| YouTube Channel

ईदृशः (IdRzaH)

 
E Bharati Sampat
Sanskrit
(पुं) अयमिव पश्यति इदम्+दृशिर्(प्रेक्षणे)+क्विन् कर्मकर्त०’, ‘त्यदादिषु दृशोऽनालोचने कञ्च’ ३.२.६०, ‘इदंकिमोरीशकी’ ६.३.९०। १.एवं विधः। ‘इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः’ किरा०२.२८। (वि) इदम्+दृशिर्(प्रेक्षणे)+कञ् ३.२.६०। ईदृक् २.एवं विधः। (स्त्री) ईदृशी ‘तेजसः महतः ईदृशी गतिः’ कुमार०८.४३।
शब्दकल्पद्रुमः
Sanskrit
ईदृशः, त्रि, (अयमिव दृश्यतेऽसौ इदम् + दृश् +कञ् ।) ईदृक् एतत्सदृशः इति व्याकरणम्
(“ईदृशानां विपाकोऽपि जायते परमाद्भुतः” ।इति उत्तररामचरिते ।)