| YouTube Channel

ईड (IDa)

 
शब्दसागरः
English
ईड r. 2nd cl. (ईट्टे) also 10th cl. (ईडयति) To praise.
Wilson
English
ईड r. 2nd cl. (ईट्टे) also 10th cl. (ईडयति) To praise.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ईड्
मूलधातुः:
ईड
धात्वर्थः:
स्तुतौ
गणः:
अदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ईडे
धातुः:
ईड्
मूलधातुः:
ईड
धात्वर्थः:
गतौ
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
ईडयति
धातुप्रदीपः
Sanskrit
ईडँ ईड स्तुतौ
- ईट्टे ईडाते ईडते ईडाञ्चक्रे ईडिषे ईडिध्वे ईडिष्व ईडिध्वम् ईड्यः ईडा ।। 9 ।।
ईडँ ईड स्तुतौ
- ईडयति ईडयामास ऐडिडत् 130
शब्दकल्पद्रुमः
Sanskrit
ईड, क, स्तुतौ इति कविकल्पद्रुमः
(चूरां-परं-सकं-सेट् ।) ईडयति इति दुर्गादासः
ईड, ल, स्तुतौ इति कविकल्पद्रुमः
(अदां-आत्मं -सकं -सेट् ।) ईट्टे इति दुर्गादासः
(यथा, रामायणे काण्डे ।“गन्धर्ब्बाः सुरसंघाश्च बहवश्च महर्षयः ।अन्तरीक्षगतं देवं गीर्भिरग्र्याभिरीडिरे”
)
वाचस्पत्यम्
Sanskrit
ईड स्तुतौ अदा० आत्म०
सक०
सेट् ईड्वे ईडिषे ईडिध्वंऐडिष्ट ईडाम्--बभूव आस चक्रे ईडिता ईडिष्यते ऐडि-ष्यत ईद्ध्यः ईडितः ईडनम् ईडा “अग्निमीडे पुरौ-हितम्” ऋ० १, १, डकारं लकारतया बह्वृचाःपठन्ति “अज्मध्यस्थडकारञ्च लकारं बह्वृचा जगुः ।अज्मध्यस्थढकारञ्च ल्हकारं तु यथाक्रममिति” ऋ० भा०वाक्योक्तेः वङ्गदेशसम्प्रदायस्तु तयोः अज्मध्यस्थयोःडढकारतया पाठः इति भेदः यास्कस्तु “ईडिरध्येषणक-र्म्मा पूजाकर्मा चेत्याह “गन्धर्वाः सुरसङ्घाश्च बहवश्च मह-र्षयः अन्तरीक्षं गतं देवं गीर्भिरग्र्यामिरीडिरे” रामा०“नेडिषे यदि काकुत्स्थम्” भट्टिः “ईडानो देवा इष्टानाम्”ऋ० १०, ६६, १४ “भवन्तमीड्यं भवतः पितेव” ।“शालीनतामव्रजदीद्ध्यमानः” इति रघुः “अग्निःपूर्व्वेभिरृषिभिरीड्योनूतनैरुत” ऋ० १, १, णिचिईडयति ते ऐडिडत्
क्षीरतरङ्गिणी
Sanskrit
ईडँ ईड स्तुतौ
- ईट्टे, ईडिता ईडजनोर्ध्वे (7278) इतीटि ईडिषे, ईडिध्वे ईडा इडाया वा (8354) इति लिङ्गाद् इडा ईड्यः 9
ईडँ ईड स्तुतौ
- ईडयति अदादौ (212) ईट्टे 129
धातुवृत्तिः
Sanskrit
ईडँ ईड (अर्थः) स्तुतौ
( ईट्टे ) ष्टुत्वचर्त्वे ( ईडाते ईडिषे, ईडिध्वे ईडे, ईड्वहे, ) ( सूत्रम्) ईडजनोर्ध्वे (इति सूत्रम्) अत्र ईश इति वर्त्तते से इति च, ईशीडिजनीभ्यः सेध्वेशब्दयोः सार्व्वधातुकयोरितीट् ( ईडांचक्रे ईडिता, ईडितासे ईडिताहे ईडिष्यते, ईट्टाम् ईडाताम् ईडिष्व ईडिध्वम् ईडै ) "सवाभ्यां वामौ'' इति वामयोः कृतयोरप्येकदेशविकृतस्यानन्यत्वात्सेध्वेशब्दावेवेतीट् ( ऐट्ट ऐडाताम् ऐट्टाः ऐड्ध्वं, ) विकृतिग्रहणे प्रकृतिग्रहणाभावान्नेट् (ऐडि ऐड्वहि ईडीत ईडीथाः ईडिध्वम्, इडिय) आशिषि ईडिषीष्ट ईडिषीष्ठाः ईडिषीध्वम्, ईडिषीय ऐडिष्ट ऐडिध्वम् ऐडिषि, ) कर्म्मणि ( ईड्यते ) इत्यादि (ईडिडिषते ईडयति माभवानीडिडत् ईडा ) "गुरोश्च हल'' इत्यकारः "ईडाया वा'' इति निर्द्देशाद्ध्रस्वः ( ईड्यः ) स्तुत्यः, ण्यत् "ईडवन्दवृशंसदुहां ण्यतः'' इत्याद्युदात्तत्त्वम्, (इडेन्यः) औणादिक एन्यप्रत्ययो बाहुलकात् अयं चुरादौ 9
ईडँ ईड (अर्थः) स्तुतौ
ईडयति ऐडिडत् ) ईट्ट इत्यदादौ 133
कृदन्तरूपमाला
Sanskrit
1 {@“ईड स्तुतौ”@} 2 ‘--स्तुत्यामीट्टे तत्रेडयेण्णिचि।’ 3 इति देवः।
ईडकः-डिका, ईडकः-डिका, ईडिडिषकः-षिका
ईडिता-त्री, ईडयिता-त्री, ईडिडिषिता-त्री
-- ईडयन्-न्ती, ईडयिष्यन्-न्ती-ती
ईडानः, ईडयमानः, ईडिडिषमाणः
ईडिष्यमाणः, ईडयिष्यमाणः, ईडिडिषिष्यमाणः
ईट्-ईडौ-ईडः
-- -- ईडितः-तं-तवान्, ईडितः-तं, ईडिडिषितः-तवान्
ईडः, ईडः, ईडिडिषुः, ईडिडयिषुः
ईडितव्यम्, ईडयितव्यम्, ईडिडिषितव्यम्
ईडनीयम्, ईडनीयम्, ईडिडिषणीयम्
4 ईड्यम्, ईड्यम्, ईडिडिष्यम्
ईषदीडः, दुरीडः, स्वीडः
-- ईड्यमानः, ईड्यमानः, ईडिडिष्यमाणः
ईडः, ईडः, ईडिडिषः
ईडितुम्, ईडयितुम्, ईडिडिषितुम्
5 ईडा 6, ईडना, ईडिडिषा, ईडिडयिषा
ईडनम्, ईडनम्, ईडिडिषणम्
ईडित्वा, ईडयित्वा, ईडिडिषित्वा
समीड्य, समीड्य, समीडिडिष्य
ईडम् २, ईडित्वा २, ईडम् २, ईडयित्वा २, ईडिडिषम्
ईडिडिषित्वा २।
प्रासङ्गिक्यः
01
=>
(८२)
02
=>
(२-अदादिः-१०१९। सक। से। आत्म।)
03
=>
(श्लो-८४)
04
=>
[[आ। ‘ईड्योऽयमीशः समुपास्तिशीलैराशासितः पीतपटीं वसानः। स्वीयैश्चकंसे कश- नीयकासी रमोष्ठनिंसी नतचित्तनिञ्जी।।’ धा। का। २-४५।]]
05
=>
[पृष्ठम्००८३+ २६]
06
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यः प्रत्ययः।]]
1 {@“ईड स्तुतौ”@} 2 ‘--स्तुत्यामीट्टे तत्रेडयेण्णिचि।’ 3 इति देवः।
ईडकः-डिका, ईडिडयिषकः-षिका
ईडयिता-त्री, ईडिडयिषिता-त्री
ईडयन्-न्ती, ईडिडयिषन्-न्ती
ईडयिष्यन्-न्ती-ती, ईडिडयिषिष्यन्-न्ती-ती
ईडयमानः, ईडिडयिषमाणः
ईडयिष्यमाणः, ईडिडयिषिष्यमाणः
ईट्-ईडौ-ईडः
-- ईडितम्-तः, ईडिडयिषितः-तवान्
ईडः, ईडिडयिषुः
ईडयितव्यम्, ईडिडयिषितव्यम्
ईडनीयम्, ईडिडयिषणीयम्
4 ईड्यम्, ईडिडयिष्यम्
ईषदीडः-दुरीडः-स्वीडः
-- ईड्यमानः, ईडिडयिष्यमाणः
ईडः, ईडिडयिषः
ईडयितुम्, ईडिडयिषितुम्
ईडना, ईडिडयिषा
5 ईडनम्, ईडिडयिषणम्
ईडयित्वा, ईडिडयिषित्वा
समीड्य, समीडिडयिष्य
ईडम् २, ईडयित्वा २, ईडिडयिषम्
ईडिडयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(८२-आ)
02
=>
(१०-चुरादिः-१६६८। सक। सेट्। उभय।)
03
=>
(श्लो-८४)
04
=>
[[आ। ‘खेदस्त्वियान् पटहगर्दनगर्जिताशे रङ्गे सगर्धनसुगर्दितवीरलोके। मञ्चाग्रपूर्वितनृपे शिशुना रणं वः स्यादेव मानपरिजंसकमीड्यधाम्नाम्।।’ धा। का। ३-३१।]]
05
=>
[पृष्ठम्००८४+ ३०]