इति पररूपम्।]]
15
=>
[पृष्ठम्००६९+ २४]
16
=>
[[१। ‘इण्नशिजिसर्तिभ्यः--’ (३-२-१६३) इति तच्छीलादिषु क्वरप्। तुक्।]]
17
=>
[[आ। ‘रावणः शुश्रुवान् शत्रून् राक्षसानभ्युपेयुषः। स्वयं युयुत्सयांचक्रे प्राकाराग्रे निषेदिवान्।।’ भ। का। १४-२२।]]
18
=>
[[२। ‘उपेयिवाननाश्वान्--’ (३-२-१०९) इति क्वसुप्रत्ययान्तो निपातितः। ‘उप’ इत्यस्याविवक्षितत्वात्-समीयिवान्-ईयिवान्-इत्याद्यपि सिद्ध्यति। ‘दीर्घ इणः किति’ (७-४-६९) इति दीर्घः।]]
19
=>
[[B। ‘निवृत्ते भरते धीमान् अत्रे रामस्तपोवनम्। प्रपेदे पूजितस्तस्मिन् दण्डकारण्य- मीयिवान्।।’ भ। का। ४-१।]]
20
=>
[[३। ‘उगितश्च’ (४-१-६) इति ङीप्। ‘वसोः सम्प्रसारणम्’ (६-४-१३१) इति सम्प्रसारणम्।]]
21
=>
[[४। ‘जिदृक्षिविश्रीण्--’ (३-२-१५७) इत्यनेन तच्छीलादिषु इनिः।]]
22
=>
[[५। ‘श्याद्व्यधाश्रुसंस्रतीण्--’ (३-१-१४१) इति ‘अति’ इत्युपसृष्टादस्मात् कर्तरि णः प्रत्ययः।]]
23
=>
[[६। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धिः।]]
24
=>
[[C। ‘आदृत्यस्तेन वृत्येन स्तुत्यो जुष्येण सङ्गतः। इत्यः शिष्येण गुरुवत् गृध्यमर्थमवा- प्स्यसि’ भ। का। ६-५५।]]
25
=>
[[७। ‘एतिस्तुशास्--’ (३-१-१०९) इति क्यपि तुक्।]]
26
=>
[[८। ‘इत्येऽनभ्याशस्य’ (वा-६-३-७०) इति पूर्वपदस्य मुम्।]]
27
=>
[[९। ‘अकृत्सार्वधातुकयो--’ (७-४-२५) रिति दीर्घः।]]
28
=>
[[१०। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। आत्मनेपदपरकत्वात् सनो नेट्।]]
29
=>
[पृष्ठम्००७०+ ३०]
30
=>
[[आ। ‘नरकस्यावतारोऽयं प्रत्यक्षोऽस्माकमागतः। अचेष्टा यदिहान्यायात् अनेनात्स्या- महे वयम्।।’ भ। का। ७-८२।]]
31
=>
[[१। संज्ञायाम् ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। न्याय इति शास्त्रस्य संज्ञा। न्येति--निश्चिनोति इति शास्त्रयुक्त्यादिरत्र न्यायः। अभ्रेषः।]]
32
=>
[[२। ‘परावनुपात्यय इणः’ (३-३-३८) इति अजपवादो घञ्। क्रमस्यानतिक्रमोऽनुपा- त्ययः।]]
33
=>
[[B। ‘न्याय्यं यद्यत्र तत् कार्यं पर्यायेणाविरोधिभिः। निशोपशायः कर्तव्यः फलो- च्चायश्च संहतैः।।’ भ। का। ७-४१।]]
34
=>
[[३। ‘अध्यायन्याय--’ (३-३-१२२) इत्यादिना घापवादो घञ् निपातितः। संज्ञायाम्]]
35
=>
[[४। ‘एरच्’ (३-३-५६) इति भावेऽच्। एवं ‘अभ्युदय’ इति यावदच् प्रत्ययः।]]
36
=>
[[C। ‘निराकरिष्णुर्द्विजकुञ्जराणां तृणीकृताशेषगुणोऽतिमोहात्। पापाशयान् अभ्युदया- र्थमार्च्छीत् प्राग्ब्रह्मरक्षःप्रवरान् दशास्यः।।’ भ। का। ११-४४।]]
37
=>
[[५। ‘परिन्योर्नीणोर्द्यूताभ्रेषयोः’ (३-३-३७) इति घञ्। अभ्रेषोऽस्खलनम्। न्याये स्थितः।]]
38
=>
[[६। ‘संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः’ (३-३-९९) इति स्त्रियां भावे क्यप्।]]
39
=>
[[७। बाहुलकात् क्तिन्नपि--इत्यात्रेयः। समितिः = सभा।]]
40
=>
[[८। ‘संपदादित्वात्--’ (३-३-९४) स्त्रियां भावादौ क्विप्। समित् = युद्धः।]]
41
=>
[[९। ‘अयनं च’ (८-४-२५) इत्यदेशे णत्वम्। देशविशेषे तु न--अन्तरयनो देशः। ‘अन्तश्शब्दस्याङ्किविधिणत्वेषु उपसर्गत्वं वक्तव्यम्’ (वा। १-४-५८) इति वचनात् उपसर्गत्वम्। ‘कृत्यच’ (८-४-२९) इत्यनेनैव सिद्धे, देशे णत्वाभावाय ‘अयनं च’ (८-४-२५) इति सूत्रारम्भः।]]
42
=>
(वर्तते)
43
=>
(देशः)
44
=>
[[१०। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
45
=>
[पृष्ठम्००७१+ २६]
46
=>
[[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुलि दीर्घविकल्पः।]]
1 {@“ई 2 गतिव्याप्तिप्रजनकान्त्यसनखादनेषु”@} 3 ‘अयत्येतीयते गत्यां, अधीतेऽध्येति चेङिकोः।’ 4 इति देवः।
प्रजनम् = गर्भग्रहणम्।
‘वी गति--’ 5 इति धातौ प्रश्लिष्टोऽयं धातुः।
आयकः-यिका, आयकः-यिका, 6 ईषिषकः-षिका
एता-त्री, आययिता-त्री, ईषिषिता-त्री
7 इयन् 8 -ती, आययन्-न्ती, ईषिषन्-न्ती
9 एष्यन्-न्ती-ती, आययिष्यन्-न्ती-ती, ईषिषिष्यन्-न्ती-ती
-- आययमानः, आययिष्यमाणः
ईः--इयौ-इयः
-- -- 10 ईतः-तम्-तवान्, आयितम्-तः, ईषिषितः-तवान्
अयः, आयः, ईषिषिषुः, आयिययिषुः
एतव्यम्, आययितव्यम्, ईषिषितव्यम्
अयनीयम्, आयनीयम्, ईषिषणीयम्
एयम्, उपेयम् 11, आय्यम्, ईषिष्यम्
ईषदयः, दुरयः, स्वयः
-- -- ईयमानः, आय्यमानः, ईषिष्यमाणः
अयः, आयः, ईषिषः
एतुम्, आययितुम्, ईषिषितुम्
ईतिः, आयना, ईषिषिषा
आयिययिषा
अयनम्, आयनम्, ईषिषणम्
ईत्वा, आययित्वा, ईषिषित्वा
समीय-प्रतीय, 12 समाय्य, समीषिष्य
आयम् २, ईत्वा २, आयम् २, आययित्वा २, ईषिषम्
ईषिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७७)
02
=>
(वी)
03
=>
(२-अदादिः-१०४८-स। अनि। पर।)
04
=>
(श्लो १४)
05
=>
(ईई-१०४८। सक। अनि। पर।)
06
=>
[[५। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (भाष्यम्) इति न्यायात् ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
07
=>
[[६। ‘अचि श्नुधातु--’ (६-४-७७) इतीयङ्।]]
08
=>
[[B। ‘इयञ्जनं राजपथं समायात् वाताकुलोद्भातपताकमीशः।।’ धा। का। २-४८।]]
09
=>
[पृष्ठम्००७९+ २७]
10
=>
[[आ। ‘इदं वचोऽनुच्चरमाण ईते तस्मिन् स्वमादाय शिशुं निकाय्यम्।’ वासुदेवविजये --२-२०। ईते इति क्तान्तात् सप्तमी।]]
11
=>
[[B। ‘ई गताविति धातोर्यत्, तस्मादेयमिति स्थिते। ‘एङी’ ति पररूपे स्यादुपेय- मिति त्विणः।।’ इति प्रक्रियासर्वस्वे (पु। ८०)।]]
12
=>
[[C। ‘प्रतीय सा पूर्ददृशे जनेन द्यौर्भानुशीतांशुविनाकृतेव। राजन्यनक्षत्रसमन्विताऽपि शोकान्धकारक्षतसर्वचेष्टा।।’ भ। का। ३-१९।]]