| YouTube Channel

ईर (Ira)

 
शब्दसागरः
English
ईर r. 2nd cl. (ईर्त्ते)
1. To go.
2. To shake. r. 1st and 10th cls. (ईरति,
ईरयति)
1. To go.
2. To throw or direct, to drive or force on
with
उत् prefixed, to say or speak
with प्र, to send, to make to go
with सम्, to go like the wind.
Capeller Eng
English
ईर
m.
wind.
Wilson
English
ईर r. 2nd cl. (ईर्त्ते)
1 To go.
2 To shake. r. 1st and 10th cls. (ईरति, ईरयति)
1 To go.
2 To throw or direct, to drive or force on
with उत् prefixed, to say or
speak: with प्र, to send, to make to go
with सम्, to go like the wind.
Apte
English
ईरः [īrḥ], Wind. -जः, पुत्रः
N.
of Hanūmat.
Monier Williams Cologne
English
ईर
m.
wind.
ईर
mfn.
driving, chasing,
Nalac.
Monier Williams 1872
English
ईर, अस्, m. the wind.
—ईर-ज or ईर-पुत्र, अस्,
m. ‘son of the wind, Hanu-mat.
Macdonell
English
ईर īr-a,
m.
wind
-aṇa,
m.
id.
n.
pressure.
Apte Hindi
Hindi
ईरः
पुं*
- ईर्+ अच्
"वायु, हवा"
Shabdartha Kaustubha
Kannada
ईर - क्षेपे (वा चुरा० उभ० सक० से०) ईरयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಎಸೆ /ಬಿಸಾಡು
ईर - क्षेपे (वा चुरा० उभ० सक० से०) ईरयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಚೋದಿಸು /ಪ್ರೇರಿಸು
ईर
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಎಸೆಯುವ /ಎರಚುವ
ईर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೋಗುವ
ईर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಚಲಿಸುವ /ಅಲುಗಾಡುವ
निष्पत्तिः - > ईर (गतौ कम्पने क्षेपे च) - "अच्" (३-१-१३४)
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ईर्
मूलधातुः:
ईर
धात्वर्थः:
गतौ-कम्पने
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ईर्ते
धातुः:
ईर्
मूलधातुः:
ईर
धात्वर्थः:
क्षेपे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ईरयति-ते
धातुप्रदीपः
Sanskrit
ईरँ ईर गतौ, कम्पने
- ईर्ते ईराते ईरते ईराञ्चक्रे ईर्त्तेः केचिदामभावमिच्छन्ति ईरे (5) ईरयति समीरितम् समीरणः ।निम्नमीर्त्त इति नीरम् इगुपध (3/1/135) कः स्वैरम् स्वैरी ।। 8 ।।
ईरँ ईर क्षेपे
- ईरयति ईरति अन्यत्र ईर्त्ते 255
Schmidt Nachtrage zum Sanskrit Worterbuch
German
ईर Adj. treibend, jagend, Damayantīk. 201. [H 11, 45.]
ईर m. ° = रिपूणां क्षेप, H 43, 289.
शब्दकल्पद्रुमः
Sanskrit
ईर, कि गतौ प्रेरणे इति कविकल्पद्रुमः (वा, चुरां-परं -सकं -सेट् ।) नुदि कि ईरयति ईरति ।नुदि प्रेरणे इति दुर्गादासः
ईर, ल, कम्पे गतौ इति कविकल्पद्रुमः
(अदां-आत्मं -सकं कम्पार्थे, अकं -सेट् ।) दीर्घादिः ।ङ ईर्त्ते लता वायुना इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ईर गतौ प्रेरणे चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।ईरयति ते--ईरति ऐरिरत्--त--ऐरीत् ईरयाम्--ईराम्वा बभूव आस चकार ईरयिता ईरिता ईरयिष्यति-ईरिष्पति ईरणम् ईरितः इरयन्--इरन् ईरः ईर्य्य-माणः “आपः समुद्रमैरयन्” ऋ० ८, ६, १३ “अंशो-रूर्म्मिमीरय” ऋ० ९, ७९, १४ “यदस्य शुष्ममैरयन्”ऋ० २, १७, “ऐरिरच्च महाक्रमम्” भट्टिः कथने ।“अथ वाचमीरयति” शत० ब्रा० “ब्रह्मा रथन्तरं सामईरयति भवान्तिके भा० आनु० १४ अ० विरोध-वाक्यञ्च यथेर्य्यमाणम्” भा० व० १३३ अ० “दमयन्त्यायथेरितम्” भा० व० २७४३ “हितं गृह्णन्ति सुहृद्भि-रीरितम्” रामा० “इतीरिता पत्ररथेन तेन”इतीरयित्वा विरचय्य वाङ्मयम्” नैष० ।उद् उत्क्षेपणे “उदीरयामासुःसलीलमक्षान्” रघुः ।उच्चारणे कथने “यदशोकोऽऽयमुदीरिष्यति” रघुः ।“उदीरयामासुरिवोन्मदानाम्” रघुः ।अभि + उद् + आभिमुख्येनोच्चारिते “आस्तीकस्तिष्ठस्तिष्ठेतिवाचस्तिस्रोऽभ्युदैरयन्” मा० अ० २१७१ ।सम् + उद् + सम्यगुच्चारे समुत्तीलिते पांशवोऽपि कुम-क्षेत्रे वायुना समुदीरिताः” भा० व० ५०७० ।प्र + प्रेरणे प्रेरयति “समीरणः प्रेरयिता भवेति” कुमा० ।“अपः प्रेरय सागरस्य बुध्नात्” अ० १०, ८९, “किमुद्दिश्यकाश्यपेन मत्सकाशमृषयः प्रेरिताः स्युः” शकु० “या-त्रायै प्रेरयामास तं शक्तेः प्रथमं शरत्” रघुः ।सम् + सम्यक्प्रेरणे समुगुच्चारणे सम्यग्गतौ “समीरणः ।“समीरयाञ्चकाराथ राक्षसस्य कपिः शिलाम्” भट्टिः ।“ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः” भा०व० १२१८ अ०
ईर अदा० आत्म०
सक०
सेट् ईर्त्तेईराते ईरते ऐवत ऐरिष्टईराम् बभूव आस--चक्रे ईरिष्यति “द्रप्सा मधुमन्त ईरते”ऋ० ५, ६३, १४ “रुशदीर्त्ते पयो गोः” ऋ० ९, ९१, “अस्मे राजास ईरताम्” ऋ० ४, ८, ।वायुप्रच्युतादिवोवृष्टिरीर्त्ते” तैत्ति० अस्मात् निष्ठायानेट् “न हि राज्ञानुदीर्ण्णानाम्” भा० आ० ५१३८श्लो० “उदीर्ण्णरागप्रतिरोधकम् मुहुःः” माघः ।अस्यैव पक्षे चुरादित्वं तेन तस्य भ्वादित्वमित्येके
क्षीरतरङ्गिणी
Sanskrit
ईरँ ईर गतौ
- इतः पृचिपर्यन्ता (221) द्वादश सेट अत्मनेपदिनश्च ईर्ते ईरिता चुरादौ ईर क्षेपे (102 5) ईरयति कम्पने इत्येके 8
ईरँ ईर क्षेपे
- (अर्थविवरणम्) क्षेपः प्रेरणम्
ईरयति, ईरति अदादौ (211) ईर्ते 257
धातुवृत्तिः
Sanskrit
ईरँ ईर (अर्थः) गतौ, कम्पने
इतः पृचिपर्यन्ता उदात्ता अनुदात्तेतः (ईर्ते, ईराते, ईरते, ईर्षे ईराथे ईरे, ईरांचक्रे ) "इजादेश्च गुरुमत'' इत्याम् अत्र के चित् "इन्धिभवतिभ्यां च'' इति इन्धेः परस्य लिटः कित्त्वविधानाज्ज्ञापकादामः पाक्षिकत्वं ज्ञापयन्तो "रथचरणादिभिरीरिरे नु वीरा' इति प्रयोगं समर्थयन्ते, "समीधे दस्यु हन्तमम्' इत्यादौ मन्त्रे तदामो निषेधे श्रूयमाणस्य लिटः कित्त्वार्थं सूत्रं स्यात्, यस्मादत्र "छन्दस्युभयथा'' इति सार्वधातुकत्वात् "सार्वधातुकमपित्'' इति ङित्त्वादेव कित्कार्यमनिदितामित्युपधालोपः सिद्ध्यति, तस्माज् ज्ञापकमेवेति सत्यमेवं शक्यते कल्पयितुं भाष्यकारवार्त्तिककारयोस्तु नेष्टं, यत्सूत्रमेवैतत्प्रत्याचख्यतुः इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनार्थक्यमिति ( ईरिता ईरितासे ईरिताहे ईरिष्यते ईरिष्यसे ईरिषे ईर्त्तामीर्ष्व ईर्ध्वम् ईरैः ऐर्त ऐराताम् ऐरत ऐर्थः ऐरि, ऐर्वहि ईरीत ईरीयाताम् ईरीथाः ईरीय आशिषि ईरिषीष्ट ईरिषीष्ठाः ईरिषीध्वम् ईरिषीड्ढ्वं ) "विभाषेटः' ऐरिष्ट ऐरिषाताम् ऐरिष्ठाः ऐरिध्वम् ऐरिढ्वम्, ) "धि च'' इति सलोपे "विभाषेटः, '' ( ऐरिषि ऐरिष्वहि ) कर्म्मणि ( ईर्यत ) इत्यादि ( ईरिरिषते, ईरयति, मा भवानीरिरत्, समीरणः) "अनुदात्तेत'' इति युच्, ण्यन्तान्नन्द्यादित्वेन ल्युरित्यात्रेयः, निम्नमीर्तइति ( नीरं, ) निःशब्दोऽयं वृत्तिविषये निम्नवचनः, तस्मिन्नुपपदे "कर्मण्यण्'' इत्यण्, इगुपधलक्षणः इत्यात्रेयः, अकारादनुपपदात् कर्म्मोपपदो विप्रतिषेधेनेत्युक्तत्वात्तच्चित्यं, स्वेनाभिप्रायेणेरितुं शीलमस्येति स्वैरी, ताच्छील्ये णिनिः, ईरणमीरः, स्वेनाभिप्रा येणेरोऽस्मिन्निति स्वैरं, स्वभावादयं क्रियाविशेषणं, नपुंसकलिङ्गश्च, उभयत्र [स्वादीरेरिणोर्वृद्धिर्वक्तव्या'] इति वृद्धिः, (ईर्म्मं) बाहुलकान्मः, दक्षिणमीर्ममस्य (दक्षिणेर्मा) मृगः, व्याधेन दक्षिणे पार्श्वे वृणित इत्यर्थः, ईर्मशब्दो वृत्तौ धर्म्मिणि वर्त्तते "दक्षिणेर्मा लुब्धयोगे'' इत्यनिजन्तो बहुव्रीहौ निपात्यते, अन्यत्र लुब्धयोगाद्दक्षिणेर्म्मं शकटमिति भवति ईर क्षेपेइत्याधृषीयः 8
ईरँ ईर (अर्थः) क्षेपे
(ईरयति ईरति)लुकीर्ते गतिकम्पनयोः 270
कृदन्तरूपमाला
Sanskrit
1 {@“ईर गतौ कम्पने च”@} 2 ‘--ईरयतीरति।
ईरेः क्षेपे विभाषा णौ लुकीर्ते गतिकम्पयोः।।’ 3 इति देवः।
ईरकः-रिका, ईरकः-रिका, ईरिरिषकः-षिका
ईरिता-त्री, ईरयिता-त्री, ईरिरिषिता-त्री
-- 4 ईरयन्-न्ती, ईरयिष्यन्-न्ती-ती
ईराणः, 5 ईरयमाणः, ईरिरिषमाणः
ईरिष्यमाणः, 6 ईरयिष्यमाणः, ईरिरिषिष्यमाणः
ईः-ईरौ-ईरः
-- -- ईरितः-तम्-तवान्, ईरितः-तं, ईरिरिषितः-तवान्
7 ईरः, समीरः, 8 नीरः, ईरः, ईरिरिषुः, ईरिरयिषुः, 9 स्वैरी, 10 समीरणः
ईरितव्यम्, ईरयितव्यम्, ईरिरिषितव्यम्
ईरणीयम्, ईरणीयम्, ईरिरिषणीयम्
ईर्यम्, ईर्यम्, ईरिरिष्यम्, ईषदीरः-दुरीरः-स्वीरः
-- -- 11 ईर्यमाणः, प्रेर्यमाणः, ईर्यमाणः, ईरिरिष्यमाणः
12 ईरः, 13 स्वैरम्, ईरः, ईरिरिषः
ईरितुम्, ईरयितुम्, ईरिरिषितुम्
ईरा, ईरणा, ईरिरिषा
ईरिरयिषा
ईरणम्, ईरणम्, ईरिरिषणम्
ईरित्वा, ईरयित्वा, ईरिरिषित्वा
प्रेर्य, समीर्य, समीरिरिष्य
ईरम् २, ईरित्वा २, ईरम् २, ईरयित्वा २, ईरिरिषम्
ईरिरिषित्वा २।
प्रासङ्गिक्यः
01
=>
(८३)
02
=>
(२-अदादिः-१०१८-अक। सक। सेट्। आत्म।)
03
=>
(श्लो-१५३)
04
=>
[[१। ‘निगरणचलनार्थेभ्यश्च’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव।]]
05
=>
[[२। गत्यर्थकत्वे तु ण्यन्तात् आत्मनेपदमपि भवति।]]
06
=>
[[२। गत्यर्थकत्वे तु ण्यन्तात् आत्मनेपदमपि भवति।]]
07
=>
[[३। ‘इगुपधज्ञाप्रीकिरः कः’ (३-१-१३५) इति कर्तरि कः। वायुः।]]
08
=>
[[४। ‘निम्नम् ईर्ते = गच्छतीति नीरम् = जलम्। वृत्तिविषये निश्शब्दः निम्नार्थकः, इति माधवीयधातुवृत्तौ। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
09
=>
[[५। स्वेन ईरितुं शीलमस्येति ताच्छील्ये ‘सुप्यजातौ--’ (३-२-७८) इति णिनिः।]]
10
=>
[[६। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति युच् तच्छीलादिषु। वायुः। अथवा, ण्यन्तात् नन्द्यादित्वात् कर्तरि ल्युः।]]
11
=>
[[आ। ‘चिकीर्षिते पूर्वतरं तस्मिन् क्षेमंकरेऽर्थे मुहुरीर्यमाणः। मात्राऽतिमात्रं शुभयैव बुद्धयः चिरं सुधीरभ्यधिकं समाधात्।।’ भ। का। १२-६।]]
12
=>
[पृष्ठम्००८५+ २७]
13
=>
[[१। ईरणम् = ईरः। स्वेनाभिप्रायेणेरोऽस्मिन्--इति स्वैरम्। घञ्। स्वभावान्न- पुंसकलिङ्गत्वम्।]]
1 {@“ईर क्षेपे”@} 2 ‘ईरयतीरति।
ईरेः क्षेपे विभाषा णौ लुकीर्ते गतिकम्पयोः।’ 3 इति देवः।
‘आधृषाद्वा’ 4 इति णिचो वैकल्पिकत्वम्।
ण्यन्तात् शुद्धाच्च धातोः पूर्वोक्तेरतिवत् 5 रूपाणि सर्वाणि ज्ञेयानि।
णिजभावपक्षे ‘शेषात् कर्तरि परस्मैपदम्’ 6 इति शास्त्रात् शतरि ईरन्-न्ती ईरिष्यन्-न्ती-ती इति रूपाणि--इति विशेषः।
ण्यन्तात् सनि तु-- ईरिरयिषकः-षिका, ईरिरयिष्यम्
ईरिरयिषिता-त्री, ईषदीरिरयिषः
ईरिरयिषन्-न्ती, ईररियिष्यमाणः
ईरिरयिषिष्यन्-न्ती-ती, ईरिरयिषितुम्
ईरिरयिषमाणः, ईरिरयिषा
ईरिरयिषिष्यमाणः, ईरिरयिषणम्
ईरिरयिषितः-तवान्, ईरिरयिषित्वा
ईरिरयिषुः, समीरिरयिष्य
ईरिरयिषितव्यम्, ईरिरयिषम्
ईरिरयिषणियम्
ईरिरयिषित्वा २। -- इत्यादि रूपाणि।
7
प्रासङ्गिक्यः
01
=>
(८४)
02
=>
(१०-चुरादिः-१८११-सक। सेट्। उभ। आधृषीयः)
03
=>
(श्लो। १५३)
04
=>
(ग। सू। चुरादौ)
05
=>
(८३)
06
=>
(१-३-७८)
07
=>
[पृष्ठम्००८६+ २४]
Capeller
German
ईर u. ईरण
m.
Wind.