| YouTube Channel

ईशसख (Izasakha)

 
Apte Hindi
Hindi
ईशसखः
पुं*
ईश-सखः -
कुबेर का विशेषण
L R Vaidya
English
ISa-saKa {% m. %} a name of Kubeia.
अभिधानचिन्तामणिः
Sanskrit
--source--
श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिर ऐलबिलैकपिङ्गाः
पौलस्त्यवैश्रवणरत्नकराः कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च १८९
कैलासौका यक्षधननिधिकिंपुरुषेश्वराः
-wordlist-
श्रीद (पुं), सितोदर (पुं), कुह (पुं), ईशसख (पुं), पिशाचकिन् (पुं), इच्छावसु (पुं), त्रिशिरस् (पुं), ऐलविल (पुं), एकपिङ्ग (पुं), पौलस्त्य (पुं), वैश्रवण (पुं), रत्नकर (पुं), कुबेर (पुं), यक्ष (पुं), नृधर्मन् (पुं), धनद (पुं), नरवाहन (पुं), कैलासौकस् (पुं), यक्षेश्वर (पुं), धनेश्वर (पुं), निधीश्वर (पुं), किम्पुरुषेश्वर (पुं)
शब्दकल्पद्रुमः
Sanskrit
ईशसखः,
पुं,
(ईशस्य सखा बन्धुः राजाहःसखिभ्यःटच् ।) कुवेरः इति हेमचन्द्रः
वाचस्पत्यम्
Sanskrit
ईशसख
पु०
त० टच्समा० कुवेरे बहु० मटच् ईशसखा इत्येव ईशमित्रादयोऽप्यत्र ईशेनयथा ऽस्यसख्यं तथा भारते वर्णितं यथा “पिता-मही रावणस्य साक्षाद्देवः प्रजापतिः स्वयम्भुः सर्व-लोकानां प्रभुः स्रष्टा महातपाः पुलस्त्यो नाम तस्या-सीन्मानसोदयितः सुतः तस्य वैश्रवणी नाम गवि पुत्रो-ऽभवत् प्रभुः पितरं समुत्सृज्य पितामहमुपस्थितः ।तस्य कोपात् पिता राजन्! ससर्ज्जात्मानमात्मना सजज्ञे विश्रवा नाम तस्यात्मार्द्धेन वै द्विजः प्रतीकाराय स-क्रोधस्ततो वैश्रवणस्य वै पितामहस्तु प्रीतात्मा ददौ वै-श्रवणस्य अमरत्वं धनेशत्वं लोकपालत्वमेव ।ईशानेन तथा सख्यं पुत्रञ्च नलकूवरम् राजधानीं नि-वेशञ्च लङ्कां रक्षोगणान्विताम् विमानं पुष्पकं नामकामगञ्च ददो प्रभुः यक्षाणामाधिपत्यञ्च राजराजत्वमेवच” भा० व० २७३ अ०