ईश्वरः (IzvaraH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiसुप्रीम भगवान
Apte Hindi
Hindiईश्वरः
- -
"मालिक, स्वामी"
ईश्वरः
- -
"राजा, राजकुमार, शासक"
ईश्वरः
- -
धनाढ्य या बड़ा आदमी
ईश्वरः
- -
पति
ईश्वरः
- -
परमेश्वर
ईश्वरः
- -
शिव
ईश्वरः
- -
कामदेव
E Bharati Sampat
Sanskrit(पुं) इष्टे । ईश(ऎश्वर्ये)+वरच् । ‘स्येशभासपिसकसो वरच्’ ३.२.१७५। १.शिवः। ‘ईश्वरोऽपि दिवसात्पयोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम्’ कुमार०८.५०। २.परमात्मा । ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ गीता १८.६१। ‘सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः’ वि०स०। ३.मन्मथः, कामदेवः। ४.राजा । ‘ऎश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते’ मुद्रा०१.१४। ५.प्रभवादिसंवत्सरेषु अन्यतमः। ६.जीवः। ७.पतिः, भर्ता । (वि) ८.धनिकः। ९.स्वामी । ‘ईश्वरो मन्मथे शम्भौ नाढये स्वामिनि वाच्यवत्’ मेदिनी०। (स्त्री) ईश्वरा । १०.गौरी । ‘विन्यस्तमङ्गलमहौषधिरीश्वरायाः’ किरा०५.३३। १२.लक्ष्मीः। ईश्वरी । ११.धनिकस्य पत्नी । १२.दुर्गादेवी । ‘ईश्वरी चे श्वरोपमायाम्’ मेदिनी०।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit पतिः, भर्ता, स्वामी, आर्यपुत्रः, कान्तः, प्राणनाथः, रमणः, वरः, गृही, गुरुः, हृदयेशः, जामाता, सुखोत्सवः, नर्मकीलः, रतगुरुः, धवः, परिणेता, ईश्वरः, ईशिता, अधिपतिः, नेता, परिवृढः
स्त्रियः पाणिग्रहीता।
"अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।"
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
ईश्वरः, परमेश्वरः, परेश्वरः, परमात्मा, देवः, अमरः, विबुधः, अनिमिषः, अजरः, चिरायुः, सुचिरायुः, भगवान्, सर्वस्रष्टा, धाता, विधाता, जगत्कर्ता, विश्वसृक्, भूतादिः, परब्रह्म, ब्रह्म, जगदात्मा, हम्, स्कम्भः, सूक्ष्मः, सर्वेशः, सर्वसाक्षी, सर्वविद्, श्वःश्रेयसम्, शब्दातीतः
धर्मग्रन्थैः अखिलसृष्टेः निर्मातृरूपेण स्वामिरूपेण वा स्वीकृता महासत्ता।
"ईश्वरः सर्वव्यापी अस्ति।"
ईश्वरः
एकः राजपुत्रः ।
"ईश्वरस्य वर्णनम् पुराणे वर्तते"
ईश्वरः
नैके क्षुपाः ।
"ईश्वरः इति नाम्ना नैके क्षुपाः सन्ति"
ईश्वरः
एकः राजपुत्रः ।
"ईश्वरस्य उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskritईश्वरः, (ईष्टे इति । ईश् + वरच् । यद्वा, अश्नुतेव्याप्नोतीति अशधातोर्वरट् उपधाया ईत्वं च ।)शिवः । (यथा, कुमारे । ७ । ३१ ।“तद्गौरवान्मङ्गलमण्डनश्रीःसा पस्पृशे केवलमीश्वरेण” ।“अथेश्वरं देवगणः सह सप्तर्षिभिर्विभुम्” ॥
“वाग्भिः स्थितः स्तुवन् यावच्छिवे भावे शिवः स्थितः ।शिवं शिवाय भूतानां स्थितं ज्ञात्वा कृताञ्जलिः ॥
क्रोधाग्निरुक्तवान् देवमहं किं करवाणि ते” ।“तमुवाचेश्वरः क्रोधं ज्वरो लोके भविष्यसि” ॥
इति चरके चिकित्सास्थाने तृतीयाध्यायः ॥
“ततः सृष्ट्वा प्रजाः शेषं तदा तं क्रोधमीश्वरः ।विन्यस्तवान् स भूतेषु स्थावरेषु चरेषु च” ॥
इति सुश्रुते कल्पस्थाने तृतीयाध्यायः ॥
)कन्दर्पः । इति मेदिनी ॥
“विशुद्धसत्त्वप्रधानाज्ञानोपहितचैतन्यम्” ।इति वेदान्तः ॥
न्यायमते ईश्वरगुणाः । संख्यादि-पञ्च बुद्धिः इच्छा यत्नश्च । ईश्वरस्वरूपं ब्रह्मशब्देद्रष्टव्यम् ॥
ऐश्वर्य्यशाली । तत्पर्य्यायः । राष्ट्री १अर्य्यः २ नियुत्वान् ३ इनैनः ४ । इति वेदनि-र्घण्टौ २ अध्यायः ॥
श्रीहरिः । यथा ।रुद्रौवाच ।“हरे कथय देवेश देवदेवक ईश्वर ।को ध्येयः कश्च वै पूज्यः कैर्व्रतैस्तुष्यते परः” ॥
इत्यादि । श्रीहरिरुवाच ।“शृणु रुद्र प्रवक्ष्यामि ब्रह्मणा च सुरैः सह ।अहं हि देवो देवानां सर्व्वलोकेश्वरेश्वरः ॥
अहं ध्येयश्च पूज्यश्च स्तुतोऽहं स्तुतिभिः सुरैः ।अहं प्रपूजितो रुद्र ददामि परमां गतिम्” ॥
इत्यादि च गारुडे २ अध्यायः ॥
(स्वनामख्यातो नृपतिभेदः । यथा, महाभारते ।“मतिमांश्च मनुष्येन्द्रः ईश्वरश्चेति विश्रुतः” ।)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
