| YouTube Channel

ईश्वरसाक्षिन् (IzvarasAkSin)

 
वाचस्पत्यम्
Sanskrit
ईश्वरसाक्षिन्
पु०
ईश्चर एव साक्षी वेदान्तिमतसिद्धे मायोपहिते चैतन्ये वेदान्तपरिभाषायां दर्शितो यथा“ईश्वरसाक्षी तु मायीपहितं चैतन्यं तच्चैकं तदुपाधिभूत-मायाया एकत्वात् “इन्द्रोमायाभिः पुरुरूपईयत” इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागतशक्तिविशेषाभि-प्रायतया मायागतसत्वरजस्तमोरूपगुणाभिप्रायतया चो-पपत्तिः “मायान्तु प्रकृतिं विद्यान्मायिनन्तु महेश्वरम् ।तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते योगो माया-ममेयाय तस्मै विद्यात्मने नमः” “अजामेकां लोहित-शुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः अजोह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”इत्यादिश्रुतिषु एकवचनेन लाघवानुगृहीतेन मायायाएकत्वं निश्चीयते ततश्च तदुपहितं चैत्यन्यमीश्वरसाक्षीतच्चानादि तदुपाधेर्मायाया अनादित्वात् मायावच्छिन्नंचैतन्यञ्च परमेश्वरः मायायाविशेषणत्वे ईश्वरत्वं उपा-धित्वे साक्षित्वम् इतीश्वरत्वसाक्षित्वयोर्भेदः तु धर्म्मिणोरीश्वरतत्साक्षिणोः परमेश्वर एकोऽपि स्वोपाधी-भूतमायानिष्ठसत्वरजस्तमोगुणभेदेन ब्रह्मविष्णुमहेश्वरादि-शब्दवाच्यतां मजते नन्वोश्वरानादित्वे “तदेक्षत बहु स्यांप्रजायेय इत्यादौ सृष्टिपूर्व्वसमये परमेश्वरस्यागन्तुकमीक्ष-णमुच्यमानं कथमुपपद्यते? उच्यते यथा विषयेन्द्रिय-सन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदाजायन्ते तथा सृज्यमानप्राणिकर्म्मवशेन परमेश्वरोपाधीमू-तमायया वृत्तिविशेषाः इदमिदानीं स्रष्टव्यमिदमिदानींपालयितव्यमिदमिदानीं संहर्त्तव्यमित्याकारावृत्तिभेदाजायन्तेतासाञ्च वृत्तीनां तत्प्रतिविम्बितन्यस्य सादित्वमिति”